Ṛk 2.20.3
Saṃhitā
स नो॒ युवेंद्रो॑ जो॒हूत्रः॒ सखा॑ शि॒वो न॒राम॑स्तु पा॒ता ।
यः शंसं॑तं॒ यः श॑शमा॒नमू॒ती पचं॑तं च स्तु॒वंतं॑ च प्र॒णेष॑त् ॥
स नो युवेन्द्रो जोहूत्रः सखा शिवो नराम् अस्तु पाता |
यः शंसन्तं यः शशमानम् ऊती पचन्तं च स्तुवन्तं च प्रणेषत् ||
sá no yúvéndro johū́traḥ sákhā śivó narā́mastu pātā́ ǀ
yáḥ śáṃsantam yáḥ śaśamānámūtī́ pácantam ca stuvántam ca praṇéṣat ǁ
sa no yuvendro johūtraḥ sakhā śivo narām astu pātā |
yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat ||
Padapāṭha
सः । नः॒ । युवा॑ । इन्द्रः॑ । जो॒हूत्रः॑ । सखा॑ । शि॒वः । न॒राम् । अ॒स्तु॒ । पा॒ता ।
यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती । पच॑न्तम् । च॒ । स्तु॒वन्त॑म् । च॒ । प्र॒ऽनेष॑त् ॥
सः । नः । युवा । इन्द्रः । जोहूत्रः । सखा । शिवः । नराम् । अस्तु । पाता ।
यः । शंसन्तम् । यः । शशमानम् । ऊती । पचन्तम् । च । स्तुवन्तम् । च । प्रऽनेषत् ॥
sáḥ ǀ naḥ ǀ yúvā ǀ índraḥ ǀ johū́traḥ ǀ sákhā ǀ śiváḥ ǀ narā́m ǀ astu ǀ pātā́ ǀ
yáḥ ǀ śáṃsantam ǀ yáḥ ǀ śaśamānám ǀ ūtī́ ǀ pácantam ǀ ca ǀ stuvántam ǀ ca ǀ pra-néṣat ǁ
saḥ ǀ naḥ ǀ yuvā ǀ indraḥ ǀ johūtraḥ ǀ sakhā ǀ śivaḥ ǀ narām ǀ astu ǀ pātā ǀ
yaḥ ǀ śaṃsantam ǀ yaḥ ǀ śaśamānam ǀ ūtī ǀ pacantam ǀ ca ǀ stuvantam ǀ ca ǀ pra-neṣat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.020.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.25.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.089
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh, Virāḍrūpā
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.