चरकसंहिताCarakasaṃhitā

Ca, 6, 1

67 of 82 · 159 verses

Select a line for its word-by-word analysis.

1.0१.०

यवगोधू मयोर्मत्स्यपयसोः सिंहशूकरयोश्च स्वादुत्वगुरुत्वाभ्यां तुल्यत्वे ऽपि यवमत्स्यसिंहानां विचित्रप्रत्ययारब्धत्वात् वातलप्रभावत्वोष्णवीर्यत्वकटुविपाकित्वानि स्वादुत्वगुरुत्वविपरी अथातो ऽभयामलकीयं रसायनपादं व्याख्यास्यामः ॥ (१।०)

yavagodhū mayormatsyapayasoḥ siṃhaśūkarayośca svādutvagurutvābhyāṃ tulyatve 'pi yavamatsyasiṃhānāṃ vicitrapratyayārabdhatvāt vātalaprabhāvatvoṣṇavīryatvakaṭuvipākitvāni svādutvagurutvaviparī athāto 'bhayāmalakīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ ||

2.0२.०

इति ह स्माह भगवानात्रेयः ॥ (२।०)

iti ha smāha bhagavānātreyaḥ ||

3.1३.१

क्लस्सेन् वोन् अर्ज़्नेइमित्तेल्न्चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् । (३।१)

Klassen von Arzneimittelncikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham |

3.2३.२

प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥ (३।२)

prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam ||

4.1४.१

विद्याद् भेषजनामानि भेषजं द्विविधं च तत् । (४।१)

vidyād bheṣajanāmāni bheṣajaṃ dvividhaṃ ca tat |

4.2४.२

स्वस्थस्योर्जस्करं किंचित् किंचिदार्तस्य रोगनुत् ॥ (४।२)

svasthasyorjaskaraṃ kiṃcit kiṃcidārtasya roganut ||

5.1५.१

अभेषजं च द्विविधं बाधनं सानुबाधनम् । (५।१)

abheṣajaṃ ca dvividhaṃ bādhanaṃ sānubādhanam |

5.2५.२

स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम् ॥ (५।२)

svasthasyorjaskaraṃ yattu tadvṛṣyaṃ tadrasāyanam ||

6.1६.१

प्रायः प्रायेण रोगाणां द्वितीयं प्रशमे मतम् । (६।१)

prāyaḥ prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam |

6.2६.२

प्रायःशब्दो विशेषार्थो ह्य् उभयं ह्य् उभयार्थकृत् ॥ (६।२)

prāyaḥśabdo viśeṣārtho hy ubhayaṃ hy ubhayārthakṛt ||

7.1७.१

Wइर्कुन्गेन् देस् रसायनस्दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः । (७।१)

Wirkungen des rasāyanasdīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ |

7.2७.२

प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम् ॥ (७।२)

prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param ||

8.1८.१

वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात् । (८।१)

vāksiddhiṃ praṇatiṃ kāntiṃ labhate nā rasāyanāt |

8.2८.२

लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥ (८।२)

lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam ||

9.1९.१

अपत्यसंतानकरं यत् सद्यः सम्प्रहर्षणम् । (९।१)

apatyasaṃtānakaraṃ yat sadyaḥ sampraharṣaṇam |

9.2९.२

वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः ॥ (९।२)

vājīvātibalo yena yātyapratihataḥ striyaḥ ||

10.1१०.१

भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते । (१०।१)

bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate |

10.2१०.२

जीर्यतो ऽप्यक्षयं शुक्रं फलवद्येन दृश्यते ॥ (१०।२)

jīryato 'pyakṣayaṃ śukraṃ phalavadyena dṛśyate ||

11.1११.१

प्रभूतशाखः शाखीव येन चैत्यो यथा महान् । (११।१)

prabhūtaśākhaḥ śākhīva yena caityo yathā mahān |

11.2११.२

भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः ॥ (११।२)

bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ ||

12.1१२.१

संतानमूलं येनेह प्रेत्य चानन्त्यमश्नुते । (१२।१)

saṃtānamūlaṃ yeneha pretya cānantyamaśnute |

12.2१२.२

यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत् ॥ (१२।२)

yaśaḥ śriyaṃ balaṃ puṣṭiṃ vājīkaraṇameva tat ||

13.1१३.१

अर्ज़्नेइमित्तेल्त्य्पेन्स्वस्थस्योर्जस्करं त्व् एतद् द्विविधं प्रोक्तम् औषधम् । (१३।१)

Arzneimitteltypensvasthasyorjaskaraṃ tv etad dvividhaṃ proktam auṣadham |

13.2१३.२

यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते ॥ (१३।२)

yadvyādhinirghātakaraṃ vakṣyate taccikitsite ||

14.1१४.१

चिकित्सितार्थ एतावान् विकाराणां यदौषधम् । (१४।१)

cikitsitārtha etāvān vikārāṇāṃ yadauṣadham |

14.2१४.२

रसायनविधिश्चाग्रे वाजीकरणमेव च ॥ (१४।२)

rasāyanavidhiścāgre vājīkaraṇameva ca ||

15.1१५.१

अभेषजमिति ज्ञेयं विपरीतं यदौषधात् । (१५।१)

abheṣajamiti jñeyaṃ viparītaṃ yadauṣadhāt |

15.2१५.२

तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम् ॥ (१५।२)

tadasevyaṃ niṣevyaṃ tu pravakṣyāmi yadauṣadham ||

16.1१६.१

रसायनानां द्विविधं प्रयोगमृषयो विदुः । (१६।१)

rasāyanānāṃ dvividhaṃ prayogamṛṣayo viduḥ |

16.2१६.२

कुटीप्रावेशिकं चैव वातातपिकमेव च ॥ (१६।२)

kuṭīprāveśikaṃ caiva vātātapikameva ca ||

17.1१७.१

कुटीप्रवेशकुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते । (१७।१)

kuṭīpraveśakuṭīprāveśikasyādau vidhiḥ samupadekṣyate |

17.2१७.२

नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् ॥ (१७।२)

nṛpavaidyadvijātīnāṃ sādhūnāṃ puṇyakarmaṇām ||

18.1१८.१

निवासे निर्भये शस्ते प्राप्योपकरणे पुरे । (१८।१)

nivāse nirbhaye śaste prāpyopakaraṇe pure |

18.2१८.२

दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत्कुटीम् ॥ (१८।२)

diśi pūrvottarasyāṃ ca subhūmau kārayetkuṭīm ||

19.1१९.१

विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम् । (१९।१)

vistārotsedhasampannāṃ trigarbhāṃ sūkṣmalocanām |

19.2१९.२

घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम् ॥ (१९।२)

ghanabhittimṛtusukhāṃ suspaṣṭāṃ manasaḥ priyām ||

20.1२०.१

शब्दादीनाम् अशस्तानाम् अगम्यां स्त्रीविवर्जिताम् । (२०।१)

śabdādīnām aśastānām agamyāṃ strīvivarjitām |

20.2२०.२

इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् ॥ (२०।२)

iṣṭopakaraṇopetāṃ sajjavaidyauṣadhadvijām ||

21.1२१.१

अथोदगयने शुक्ले तिथिनक्षत्रपूजिते । (२१।१)

athodagayane śukle tithinakṣatrapūjite |

21.2२१.२

मुहूर्तकरणोपेते प्रशस्ते कृतवापनः ॥ (२१।२)

muhūrtakaraṇopete praśaste kṛtavāpanaḥ ||

22.1२२.१

धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः । (२२।१)

dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ |

22.2२२.२

विधूय मानसान्दोषान् मैत्रीं भूतेषु चिन्तयन् ॥ (२२।२)

vidhūya mānasāndoṣān maitrīṃ bhūteṣu cintayan ||

23.1२३.१

देवताः पूजयित्वाग्रे द्विजातींश्च प्रदक्षिणम् । (२३।१)

devatāḥ pūjayitvāgre dvijātīṃśca pradakṣiṇam |

23.2२३.२

देवगोब्राह्मणान् कृत्वा ततस् तां प्रविशेत् कुटीम् ॥ (२३।२)

devagobrāhmaṇān kṛtvā tatas tāṃ praviśet kuṭīm ||

24.1२४.१

तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः । (२४।१)

tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ |

24.2२४.२

रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम् ॥ (२४।२)

rasāyanaṃ prayuñjīta tatpravakṣyāmi śodhanam ||

25.1२५.१

शोधन (वोर् कुटीप्रवेश)हरीतकीनां चूर्णानि सैन्धवामलके गुडम् । (२५।१)

śodhana (vor kuṭīpraveśa)harītakīnāṃ cūrṇāni saindhavāmalake guḍam |

25.2२५.२

वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम् ॥ (२५।२)

vacāṃ viḍaṅgaṃ rajanīṃ pippalīṃ viśvabheṣajam ||

26.1२६.१

पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः । (२६।१)

pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ |

26.2२६.२

तेन शुद्धशरीराय कृतसंसर्जनाय च ॥ (२६।२)

tena śuddhaśarīrāya kṛtasaṃsarjanāya ca ||

27.1२७.१

त्रिरात्रं यावकं दद्यात् पञ्चाहं वापि सर्पिषा । (२७।१)

trirātraṃ yāvakaṃ dadyāt pañcāhaṃ vāpi sarpiṣā |

27.2२७.२

सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः ॥ (२७।२)

saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ ||

28.1२८.१

बेगिन्न् देर् एइग्। बेहन्द्लुन्ग्; प्ड़्लन्ज़ेन्शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत् । (२८।१)

Beginn der eig. Behandlung; Pflanzenśuddhakoṣṭhaṃ tu taṃ jñātvā rasāyanamupācaret |

28.2२८.२

वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत् ॥ (२८।२)

vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet ||

29.1२९.१

हरीतकीं पञ्चरसामुष्णामलवणां शिवाम् । (२९।१)

harītakīṃ pañcarasāmuṣṇāmalavaṇāṃ śivām |

29.2२९.२

दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम् ॥ (२९।२)

doṣānulomanīṃ laghvīṃ vidyāddīpanapācanīm ||

30.1३०.१

आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम् । (३०।१)

āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām |

30.2३०.२

सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम् ॥ (३०।२)

sarvarogapraśamanīṃ buddhīndriyabalapradām ||

31.1३१.१

कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम् । (३१।१)

kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam |

31.2३१.२

अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम् ॥ (३१।२)

arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram ||

32.1३२.१

हृद्रोगं सशिरोरोगम् अतीसारम् अरोचकम् । (३२।१)

hṛdrogaṃ saśirorogam atīsāram arocakam |

32.2३२.२

कासं प्रमेहमानाहं प्लीहानम् उदरं नवम् ॥ (३२।२)

kāsaṃ pramehamānāhaṃ plīhānam udaraṃ navam ||

33.1३३.१

कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन् । (३३।१)

kaphaprasekaṃ vaisvaryaṃ vaivarṇyaṃ kāmalāṃ krimīn |

33.2३३.२

श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम् ॥ (३३।२)

śvayathuṃ tamakaṃ chardiṃ klaibyamaṅgāvasādanam ||

34.1३४.१

स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः । (३४।१)

srotovibandhān vividhān pralepaṃ hṛdayorasoḥ |

34.2३४.२

स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी ॥ (३४।२)

smṛtibuddhipramohaṃ ca jayecchīghraṃ harītakī ||

35.1३५.१

अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः । (३५।१)

ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ |

35.2३५.२

सेवेरन् नाभयाम् एते क्षुत्तृष्णोष्णार्दिताश् च ये ॥ (३५।२)

severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye ||

36.1३६.१

तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि । (३६।१)

tān guṇāṃstāni karmāṇi vidyādāmalakīṣvapi |

36.2३६.२

यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः ॥ (३६।२)

yānyuktāni harītakyā vīryasya tu viparyayaḥ ||

37.1३७.१

अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः । (३७।१)

ataścāmṛtakalpāni vidyāt karmabhirīdṛśaiḥ |

37.2३७.२

हरीतकीनां शस्यानि भिषगामलकस्य च ॥ (३७।२)

harītakīnāṃ śasyāni bhiṣagāmalakasya ca ||

38.1३८.१

ओषधीनां परा भूमिर् हिमवाञ्शैलसत्तमः । (३८।१)

oṣadhīnāṃ parā bhūmir himavāñśailasattamaḥ |

38.2३८.२

तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु ॥ (३८।२)

tasmātphalāni tajjāni grāhayetkālajāni tu ||

39.1३९.१

आपूर्णरसवीर्याणि काले काले यथाविधि । (३९।१)

āpūrṇarasavīryāṇi kāle kāle yathāvidhi |

39.2३९.२

आदित्यपवनच्छायासलिलप्रीणितानि च ॥ (३९।२)

ādityapavanacchāyāsalilaprīṇitāni ca ||

40.1४०.१

यान्य् अजग्धान्य् अपूतीनि निर्व्रणान्यगदानि च । (४०।१)

yāny ajagdhāny apūtīni nirvraṇānyagadāni ca |

40.2४०.२

तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ॥ (४०।२)

teṣāṃ prayogaṃ vakṣyāmi phalānāṃ karma cottamam ||

41.1४१.१

पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान् । (४१।१)

pañcānāṃ pañcamūlānāṃ bhāgān daśapalonmitān |

41.2४१.२

हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥ (४१।२)

harītakīsahasraṃ ca triguṇāmalakaṃ navam ||

42.1४२.१

विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम् । (४२।१)

vidārigandhāṃ bṛhatīṃ pṛśniparṇīṃ nidigdhikām |

42.2४२.२

विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥ (४२।२)

vidyādvidārigandhādyaṃ śvadaṃṣṭrāpañcamaṃ gaṇam ||

43.1४३.१

बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम् । (४३।१)

bilvāgnimanthaśyonākaṃ kāśmaryamatha pāṭalām |

43.2४३.२

पुनर्नवां शूर्पपर्ण्यौ बलाम् एरण्डमेव च ॥ (४३।२)

punarnavāṃ śūrpaparṇyau balām eraṇḍameva ca ||

44.1४४.१

जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम् । (४४।१)

jīvakarṣabhakau medāṃ jīvantīṃ saśatāvarīm |

44.2४४.२

शरेक्षुदर्भकाशानां शालीनां मूलमेव च ॥ (४४।२)

śarekṣudarbhakāśānāṃ śālīnāṃ mūlameva ca ||

45.1४५.१

इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत् । (४५।१)

ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet |

45.2४५.२

भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणे ऽम्भसि ॥ (४५।२)

bhāgān yathoktāṃstatsarvaṃ sādhyaṃ daśaguṇe 'mbhasi ||

46.1४६.१

दशभागावशेषं तु पूतं तं ग्राहयेद्रसम् । (४६।१)

daśabhāgāvaśeṣaṃ tu pūtaṃ taṃ grāhayedrasam |

46.2४६.२

हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ॥ (४६।२)

harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca ||

47.1४७.१

तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः । (४७।१)

tāni sarvāṇyanasthīni phalānyāpothya kūrcanaiḥ |

47.2४७.२

विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥ (४७।२)

vinīya tasminniryūhe cūrṇānīmāni dāpayet ||

48.1४८.१

मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च । (४८।१)

maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca |

48.2४८.२

मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥ (४८।२)

mustānāṃ saviḍaṅgānāṃ candanāguruṇostathā ||

49.1४९.१

मधुकस्य हरिद्राया वचायाः कनकस्य च । (४९।१)

madhukasya haridrāyā vacāyāḥ kanakasya ca |

49.2४९.२

भागांश् चतुष्पलान् कृत्वा सूक्ष्मैलायास् त्वचस् तथा ॥ (४९।२)

bhāgāṃś catuṣpalān kṛtvā sūkṣmailāyās tvacas tathā ||

50.1५०.१

सितोपलासहस्रं च चूर्णितं तुलयाधिकम् । (५०।१)

sitopalāsahasraṃ ca cūrṇitaṃ tulayādhikam |

50.2५०.२

तैलस्य ह्य् आढकं तत्र दद्यात् त्रीणि च सर्पिषः ॥ (५०।२)

tailasya hy āḍhakaṃ tatra dadyāt trīṇi ca sarpiṣaḥ ||

51.1५१.१

साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाग्निना । (५१।१)

sādhyamaudumbare pātre tat sarvaṃ mṛdunāgninā |

51.2५१.२

ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥ (५१।२)

jñātvā lehyamadagdhaṃ ca śītaṃ kṣaudreṇa saṃsṛjet ||

52.1५२.१

क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने । (५२।१)

kṣaudrapramāṇaṃ snehārdhaṃ tatsarvaṃ ghṛtabhājane |

52.2५२.२

तिष्ठेत् संमूर्छितं तस्य मात्रां काले प्रयोजयेत् ॥ (५२।२)

tiṣṭhet saṃmūrchitaṃ tasya mātrāṃ kāle prayojayet ||

53.1५३.१

या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति । (५३।१)

yā noparundhyādāhāramekaṃ mātrā jarāṃ prati |

53.2५३.२

षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥ (५३।२)

ṣaṣṭikaḥ payasā cātra jīrṇe bhojanamiṣyate ||

54.1५४.१

वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः । (५४।१)

vaikhānasā vālakhilyāstathā cānye tapodhanāḥ |

54.2५४.२

रसायनमिदं प्राश्य बभूवुर् अमितायुषः ॥ (५४।२)

rasāyanamidaṃ prāśya babhūvur amitāyuṣaḥ ||

55.1५५.१

मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः । (५५।१)

muktvā jīrṇaṃ vapuścāgryamavāpustaruṇaṃ vayaḥ |

55.2५५.२

वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः ॥ (५५।२)

vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ ||

56.1५६.१

मेधास्मृतिबलोपेताश् चिररात्रं तपोधनाः । (५६।१)

medhāsmṛtibalopetāś cirarātraṃ tapodhanāḥ |

56.2५६.२

ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥ (५६।२)

brāhmaṃ tapo brahmacaryaṃ ceruścātyantaniṣṭhayā ||

57.1५७.१

रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत् । (५७।१)

rasāyanamidaṃ brāhmamāyuṣkāmaḥ prayojayet |

57.2५७.२

दीर्घम् आयुर् वयश् चाग्र्यं कामांश्चेष्टान् समश्नुते ॥ (५७।२)

dīrgham āyur vayaś cāgryaṃ kāmāṃśceṣṭān samaśnute ||

58.1५८.१

रेज़ेप्त्यथोक्तगुणानाम् आमलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत् । (५८।१)

Rezeptyathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet |

58.2५८.२

तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृता चन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर् नागबलासहस्रपलस्वरसपरिपीतम् अनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेर् अधः स्थापयेद् अन्तर्भूमेः पक्षं कृतरक्षाविधानम् अथर्ववेदविदा पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तम् अर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानो ऽग्निबलम् अभिसमीक्ष्य जीर्णे च षष्टिकं पयसा ससर्पिष्कम् उपसेवमानो यथोक्तान् गुणान् समश्नुत इति ॥ (५८।२)

tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti ||

59.1५९.१

इदं रसायनं ब्राह्मं महर्षिगणसेवितम् । (५९।१)

idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam |

59.2५९.२

भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः ॥ (५९।२)

bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ ||

60.1६०.१

कान्तः प्रजानां सिद्धार्थश् चन्द्रादित्यसमद्युतिः । (६०।१)

kāntaḥ prajānāṃ siddhārthaś candrādityasamadyutiḥ |

60.2६०.२

श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते ॥ (६०।२)

śrutaṃ dhārayate sattvamārṣaṃ cāsya pravartate ||

61.1६१.१

धरणीधरसारश्च वायुना समविक्रमः । (६१।१)

dharaṇīdharasāraśca vāyunā samavikramaḥ |

61.2६१.२

स भवत्यविषं चास्य गात्रे संपद्यते विषम् ॥ (६१।२)

sa bhavatyaviṣaṃ cāsya gātre saṃpadyate viṣam ||

62.1६२.१

च्यवनप्राशबिल्वो ऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला । (६२।१)

Cyavanaprāśabilvo 'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalirbalā |

62.2६२.२

पर्ण्यश् चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥ (६२।२)

parṇyaś catasraḥ pippalyaḥ śvadaṃṣṭrā bṛhatīdvayam ||

63.1६३.१

शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु । (६३।१)

śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru |

63.2६३.२

अभया चामृता ऋद्धिर् जीवकर्षभकौ शटी ॥ (६३।२)

abhayā cāmṛtā ṛddhir jīvakarṣabhakau śaṭī ||

64.1६४.१

मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम् । (६४।१)

mustaṃ punarnavā medā sailā candanamutpalam |

64.2६४.२

विदारी वृषमूलानि काकोली काकनासिका ॥ (६४।२)

vidārī vṛṣamūlāni kākolī kākanāsikā ||

65.1६५.१

एषां पलोन्मितान् भागाञ्शतान्य् आमलकस्य च । (६५।१)

eṣāṃ palonmitān bhāgāñśatāny āmalakasya ca |

65.2६५.२

पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ॥ (६५।२)

pañca dadyāttadaikadhyaṃ jaladroṇe vipācayet ||

66.1६६.१

ज्ञात्वा गतरसान्येतान्य् औषधान्यथ तं रसम् । (६६।१)

jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam |

66.2६६.२

तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥ (६६।२)

taccāmalakamuddhṛtya niṣkulaṃ tailasarpiṣoḥ ||

67.1६७.१

पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक् । (६७।१)

paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak |

67.2६७.२

मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ॥ (६७।२)

matsyaṇḍikāyāḥ pūtāyā lehavatsādhu sādhayet ||

68.1६८.१

षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् । (६८।१)

ṣaṭpalaṃ madhunaścātra siddhaśīte pradāpayet |

68.2६८.२

चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ॥ (६८।२)

catuṣpalaṃ tugākṣīryāḥ pippalīdvipalaṃ tathā ||

69.1६९.१

पलमेकं निदध्याच्च त्वगेलापत्त्रकेसरात् । (६९।१)

palamekaṃ nidadhyācca tvagelāpattrakesarāt |

69.2६९.२

इत्ययं च्यवनप्राशः परमुक्तो रसायनः ॥ (६९।२)

ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ ||

70.1७०.१

कासश्वासहरश् चैव विशेषेणोपदिश्यते । (७०।१)

kāsaśvāsaharaś caiva viśeṣeṇopadiśyate |

70.2७०.२

क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ॥ (७०।२)

kṣīṇakṣatānāṃ vṛddhānāṃ bālānāṃ cāṅgavardhanaḥ ||

71.1७१.१

स्वरक्षयम् उरोरोगं हृद्रोगं वातशोणितम् । (७१।१)

svarakṣayam urorogaṃ hṛdrogaṃ vātaśoṇitam |

71.2७१.२

पिपासां शुक्रस्थान् दोषांश्चाप्यपकर्षति ॥ (७१।२)

pipāsāṃ śukrasthān doṣāṃścāpyapakarṣati ||

72.1७२.१

अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् । (७२।१)

asya mātrāṃ prayuñjīta yoparundhyānna bhojanam |

72.2७२.२

अस्य प्रयोगाच् च्यवनः सुवृद्धोऽभूत्पुनर्युवा ॥ (७२।२)

asya prayogāc cyavanaḥ suvṛddho'bhūtpunaryuvā ||

73.1७३.१

मेधां स्मृतिं कान्तिमनामयत्वम् आयुःप्रकर्षं बलमिन्द्रियाणाम् । (७३।१)

medhāṃ smṛtiṃ kāntimanāmayatvam āyuḥprakarṣaṃ balamindriyāṇām |

73.2७३.२

स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥ (७३।२)

strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam ||

74.1७४.१

रसायनस्यास्य नरः प्रयोगाल् लभेत जीर्णो ऽपि कुटीप्रवेशात् । (७४।१)

rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭīpraveśāt |

74.2७४.२

जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥ (७४।२)

jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya ||

75.1७५.१

आमलकरसायनअथामलकहरीतकीनाम् आमलकविभीतकानां हरीतकीविभीतकानाम् आमलकहरीतकीविभीतकानां वा पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानाम् अकुलकानां पलसहस्रमुलूखले संपोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेद् अनन्नभुग् यथोक्तेन विधिना तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च अयंच रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलम् अभिसमीक्ष्य प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः अतः परं यथासुखविहारः कामभक्ष्यः स्यात् । (७५।१)

Āmalakarasāyanaathāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt |

75.2७५.२

अनेन प्रयोगेणर्षयः पुनर् युवत्वम् अवापुर् बभूवुश् चानेकवर्षशतजीविनो निर्विकाराः परशरीरबुद्धीन्द्रियबलसमुदिताश् चेरुश् चात्यन्तनिष्ठया तपः ॥ (७५।२)

anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ ||

76.0७६.०

(रेज़ेप्त्)हरीतक्यामलकविभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसम्प्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसम्प्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानो ऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् उष्णोदकानुपानम् अश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलम् अतुलम् उपलभ्याप्रतिहतसर्वारम्भः परमायुर् अवाप्नुयात् ॥ (७६।०)

(Rezept)harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt ||

77.0७७.०

हरीतक्यामलकविभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि च संनीयामलकस्वरसशतपरिपीतम् आमलकचूर्णम् अयश्चूर्णचतुर्भागसम्प्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नम् अश्नीयात् त्रिवर्षप्रयोगादस्य वर्षशतम् अजरं वयस् तिष्ठति श्रुतम् अवतिष्ठते सर्वामयाः प्रशाम्यन्ति विषमविषं भवति गात्रे गात्रम् अश्मवत् स्थिरीभवति अधृष्यो भूतानां भवति ॥ (७७।०)

harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati ||

78.1७८.१

यथामराणाम् अमृतं यथा भोगवतां सुधा । (७८।१)

yathāmarāṇām amṛtaṃ yathā bhogavatāṃ sudhā |

78.2७८.२

तथाभवन् महर्षीणां रसायनविधिः पुरा ॥ (७८।२)

tathābhavan maharṣīṇāṃ rasāyanavidhiḥ purā ||

79.1७९.१

न जरां न च दौर्बल्यं नातुर्यं निधनं न च । (७९।१)

na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca |

79.2७९.२

जग्मुर्वर्षसहस्राणि रसायनपराः पुरा ॥ (७९।२)

jagmurvarṣasahasrāṇi rasāyanaparāḥ purā ||

80.1८०.१

न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते । (८०।१)

na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate |

80.2८०.२

गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ॥ (८०।२)

gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam ||

81.1८१.१

अभयामलकीये ऽस्मिन् षड् योगाः परिकीर्तिताः । (८१।१)

abhayāmalakīye 'smin ṣaḍ yogāḥ parikīrtitāḥ |

81.2८१.२

रसायनानां सिद्धानाम् आयुर् यैर् अनुवर्तते ॥ (८१।२)

rasāyanānāṃ siddhānām āyur yair anuvartate ||

82.0८२.०

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये ऽभयामलकीयो नाम रसायनपादः प्रथमः ॥ (८२।०)

ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Ca, 6, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit