MuA zu RHT, 13, 1.2
Select a line for its word-by-word analysis.
मधुनि माधव एव मधुव्रतः प्रकुरुते मुदितो मधुरं रवम् । (१।१)
madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam |
वररवोऽपि सतां च समागमं शबलता किमुपैति न चारुताम् ॥ (१।२)
vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām ||
संकरबीजानां मध्ये महाबीजसंज्ञान्याह माक्षिकेत्यादि ॥ (२।०)
saṃkarabījānāṃ madhye mahābījasaṃjñānyāha mākṣiketyādi ||
एतत्त्रिकं महाबीजं किमेतत् माक्षीककान्ततीक्ष्णं माक्षीककान्तशुल्बं तीक्ष्णाभ्रकं च माक्षीकं ताप्यं कान्तं चुम्बकं शुल्बं ताम्रं तीक्ष्णं लोहजातिर् अभ्रकं गगनं एतत्त्रितयं बीजं महाबीजं एतत्त्रित्रिमुखं प्रत्येकं महासंज्ञम् ॥ (३।०)
etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam ||
अवान्तरत्वेन च प्रत्येकं द्रव्यं बीजसंज्ञाभिमतम् ॥ (५।०)
avāntaratvena ca pratyekaṃ dravyaṃ bījasaṃjñābhimatam ||
Data courtesy of The Digital Corpus of Sanskrit.