चरकसंहिताCarakasaṃhitā

Ca, 1, 14

14 of 82 · 135 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः स्वेदाध्यायं व्याख्यास्यामः ॥ (१।१)

athātaḥ svedādhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

इति ह स्माह भगवानात्रेयः ॥ (२।१)

iti ha smāha bhagavānātreyaḥ ||

3.1३.१

अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः । (३।१)

ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ |

3.2३.२

स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः ॥ (३।२)

svedasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ ||

4.1४.१

स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजिते ऽनिले । (४।१)

snehapūrvaṃ prayuktena svedenāvajite 'nile |

4.2४.२

पुरीषमूत्ररेतांसि न सजन्ति कथंचन ॥ (४।२)

purīṣamūtraretāṃsi na sajanti kathaṃcana ||

5.1५.१

शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः । (५।१)

śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ |

5.2५.२

नमयन्ति यथान्यायं किं पुनर्जीवतो नरान् ॥ (५।२)

namayanti yathānyāyaṃ kiṃ punarjīvato narān ||

6.1६.१

रोगर्तुव्याधितापेक्षो नात्युष्णो ऽतिमृदुर्न च । (६।१)

rogartuvyādhitāpekṣo nātyuṣṇo 'timṛdurna ca |

6.2६.२

द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः ॥ (६।२)

dravyavān kalpito deśe svedaḥ kāryakaro mataḥ ||

7.1७.१

व्याधौ शीते शरीरे च महान् स्वेदो महाबले । (७।१)

vyādhau śīte śarīre ca mahān svedo mahābale |

7.2७.२

दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः ॥ (७।२)

durbale durbalaḥ svedo madhyame madhyamo hitaḥ ||

8.1८.१

वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते । (८।१)

vātaśleṣmaṇi vāte vā kaphe vā sveda iṣyate |

8.2८.२

स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः ॥ (८।२)

snigdharūkṣastathā snigdho rūkṣaścāpyupakalpitaḥ ||

9.1९.१

आमाशयगते वाते कफे पक्वाशयाश्रिते । (९।१)

āmāśayagate vāte kaphe pakvāśayāśrite |

9.2९.२

रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च ॥ (९।२)

rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca ||

10.1१०.१

वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा । (१०।१)

vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva vā |

10.2१०.२

मध्यमं वङ्क्षणौ शेषमङ्गावयवमिष्टतः ॥ (१०।२)

madhyamaṃ vaṅkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ ||

11.1११.१

सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा । (११।१)

suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi vā |

11.2११.२

पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी ॥ (११।२)

padmotpalapalāśairvā svedyaḥ saṃvṛtya cakṣuṣī ||

12.1१२.१

मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि । (१२।१)

muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi |

12.2१२.२

जलार्द्रैर्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत् ॥ (१२।२)

jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet ||

13.1१३.१

शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे । (१३।१)

śītaśūlavyuparame stambhagauravanigrahe |

13.2१३.२

संजाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता ॥ (१३।२)

saṃjāte mārdave svede svedanādviratirmatā ||

14.1१४.१

पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा । (१४।१)

pittaprakopo mūrcchā ca śarīrasadanaṃ tṛṣā |

14.2१४.२

दाहः स्वराङ्गदौर्बल्यम् अतिस्विन्नस्य लक्षणम् ॥ (१४।२)

dāhaḥ svarāṅgadaurbalyam atisvinnasya lakṣaṇam ||

15.1१५.१

उक्तस्तस्याशितीये यो ग्रैष्मिकः सर्वशो विधिः । (१५।१)

uktastasyāśitīye yo graiṣmikaḥ sarvaśo vidhiḥ |

15.2१५.२

सो ऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः ॥ (१५।२)

so 'tisvinnasya kartavyo madhuraḥ snigdhaśītalaḥ ||

16.1१६.१

कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिनाम् । (१६।१)

kaṣāyamadyanityānāṃ garbhiṇyā raktapittinām |

16.2१६.२

पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम् ॥ (१६।२)

pittināṃ sātisārāṇāṃ rūkṣāṇāṃ madhumehinām ||

17.1१७.१

विदग्धभ्रष्टब्रध्नानां विषमद्यविकारिणाम् । (१७।१)

vidagdhabhraṣṭabradhnānāṃ viṣamadyavikāriṇām |

17.2१७.२

श्रान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहिनाम् ॥ (१७।२)

śrāntānāṃ naṣṭasaṃjñānāṃ sthūlānāṃ pittamehinām ||

18.1१८.१

तृष्यतां क्षुधितानां च क्रुद्धानां शोचतामपि । (१८।१)

tṛṣyatāṃ kṣudhitānāṃ ca kruddhānāṃ śocatāmapi |

18.2१८.२

कामल्युदरिणां चैव क्षतानाम् आढ्यरोगिणाम् ॥ (१८।२)

kāmalyudariṇāṃ caiva kṣatānām āḍhyarogiṇām ||

19.1१९.१

दुर्बलातिविशुष्काणामुपक्षीणौजसां तथा । (१९।१)

durbalātiviśuṣkāṇāmupakṣīṇaujasāṃ tathā |

19.2१९.२

भिषक् तैमिरिकाणां च न स्वेदमवतारयेत् ॥ (१९।२)

bhiṣak taimirikāṇāṃ ca na svedamavatārayet ||

20.1२०.१

प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे । (२०।१)

pratiśyāye ca kāse ca hikkāśvāseṣvalāghave |

20.2२०.२

कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे ॥ (२०।२)

karṇamanyāśiraḥśūle svarabhede galagrahe ||

21.1२१.१

अर्दितैकाङ्गसर्वाङ्गपक्षाघाते विनामके । (२१।१)

arditaikāṅgasarvāṅgapakṣāghāte vināmake |

21.2२१.२

कोष्ठानाहविबन्धेषु मूत्राघाते विजृम्भके ॥ (२१।२)

koṣṭhānāhavibandheṣu mūtrāghāte vijṛmbhake ||

22.1२२.१

पार्श्वपृष्ठकटीकुक्षिसंग्रहे गृध्रसीषु च । (२२।१)

pārśvapṛṣṭhakaṭīkukṣisaṃgrahe gṛdhrasīṣu ca |

22.2२२.२

मूत्रकृच्छ्रे महत्त्वे च मुष्कयोरङ्गमर्दके ॥ (२२।२)

mūtrakṛcchre mahattve ca muṣkayoraṅgamardake ||

23.1२३.१

पादजानूरुजङ्घार्तिसंग्रहे श्वयथावपि । (२३।१)

pādajānūrujaṅghārtisaṃgrahe śvayathāvapi |

23.2२३.२

खल्लीष्वामेषु शीते च वेपथौ वातकण्टके ॥ (२३।२)

khallīṣvāmeṣu śīte ca vepathau vātakaṇṭake ||

24.1२४.१

संकोचायामशूलेषु स्तम्भगौरवसुप्तिषु । (२४।१)

saṃkocāyāmaśūleṣu stambhagauravasuptiṣu |

24.2२४.२

सर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते ॥ (२४।२)

sarvāṅgeṣu vikāreṣu svedanaṃ hitamucyate ||

25.1२५.१

तिलमाषकुलत्थाम्लघृततैलामिषौदनैः । (२५।१)

tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ |

25.2२५.२

पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत् ॥ (२५।२)

pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedaṃ prayojayet ||

26.1२६.१

गोखरोष्ट्रवराहाश्वशकृद्भिः सतुषैर्यवैः । (२६।१)

gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ |

26.2२६.२

सिकतापांशुपाषाणकरीषायसपूटकैः ॥ (२६।२)

sikatāpāṃśupāṣāṇakarīṣāyasapūṭakaiḥ ||

27.1२७.१

श्लैष्मिकान् स्वेदयेत् पूर्वैर्वातिकान् समुपाचरेत् । (२७।१)

ślaiṣmikān svedayet pūrvairvātikān samupācaret |

27.2२७.२

द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि ॥ (२७।२)

dravyāṇyetāni śasyante yathāsvaṃ prastareṣvapi ||

28.1२८.१

भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च । (२८।१)

bhūgṛheṣu ca jentākeṣūṣṇagarbhagṛheṣu ca |

28.2२८.२

विधूमाङ्गारतप्तेषु स्वभ्यक्तः स्विद्यते सुखम् ॥ (२८।२)

vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham ||

29.1२९.१

ग्राम्यानूपौदकं मांसं पयो बस्तशिरस्तथा । (२९।१)

grāmyānūpaudakaṃ māṃsaṃ payo bastaśirastathā |

29.2२९.२

वराहमध्यपित्तासृक् स्नेहवत्तिलतण्डुलाः ॥ (२९।२)

varāhamadhyapittāsṛk snehavattilataṇḍulāḥ ||

30.1३०.१

इत्येतानि समुत्क्वाथ्य नाडीस्वेदं प्रयोजयेत् । (३०।१)

ityetāni samutkvāthya nāḍīsvedaṃ prayojayet |

30.2३०.२

देशकालविभागज्ञो युक्त्यपेक्षो भिषक्तमः ॥ (३०।२)

deśakālavibhāgajño yuktyapekṣo bhiṣaktamaḥ ||

31.1३१.१

वारुणामृतकैरण्डशिग्रुमूलकसर्षपैः । (३१।१)

vāruṇāmṛtakairaṇḍaśigrumūlakasarṣapaiḥ |

31.2३१.२

वासावंशकरञ्जार्कपत्रैरश्मन्तकस्य च ॥ (३१।२)

vāsāvaṃśakarañjārkapatrairaśmantakasya ca ||

32.1३२.१

शोभाञ्जनकसैरेयमालतीसुरसार्जकैः । (३२।१)

śobhāñjanakasaireyamālatīsurasārjakaiḥ |

32.2३२.२

पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत् ॥ (३२।२)

patrairutkvāthya salilaṃ nāḍīsvedaṃ prayojayet ||

33.1३३.१

भूतीकपञ्चमूलाभ्यां सुरया दधिमस्तुना । (३३।१)

bhūtīkapañcamūlābhyāṃ surayā dadhimastunā |

33.2३३.२

मूत्रैरम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत् ॥ (३३।२)

mūtrairamlaiśca sasnehairnāḍīsvedaṃ prayojayet ||

34.1३४.१

एत एव च निर्यूहाः प्रयोज्या जलकोष्ठके । (३४।१)

eta eva ca niryūhāḥ prayojyā jalakoṣṭhake |

34.2३४.२

स्वेदनार्थं घृतक्षीरतैलकोष्ठांश्च कारयेत् ॥ (३४।२)

svedanārthaṃ ghṛtakṣīratailakoṣṭhāṃśca kārayet ||

35.1३५.१

गोधूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः । (३५।१)

godhūmaśakalaiścūrṇairyavānāmamlasaṃyutaiḥ |

35.2३५.२

सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते ॥ (३५।२)

sasnehakiṇvalavaṇairupanāhaḥ praśasyate ||

36.1३६.१

गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया । (३६।१)

gandhaiḥ surāyāḥ kiṇvena jīvantyā śatapuṣpayā |

36.2३६.२

उमया कुष्ठतैलाभ्यां युक्तया चोपनाहयेत् ॥ (३६।२)

umayā kuṣṭhatailābhyāṃ yuktayā copanāhayet ||

37.1३७.१

चर्मभिश्चोपनद्धव्यः सलोमभिरपूतिभिः । (३७।१)

carmabhiścopanaddhavyaḥ salomabhirapūtibhiḥ |

37.2३७.२

उष्णवीर्यैरलाभे तु कौशेयाविकशाटकैः ॥ (३७।२)

uṣṇavīryairalābhe tu kauśeyāvikaśāṭakaiḥ ||

38.1३८.१

रात्रौ बद्धं दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवा कृतम् । (३८।१)

rātrau baddhaṃ divā muñcenmuñcedrātrau divā kṛtam |

38.2३८.२

विदाहपरिहारार्थं स्यात् प्रकर्षस्तु शीतले ॥ (३८।२)

vidāhaparihārārthaṃ syāt prakarṣastu śītale ||

39.1३९.१

सङ्करः प्रस्तरो नाडी परिषेको ऽवगाहनम् । (३९।१)

saṅkaraḥ prastaro nāḍī pariṣeko 'vagāhanam |

39.2३९.२

जेन्ताको ऽश्मघनः कर्षूः कुटी भूः कुम्भिकैव च ॥ (३९।२)

jentāko 'śmaghanaḥ karṣūḥ kuṭī bhūḥ kumbhikaiva ca ||

40.1४०.१

कूपो होलाक इत्येते स्वेदयन्ति त्रयोदश । (४०।१)

kūpo holāka ityete svedayanti trayodaśa |

40.2४०.२

तान् यथावत् प्रवक्ष्यामि सर्वानेवानुपूर्वशः ॥ (४०।२)

tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ ||

41.1४१.१

तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं सङ्करस्वेद इति विद्यात् ॥ (४१।१)

tatra vastrāntaritairavastrāntaritairvā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt ||

42.1४२.१

शूकशमीधान्यपुलाकानां वेशवारपायसकृशरोत्कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदे पञ्चाङ्गुलोरुबूकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्वगात्रस्य शयानस्योपस्वेदनं प्रस्तरस्वेद इति विद्यात् ॥ (४२।१)

śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt ||

43.1४३.१

स्वेदनद्रव्याणां पुनर्मूलफलपत्रशुङ्गादीनां मृगशकुनपिशितशिरस्पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवणस्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां बाष्पमनुद्वमन्त्यामुत्क्वथितानां नाड्या शरेषीकावंशदलकरञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घया व्यामार्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्वा विनामितया वातहरसिद्धस्नेहाभ्यक्तगात्रो बाष्पमुपहरेत् बाष्पो ह्यनृजुगामी विहतचण्डवेगस्त्वचम् अविदहन् सुखं स्वेदयतीति नाडीस्वेदः ॥ (४३।१)

svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ ||

44.1४४.१

वातिकोत्तरवातिकानां पुनर्मूलादीनाम् उत्क्वाथैः सुखोष्णैः कुम्भीर् वर्षणिकाः प्रनाडीर् वा पूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिषेचयेदिति परिषेकः ॥ (४४।१)

vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ ||

45.1४५.१

वातहरोत्क्वाथक्षीरतैलघृतपिशितरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः ॥ (४५।१)

vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ ||

46.1४६.१

अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत तत्र पूर्वस्यां दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमधुरमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौ वारत्नीर् उपक्रम्योदकात् प्राङ्मुखमुदङ्मुखं वाभिमुखतीर्थं कूटागारं कारयेत् उत्सेधविस्तारतः परमरत्नीः षोडश समन्तात् सुवृत्तं मृत्कर्मसम्पन्नम् अनेकवातायनम् अस्य कूटागारस्यान्तः समन्ततो भित्तिमरत्निविस्तारोत्सेधां पिण्डिकां कारयेद् आ कपाटात् मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्रं पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत् तं च खादिराणाम् आश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत् स यदा जानीयात् साधु दग्धानि काष्ठानि गतधूमान्यवतप्तं च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति तत्रैनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयंश्चैनमनुशिष्यात् सौम्य प्रविश कल्याणायारोग्याय चेति प्रविश्य चैनां पिण्डिकामधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः न च त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डिकैषा विमोक्तव्या आ प्राणोच्छ्वासात् भ्रश्यमानो ह्यतः पिण्डिवकावकाशाद् द्वारम् अनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणाञ्जह्याः तस्मात् पिण्डिकामेनां न कथंचन मुञ्चेथाः त्वं यदा जानीयाः विगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेदपिच्छं सर्वस्रोतोविमुक्तं लघूभूतम् अपगतविबन्धस्तम्भसुप्तिवेदनागौरवम् इति ततस्तां पिण्डिकामनुसरन् द्वारं प्रपद्येथाः निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकम् उपस्पृशेथाः अपगतसन्तापक्लमस्तु मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तो ऽश्नीयाः इति जेन्ताकस्वेदः ॥ (४६।१)

atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukhamudaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ ||

47.1४७.१

शयानस्य प्रमाणेन घनामश्ममयीं शिलाम् । (४७।१)

śayānasya pramāṇena ghanāmaśmamayīṃ śilām |

47.2४७.२

तापयित्वा मारुतघ्नैर्दारुभिः सम्प्रदीपितैः ॥ (४७।२)

tāpayitvā mārutaghnairdārubhiḥ sampradīpitaiḥ ||

48.1४८.१

व्यपोझ्य सर्वानङ्गारान् प्रोक्ष्य चैवोष्णवारिणा । (४८।१)

vyapojhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā |

48.2४८.२

तां शिलामथ कुर्वीत कौशेयाविकसंस्तराम् ॥ (४८।२)

tāṃ śilāmatha kurvīta kauśeyāvikasaṃstarām ||

49.1४९.१

तस्यां स्वभ्यक्तसर्वाङ्गः स्वपन् स्विद्यति ना सुखम् । (४९।१)

tasyāṃ svabhyaktasarvāṅgaḥ svapan svidyati nā sukham |

49.2४९.२

कौरवाजिनकौशेयप्रावाराद्यैः सुसंवृतः ॥ (४९।२)

kauravājinakauśeyaprāvārādyaiḥ susaṃvṛtaḥ ||

50.1५०.१

इत्युक्तो ऽश्मघनस्वेदः कर्षूस्वेदः प्रवक्ष्यते । (५०।१)

ityukto 'śmaghanasvedaḥ karṣūsvedaḥ pravakṣyate |

50.2५०.२

खानयेच्छयनस्याधः कर्षूं स्थानविभागवित् ॥ (५०।२)

khānayecchayanasyādhaḥ karṣūṃ sthānavibhāgavit ||

51.1५१.१

दीप्तैरधूमैरङ्गारैस्तां कर्षूं पूरयेत्ततः । (५१।१)

dīptairadhūmairaṅgāraistāṃ karṣūṃ pūrayettataḥ |

51.2५१.२

तस्यामुपरि शय्यायां स्वपन् स्विद्यति ना सुखम् ॥ (५१।२)

tasyāmupari śayyāyāṃ svapan svidyati nā sukham ||

52.1५२.१

अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम् । (५२।१)

anatyutsedhavistārāṃ vṛttākārāmalocanām |

52.2५२.२

घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः संप्रलेपयेत् ॥ (५२।२)

ghanabhittiṃ kuṭīṃ kṛtvā kuṣṭhādyaiḥ saṃpralepayet ||

53.1५३.१

कुटीमध्ये भिषक् शय्यां स्वास्तीर्णामुपकल्पयेत् । (५३।१)

kuṭīmadhye bhiṣak śayyāṃ svāstīrṇāmupakalpayet |

53.2५३.२

प्रावाराजिनकौशेयकुथकम्बलगोलकैः ॥ (५३।२)

prāvārājinakauśeyakuthakambalagolakaiḥ ||

54.1५४.१

हसन्तिकाभिरङ्गारपूर्णाभिस्तां च सर्वशः । (५४।१)

hasantikābhiraṅgārapūrṇābhistāṃ ca sarvaśaḥ |

54.2५४.२

परिवार्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम् ॥ (५४।२)

parivāryāntarārohedabhyaktaḥ svidyate sukham ||

55.1५५.१

य एवाश्मघनस्वेदविधिर्भूमौ स एव तु । (५५।१)

ya evāśmaghanasvedavidhirbhūmau sa eva tu |

55.2५५.२

प्रशस्तायां निवातायां समायामुपदिश्यते ॥ (५५।२)

praśastāyāṃ nivātāyāṃ samāyāmupadiśyate ||

56.1५६.१

कुम्भीं वातहरक्वाथपूर्णां भूमौ निखानयेत् । (५६।१)

kumbhīṃ vātaharakvāthapūrṇāṃ bhūmau nikhānayet |

56.2५६.२

अर्धभागं त्रिभागं वा शयनं तत्र चोपरि ॥ (५६।२)

ardhabhāgaṃ tribhāgaṃ vā śayanaṃ tatra copari ||

57.1५७.१

स्थापयेदासनं वापि नातिसान्द्रपरिच्छदम् । (५७।१)

sthāpayedāsanaṃ vāpi nātisāndraparicchadam |

57.2५७.२

अथ कुम्भ्यां सुसंतप्तान् प्रक्षिपेदयसो गुडान् ॥ (५७।२)

atha kumbhyāṃ susaṃtaptān prakṣipedayaso guḍān ||

58.1५८.१

पाषाणान् वोष्मणा तेन तत्स्थः स्विद्यति ना सुखम् । (५८।१)

pāṣāṇān voṣmaṇā tena tatsthaḥ svidyati nā sukham |

58.2५८.२

सुसंवृताङ्गः स्वभ्यक्तः स्नेहैरनिलनाशनैः ॥ (५८।२)

susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ ||

59.1५९.१

कूपं शयनविस्तारं द्विगुणं चापि वेधतः । (५९।१)

kūpaṃ śayanavistāraṃ dviguṇaṃ cāpi vedhataḥ |

59.2५९.२

देशे निवाते शस्ते च कुर्यादन्तःसुमार्जितम् ॥ (५९।२)

deśe nivāte śaste ca kuryādantaḥsumārjitam ||

60.1६०.१

हस्त्यश्वगोखरोष्ट्राणां करीषैर्दग्धपूरिते । (६०।१)

hastyaśvagokharoṣṭrāṇāṃ karīṣairdagdhapūrite |

60.2६०.२

स्ववच्छन्नः सुसंस्तीर्णे ऽभ्यक्तः स्विद्यति ना सुखम् ॥ (६०।२)

svavacchannaḥ susaṃstīrṇe 'bhyaktaḥ svidyati nā sukham ||

61.1६१.१

धीतीकां तु करीषाणां यथोक्तानां प्रदीपयेत् । (६१।१)

dhītīkāṃ tu karīṣāṇāṃ yathoktānāṃ pradīpayet |

61.2६१.२

शयनान्तःप्रमाणेन शय्यामुपरि तत्र च ॥ (६१।२)

śayanāntaḥpramāṇena śayyāmupari tatra ca ||

62.1६२.१

सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत् । (६२।१)

sudagdhāyāṃ vidhūmāyāṃ yathoktāmupakalpayet |

62.2६२.२

स्ववच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम् ॥ (६२।२)

svavacchannaḥ svapaṃstatrābhyaktaḥ svidyati nā sukham ||

63.1६३.१

होलाकस्वेद इत्येष सुखः प्रोक्तो महर्षिणा । (६३।१)

holākasveda ityeṣa sukhaḥ prokto maharṣiṇā |

63.2६३.२

इति त्रयोदशविधः स्वेदो ऽग्निगुणसंश्रयः ॥ (६३।२)

iti trayodaśavidhaḥ svedo 'gniguṇasaṃśrayaḥ ||

64.1६४.१

व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा । (६४।१)

vyāyāma uṣṇasadanaṃ guruprāvaraṇaṃ kṣudhā |

64.2६४.२

बहुपानं भयक्रोधावुपनाहाहवातपाः ॥ (६४।२)

bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ ||

65.1६५.१

स्वेदयन्ति दशैतानि नरमग्निगुणादृते । (६५।१)

svedayanti daśaitāni naramagniguṇādṛte |

65.2६५.२

इत्युक्तो द्विविधः स्वेदः संयुक्तो ऽग्निगुणैर्न च ॥ (६५।२)

ityukto dvividhaḥ svedaḥ saṃyukto 'gniguṇairna ca ||

66.1६६.१

एकाङ्गसर्वाङ्गतः स्निग्धो रूक्षस्तथैव च । (६६।१)

ekāṅgasarvāṅgataḥ snigdho rūkṣastathaiva ca |

66.2६६.२

इत्येतत्त्रिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्तितम् ॥ (६६।२)

ityetattrividhaṃ dvandvaṃ svedamuddiśya kīrtitam ||

67.1६७.१

स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत् । (६७।१)

snigdhaḥ svedairupakramyaḥ svinnaḥ pathyāśano bhavet |

67.2६७.२

तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः ॥ (६७।२)

tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ ||

68.1६८.१

तत्र श्लोकाः । (६८।१)

tatra ślokāḥ |

68.2६८.२

स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः । (६८।२)

svedo yathā kāryakaro hito yebhyaśca yadvidhaḥ |

68.3६८.३

यत्र देशे यथा योग्यो देशो रक्ष्यश्च यो यथा ॥ (६८।३)

yatra deśe yathā yogyo deśo rakṣyaśca yo yathā ||

69.1६९.१

स्विन्नातिस्विन्नरूपाणि तथातिस्विन्नभेषजम् । (६९।१)

svinnātisvinnarūpāṇi tathātisvinnabheṣajam |

69.2६९.२

अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना ॥ (६९।२)

asvedyāḥ svedayogyāśca svedadravyāṇi kalpanā ||

70.1७०.१

त्रयोदशविधः स्वेदो विना दशविधो ऽग्निना । (७०।१)

trayodaśavidhaḥ svedo vinā daśavidho 'gninā |

70.2७०.२

संग्रहेण च षट् स्वेदाः स्वेदाध्याये निदर्शिताः । (७०।२)

saṃgraheṇa ca ṣaṭ svedāḥ svedādhyāye nidarśitāḥ |

70.3७०.३

स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्षिणा । (७०।३)

svedādhikāre yadvācyamuktametanmaharṣiṇā |

70.4७०.४

शिष्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुः ॥ (७०।४)

śiṣyaistu pratipattavyamupadeṣṭā punarvasuḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Ca, 1, 14

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit