Ṛk 2.20.7
Saṃhitā
स वृ॑त्र॒हेंद्रः॑ कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि ।
अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ॥
स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीर् ऐरयद् वि |
अजनयन् मनवे क्षाम् अपश् च सत्रा शंसं यजमानस्य तूतोत् ||
sá vṛtrahéndraḥ kṛṣṇáyonīḥ puraṃdaró dā́sīrairayadví ǀ
ájanayanmánave kṣā́mapáśca satrā́ śáṃsam yájamānasya tūtot ǁ
sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi |
ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot ||
Padapāṭha
सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । कृ॒ष्णऽयो॑नीः । पु॒र॒म्ऽद॒रः । दासीः॑ । ऐ॒र॒य॒त् । वि ।
अज॑नयत् । मन॑वे । क्षाम् । अ॒पः । च॒ । स॒त्रा । शंस॑म् । यज॑मानस्य । तू॒तो॒त् ॥
सः । वृत्रऽहा । इन्द्रः । कृष्णऽयोनीः । पुरम्ऽदरः । दासीः । ऐरयत् । वि ।
अजनयत् । मनवे । क्षाम् । अपः । च । सत्रा । शंसम् । यजमानस्य । तूतोत् ॥
sáḥ ǀ vṛtra-hā́ ǀ índraḥ ǀ kṛṣṇá-yonīḥ ǀ puram-daráḥ ǀ dā́sīḥ ǀ airayat ǀ ví ǀ
ájanayat ǀ mánave ǀ kṣā́m ǀ apáḥ ǀ ca ǀ satrā́ ǀ śáṃsam ǀ yájamānasya ǀ tūtot ǁ
saḥ ǀ vṛtra-hā ǀ indraḥ ǀ kṛṣṇa-yonīḥ ǀ puram-daraḥ ǀ dāsīḥ ǀ airayat ǀ vi ǀ
ajanayat ǀ manave ǀ kṣām ǀ apaḥ ǀ ca ǀ satrā ǀ śaṃsam ǀ yajamānasya ǀ tūtot ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.020.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.26.02
- Maṇḍala · Anuvāka · Ṛk
- 02.02.093
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh, Virāḍrūpā
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.