चरकसंहिताCarakasaṃhitā

Ca, 1, 5

5 of 82 · 219 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो मात्राशितीयमध्यायं व्याख्यास्यामः ॥ (१।१)

athāto mātrāśitīyamadhyāyaṃ vyākhyāsyāmaḥ ||

2.1२.१

इति ह स्माह भगवानात्रेयः ॥ (२।१)

iti ha smāha bhagavānātreyaḥ ||

3.1३.१

मात्राशी स्यात् । (३।१)

mātrāśī syāt |

3.2३.२

आहारमात्रा पुनरग्निबलापेक्षिणी ॥ (३।२)

āhāramātrā punaragnibalāpekṣiṇī ||

4.1४.१

यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति ॥ (४।१)

yāvaddhyasyāśanamaśitamanupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati ||

5.1५.१

तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति । (५।१)

tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti |

5.2५.२

तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि प्रकृतिगुरूण्यपि मात्रामेवापेक्षन्ते ॥ (५।२)

tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante ||

6.1६.१

न चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति पृथ्वीसोमगुणबहुलानीतराणि तस्मात् स्वगुणादपि लघून्यग्निसंधुक्षणस्वभावान्यल्पदोषाणि चोच्यन्ते ऽपि सौहित्योपयुक्तानि गुरूणि पुनर् नाग्निसंधुक्षणस्वभावान्यसामान्यात् अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात् सैषा भवत्यग्निबलापेक्षिणी मात्रा ॥ (६।१)

na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā ||

7.1७.१

न च नापेक्षते द्रव्यं द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणामुपदिश्यते लघूनामपि च नातिसौहित्यमग्नेर्युक्त्यर्थम् ॥ (७।१)

na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham ||

8.1८.१

मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युपयोक्तारमवश्यमिति ॥ (८।१)

mātrāvaddhyaśanamaśitamanupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti ||

9.1९.१

भवन्ति चात्र । (९।१)

bhavanti cātra |

9.2९.२

गुरु पिष्टमयं तस्मात्तण्डुलान् पृथुकानपि । (९।२)

guru piṣṭamayaṃ tasmāttaṇḍulān pṛthukānapi |

9.3९.३

न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः ॥ (९।३)

na jātu bhuktavān khādenmātrāṃ khādedbubhukṣitaḥ ||

10.1१०.१

वल्लूरं शुष्कशाकानि शालूकानि बिसानि च । (१०।१)

vallūraṃ śuṣkaśākāni śālūkāni bisāni ca |

10.2१०.२

नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत् ॥ (१०।२)

nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet ||

11.1११.१

मत्स्यान् दधि च माषांश्च यवकांश्च न शीलयेत् ॥ (११।१)

matsyān dadhi ca māṣāṃśca yavakāṃśca na śīlayet ||

12.1१२.१

षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान् । (१२।१)

ṣaṣṭikāñchālimudgāṃśca saindhavāmalake yavān |

12.2१२.२

आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत् ॥ (१२।२)

āntarīkṣaṃ payaḥ sarpirjāṅgalaṃ madhu cābhyaset ||

13.1१३.१

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते । (१३।१)

tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate |

13.2१३.२

अजातानां विकाराणामनुत्पत्तिकरं च यत् ॥ (१३।२)

ajātānāṃ vikārāṇāmanutpattikaraṃ ca yat ||

14.1१४.१

अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम् । (१४।१)

ata ūrdhvaṃ śarīrasya kāryamakṣyañjanādikam |

14.2१४.२

स्वस्थवृत्तिमभिप्रेत्य गुणतः सम्प्रवक्ष्यते ॥ (१४।२)

svasthavṛttimabhipretya guṇataḥ sampravakṣyate ||

15.1१५.१

सौवीरमञ्जनं नित्यं हितम् अक्ष्णोः प्रयोजयेत् । (१५।१)

sauvīramañjanaṃ nityaṃ hitam akṣṇoḥ prayojayet |

15.2१५.२

पञ्चरात्रे ऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम् ॥ (१५।२)

pañcarātre 'ṣṭarātre vā srāvaṇārthe rasāñjanam ||

16.1१६.१

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम् । (१६।१)

cakṣustejomayaṃ tasya viśeṣācchleṣmato bhayam |

16.2१६.२

ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम् ॥ (१६।२)

tataḥ śleṣmaharaṃ karma hitaṃ dṛṣṭeḥ prasādanam ||

17.1१७.१

दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम् । (१७।१)

divā tanna prayoktavyaṃ netrayostīkṣṇamañjanam |

17.2१७.२

विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति ॥ (१७।२)

virekadurbalā dṛṣṭirādityaṃ prāpya sīdati ||

18.1१८.१

तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते । (१८।१)

tasmāt srāvyaṃ niśāyāṃ tu dhruvamañjanamiṣyate |

18.2१८.२

यथा हि कनकादीनां मलिनां विविधात्मनाम् ॥ (१८।२)

yathā hi kanakādīnāṃ malināṃ vividhātmanām ||

19.1१९.१

धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः । (१९।१)

dhautānāṃ nirmalā śuddhistailacelakacādibhiḥ |

19.2१९.२

एवं नेत्रेषु मर्त्यानामञ्जनाश्च्योतनादिभिः ॥ (१९।२)

evaṃ netreṣu martyānāmañjanāścyotanādibhiḥ ||

20.1२०.१

दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत् । (२०।१)

dṛṣṭirnirākulā bhāti nirmale nabhasīnduvat |

20.2२०.२

हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम् ॥ (२०।२)

hareṇukāṃ priyaṅguṃ ca pṛthvīkāṃ keśaraṃ nakham ||

21.1२१.१

ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम् । (२१।१)

hrīveraṃ candanaṃ patraṃ tvagelośīrapadmakam |

21.2२१.२

ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम् ॥ (२१।२)

dhyāmakaṃ madhukaṃ māṃsī guggulvaguruśarkaram ||

22.1२२.१

न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः । (२२।१)

nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ śubhāḥ |

22.2२२.२

वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले ॥ (२२।२)

vanyaṃ sarjarasaṃ mustaṃ śaileyaṃ kamalotpale ||

23.1२३.१

श्रीवेष्टकं शल्लकीं च शुकबर्हम् अथापि च । (२३।१)

śrīveṣṭakaṃ śallakīṃ ca śukabarham athāpi ca |

23.2२३.२

पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम् ॥ (२३।२)

piṣṭvā limpecchareṣīkāṃ tāṃ vartiṃ yavasannibhām ||

24.1२४.१

अङ्गुष्ठसंमितां कुर्यादष्टाङ्गुलसमां भिषक् । (२४।१)

aṅguṣṭhasaṃmitāṃ kuryādaṣṭāṅgulasamāṃ bhiṣak |

24.2२४.२

शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नरः ॥ (२४।२)

śuṣkāṃ nigarbhāṃ tāṃ vartiṃ dhūmanetrārpitāṃ naraḥ ||

25.1२५.१

स्नेहाक्ताम् अग्निसंप्लुष्टां पिबेत् प्रायोगिकीं सुखाम् । (२५।१)

snehāktām agnisaṃpluṣṭāṃ pibet prāyogikīṃ sukhām |

25.2२५.२

वसाघृतमधूच्छिष्टैर्युक्तियुक्तैर्वरौषधैः ॥ (२५।२)

vasāghṛtamadhūcchiṣṭairyuktiyuktairvarauṣadhaiḥ ||

26.1२६.१

वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत् । (२६।१)

vartiṃ madhurakaiḥ kṛtvā snaihikīṃ dhūmamācaret |

26.2२६.२

श्वेता ज्योतिष्मती चैव हरितालं मनःशिला ॥ (२६।२)

śvetā jyotiṣmatī caiva haritālaṃ manaḥśilā ||

27.1२७.१

गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने । (२७।१)

gandhāścāgurupatrādyā dhūmaṃ mūrdhavirecane |

27.2२७.२

गौरवं शिरसः शूलं पीनसार्धावभेदकौ ॥ (२७।२)

gauravaṃ śirasaḥ śūlaṃ pīnasārdhāvabhedakau ||

28.1२८.१

कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः । (२८।१)

karṇākṣiśūlaṃ kāsaśca hikkāśvāsau galagrahaḥ |

28.2२८.२

दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः ॥ (२८।२)

dantadaurbalyamāsrāvaḥ śrotraghrāṇākṣidoṣajaḥ ||

29.1२९.१

पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः । (२९।१)

pūtirghrāṇāsyagandhaśca dantaśūlamarocakaḥ |

29.2२९.२

हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे ॥ (२९।२)

hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe ||

30.1३०.१

श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका । (३०।१)

śleṣmapraseko vaisvaryaṃ galaśuṇḍyupajihvikā |

30.2३०.२

खालित्यं पिञ्जरत्वं च केशानां पतनं तथा ॥ (३०।२)

khālityaṃ piñjaratvaṃ ca keśānāṃ patanaṃ tathā ||

31.1३१.१

क्षवथुश्चातितन्द्रा च बुद्धेर्मोहो ऽतिनिद्रता । (३१।१)

kṣavathuścātitandrā ca buddhermoho 'tinidratā |

31.2३१.२

धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम् ॥ (३१।२)

dhūmapānāt praśāmyanti balaṃ bhavati cādhikam ||

32.1३२.१

शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च । (३२।१)

śiroruhakapālānāmindriyāṇāṃ svarasya ca |

32.2३२.२

न च वातकफात्मानो बलिनो ऽप्यूर्ध्वजत्रुजाः ॥ (३२।२)

na ca vātakaphātmāno balino 'pyūrdhvajatrujāḥ ||

33.1३३.१

धूमवक्त्रकपानस्य व्याधयः स्युः शिरोगताः । (३३।१)

dhūmavaktrakapānasya vyādhayaḥ syuḥ śirogatāḥ |

33.2३३.२

प्रयोगपाने तस्याष्टौ कालाः सम्परिकीर्तिताः ॥ (३३।२)

prayogapāne tasyāṣṭau kālāḥ samparikīrtitāḥ ||

34.1३४.१

वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते । (३४।१)

vātaśleṣmasamutkleśaḥ kāleṣveṣu hi lakṣyate |

34.2३४.२

स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य च ॥ (३४।२)

snātvā bhuktvā samullikhya kṣutvā dantānnighṛṣya ca ||

35.1३५.१

नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत् । (३५।१)

nāvanāñjananidrānte cātmavān dhūmapo bhavet |

35.2३५.२

तथा वातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः ॥ (३५।२)

tathā vātakaphātmāno na bhavantyūrdhvajatrujāḥ ||

36.1३६.१

रोगास्तस्य तु पेयाः स्युर् आपानास् त्रिस्त्रयस्त्रयः । (३६।१)

rogāstasya tu peyāḥ syur āpānās tristrayastrayaḥ |

36.2३६.२

परं द्विकालपायी स्यादह्नः कालेषु बुद्धिमान् ॥ (३६।२)

paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān ||

37.1३७.१

प्रयोगे स्नैहिके त्वेकं वैरेच्यं त्रिचतुः पिबेत् । (३७।१)

prayoge snaihike tvekaṃ vairecyaṃ tricatuḥ pibet |

37.2३७.२

हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः ॥ (३७।२)

hṛtkaṇṭhendriyasaṃśuddhirlaghutvaṃ śirasaḥ śamaḥ ||

38.1३८.१

यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम् । (३८।१)

yatheritānāṃ doṣāṇāṃ samyakpītasya lakṣaṇam |

38.2३८.२

बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम् ॥ (३८।२)

bādhiryamāndhyamūkatvaṃ raktapittaṃ śirobhramam ||

39.1३९.१

अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान् । (३९।१)

akāle cātipītaśca dhūmaḥ kuryādupadravān |

39.2३९.२

तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम् ॥ (३९।२)

tatreṣṭaṃ sarpiṣaḥ pānaṃ nāvanāñjanatarpaṇam ||

40.1४०.१

स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि । (४०।१)

snaihikaṃ dhūmaje doṣe vāyuḥ pittānugo yadi |

40.2४०.२

शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम् ॥ (४०।२)

śītaṃ tu raktapitte syācchleṣmapitte virūkṣaṇam ||

41.1४१.१

परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः । (४१।१)

paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ |

41.2४१.२

न विरिक्तः पिबेद्धूमं न कृते बस्तिकर्मणि ॥ (४१।२)

na viriktaḥ pibeddhūmaṃ na kṛte bastikarmaṇi ||

42.1४२.१

न रक्ती न विषेणार्तो न शोचन्न च गर्भिणी । (४२।१)

na raktī na viṣeṇārto na śocanna ca garbhiṇī |

42.2४२.२

न श्रमे न मदे नामे न पित्ते न प्रजागरे ॥ (४२।२)

na śrame na made nāme na pitte na prajāgare ||

43.1४३.१

न मूर्च्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते । (४३।१)

na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate |

43.2४३.२

न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम् ॥ (४३।२)

na madyadugdhe pītvā ca na snehaṃ na ca mākṣikam ||

44.1४४.१

धूमं न भुक्त्वा दध्ना च न रूक्षः क्रुद्ध एव च । (४४।१)

dhūmaṃ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca |

44.2४४.२

न तालुशोषे तिमिरे शिरस्यभिहिते न च ॥ (४४।२)

na tāluśoṣe timire śirasyabhihite na ca ||

45.1४५.१

न शङ्खके न रोहिण्यां न मेहे न मदात्यये । (४५।१)

na śaṅkhake na rohiṇyāṃ na mehe na madātyaye |

45.2४५.२

एषु धूममकालेषु मोहात् पिबति यो नरः ॥ (४५।२)

eṣu dhūmamakāleṣu mohāt pibati yo naraḥ ||

46.1४६.१

रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात् । (४६।१)

rogāstasya pravardhante dāruṇā dhūmavibhramāt |

46.2४६.२

धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये ॥ (४६।२)

dhūmayogyaḥ pibeddoṣe śiroghrāṇākṣisaṃśraye ||

47.1४७.१

घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत् । (४७।१)

ghrāṇenāsyena kaṇṭhasthe mukhena ghrāṇapo vamet |

47.2४७.२

आस्येन धूमकवलान् पिबन् घ्राणेन नोद्वमेत् ॥ (४७।२)

āsyena dhūmakavalān piban ghrāṇena nodvamet ||

48.1४८.१

प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी । (४८।१)

pratilomaṃ gato hyāśu dhūmo hiṃsyāddhi cakṣuṣī |

48.2४८.२

ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम् ॥ (४८।२)

ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam ||

49.1४९.१

पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान् । (४९।१)

pibecchidraṃ pidhāyaikaṃ nāsayā dhūmamātmavān |

49.2४९.२

चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर् विरेचने ॥ (४९।२)

caturviṃśatikaṃ netraṃ svāṅgulībhir virecane ||

50.1५०.१

द्वात्रिंशदङ्गुलं स्नेहे प्रयोगे ऽध्यर्धमिष्यते । (५०।१)

dvātriṃśadaṅgulaṃ snehe prayoge 'dhyardhamiṣyate |

50.2५०.२

ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम् ॥ (५०।२)

ṛju trikoṣāphalitaṃ kolāsthyagrapramāṇitam ||

51.1५१.१

बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते । (५१।१)

bastinetrasamadravyaṃ dhūmanetraṃ praśasyate |

51.2५१.२

दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः ॥ (५१।२)

dūrādvinirgataḥ parvacchinno nāḍītanūkṛtaḥ ||

52.1५२.१

नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः । (५२।१)

nendriyaṃ bādhate dhūmo mātrākālaniṣevitaḥ |

52.2५२.२

यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत् ॥ (५२।२)

yadā coraśca kaṇṭhaśca śiraśca laghutāṃ vrajet ||

53.1५३.१

कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत् । (५३।१)

kaphaśca tanutāṃ prāptaḥ supītaṃ dhūmamādiśet |

53.2५३.२

अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत् ॥ (५३।२)

aviśuddhaḥ svaro yasya kaṇṭhaśca sakapho bhavet ||

54.1५४.१

स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत् । (५४।१)

stimito mastakaścaivamapītaṃ dhūmamādiśet |

54.2५४.२

तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते ॥ (५४।२)

tālu mūrdhā ca kaṇṭhaśca śuṣyate paritapyate ||

55.1५५.१

तृष्यते मुह्यते जन्तू रक्तं च स्रवते ऽधिकम् । (५५।१)

tṛṣyate muhyate jantū raktaṃ ca sravate 'dhikam |

55.2५५.२

शिरश्च भ्रमते ऽत्यर्थं मूर्च्छा चास्योपजायते ॥ (५५।२)

śiraśca bhramate 'tyarthaṃ mūrcchā cāsyopajāyate ||

56.1५६.१

इन्द्रियाण्युपतप्यन्ते धूमे ऽत्यर्थं निषेविते । (५६।१)

indriyāṇyupatapyante dhūme 'tyarthaṃ niṣevite |

56.2५६.२

वर्षे वर्षे ऽणुतैलं च कालेषु त्रिषु ना चरेत् ॥ (५६।२)

varṣe varṣe 'ṇutailaṃ ca kāleṣu triṣu nā caret ||

57.1५७.१

प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले । (५७।१)

prāvṛṭśaradvasanteṣu gatameghe nabhastale |

57.2५७.२

नस्यकर्म यथाकालं यो यथोक्तं निषेवते ॥ (५७।२)

nasyakarma yathākālaṃ yo yathoktaṃ niṣevate ||

58.1५८.१

न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते । (५८।१)

na tasya cakṣurna ghrāṇaṃ na śrotramupahanyate |

58.2५८.२

न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः ॥ (५८।२)

na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ ||

59.1५९.१

न च केशाः प्रमुच्यन्ते वर्धन्ते च विशेषतः । (५९।१)

na ca keśāḥ pramucyante vardhante ca viśeṣataḥ |

59.2५९.२

मन्यास्तम्भः शिरःशूलमर्दितं हनुसंग्रहः ॥ (५९।२)

manyāstambhaḥ śiraḥśūlamarditaṃ hanusaṃgrahaḥ ||

60.1६०.१

पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति । (६०।१)

pīnasārdhāvabhedau ca śiraḥkampaśca śāmyati |

60.2६०.२

सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः ॥ (६०।२)

sirāḥ śiraḥkapālānāṃ sandhayaḥ snāyukaṇḍarāḥ ||

61.1६१.१

नावनप्रीणिताश्चास्य लभन्ते ऽभ्यधिकं बलम् । (६१।१)

nāvanaprīṇitāścāsya labhante 'bhyadhikaṃ balam |

61.2६१.२

मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् ॥ (६१।२)

mukhaṃ prasannopacitaṃ svaraḥ snigdhaḥ sthiro mahān ||

62.1६२.१

सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम् । (६२।१)

sarvendriyāṇāṃ vaimalyaṃ balaṃ bhavati cādhikam |

62.2६२.२

न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः ॥ (६२।२)

na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ ||

63.1६३.१

जीर्यतश्चोत्तमाङ्गेषु जरा न लभते बलम् । (६३।१)

jīryataścottamāṅgeṣu jarā na labhate balam |

63.2६३.२

अणुतैलचन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम् ॥ (६३।२)

aṇutailacandanāguruṇī patraṃ dārvītvaṅmadhukaṃ balām ||

64.1६४.१

प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम् । (६४।१)

prapauṇḍarīkaṃ sūkṣmailāṃ viḍaṅgaṃ bilvamutpalam |

64.2६४.२

ह्रीबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम् ॥ (६४।२)

hrīberamabhayaṃ vanyaṃ tvaṅmustaṃ sārivāṃ sthirām ||

65.1६५.१

जीवन्तीं पृश्निपर्णीं च सुरदारु शतावरीम् । (६५।१)

jīvantīṃ pṛśniparṇīṃ ca suradāru śatāvarīm |

65.2६५.२

हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेसरम् ॥ (६५।२)

hareṇuṃ bṛhatīṃ vyāghrīṃ surabhīṃ padmakesaram ||

66.1६६.१

विपाचयेच्छतगुणे माहेन्द्रे विमले ऽम्भसि । (६६।१)

vipācayecchataguṇe māhendre vimale 'mbhasi |

66.2६६.२

तैलाद्दशगुणं शेषं कषायमवतारयेत् ॥ (६६।२)

tailāddaśaguṇaṃ śeṣaṃ kaṣāyamavatārayet ||

67.1६७.१

तेन तैलं कषायेण दशकृत्वो विपाचयेत् । (६७।१)

tena tailaṃ kaṣāyeṇa daśakṛtvo vipācayet |

67.2६७.२

अथास्य दशमे पाके समांशं छागलं पयः ॥ (६७।२)

athāsya daśame pāke samāṃśaṃ chāgalaṃ payaḥ ||

68.1६८.१

दद्यादेषो ऽणुतैलस्य नावनीयस्य संविधिः । (६८।१)

dadyādeṣo 'ṇutailasya nāvanīyasya saṃvidhiḥ |

68.2६८.२

अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम् ॥ (६८।२)

asya mātrāṃ prayuñjīta tailasyārdhapalonmitām ||

69.1६९.१

स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः । (६९।१)

snigdhasvinnottamāṅgasya picunā nāvanaistribhiḥ |

69.2६९.२

त्र्यहात् त्र्यहाच्च सप्ताहम् एतत् कर्म समाचरेत् ॥ (६९।२)

tryahāt tryahācca saptāham etat karma samācaret ||

70.1७०.१

निवातोष्णसमाचारी हिताशी नियतेन्द्रियः । (७०।१)

nivātoṣṇasamācārī hitāśī niyatendriyaḥ |

70.2७०.२

तैलमेतत्त्रिदोषघ्नमिन्द्रियाणां बलप्रदम् ॥ (७०।२)

tailametattridoṣaghnamindriyāṇāṃ balapradam ||

71.1७१.१

प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान् । (७१।१)

prayuñjāno yathākālaṃ yathoktānaśnute guṇān |

71.2७१.२

आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम् ॥ (७१।२)

āpothitāgraṃ dvau kālau kaṣāyakaṭutiktakam ||

72.1७२.१

भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन् । (७२।१)

bhakṣayeddantapavanaṃ dantamāṃsānyabādhayan |

72.2७२.२

निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम् ॥ (७२।२)

nihanti gandhaṃ vairasyaṃ jihvādantāsyajaṃ malam ||

73.1७३.१

निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम् । (७३।१)

niṣkṛṣya rucimādhatte sadyo dantaviśodhanam |

73.2७३.२

करञ्जकरवीरार्कमालतीककुभासनाः ॥ (७३।२)

karañjakaravīrārkamālatīkakubhāsanāḥ ||

74.1७४.१

शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः । (७४।१)

śasyante dantapavane ye cāpyevaṃvidhā drumāḥ |

74.2७४.२

सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च ॥ (७४।२)

suvarṇarūpyatāmrāṇi trapurītimayāni ca ||

75.1७५.१

जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि च । (७५।१)

jihvānirlekhanāni syuratīkṣṇānyanṛjūni ca |

75.2७५.२

जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च ॥ (७५।२)

jihvāmūlagataṃ yacca malamucchvāsarodhi ca ||

76.1७६.१

दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत् । (७६।१)

daurgandhyaṃ bhajate tena tasmājjihvāṃ vinirlikhet |

76.2७६.२

धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता ॥ (७६।२)

dhāryāṇyāsyena vaiśadyarucisaugandhyamicchatā ||

77.1७७.१

जातीकटुकपूगानां लवङ्गस्य फलानि च । (७७।१)

jātīkaṭukapūgānāṃ lavaṅgasya phalāni ca |

77.2७७.२

कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा । (७७।२)

kakkolasya phalaṃ patraṃ tāmbūlasya śubhaṃ tathā |

77.3७७.३

तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च ॥ (७७।३)

tathā karpūraniryāsaḥ sūkṣmailāyāḥ phalāni ca ||

78.1७८.१

हन्वोर्बलं स्वरबलं वदनोपचयः परः । (७८।१)

hanvorbalaṃ svarabalaṃ vadanopacayaḥ paraḥ |

78.2७८.२

स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा ॥ (७८।२)

syāt paraṃ ca rasajñānamanne ca ruciruttamā ||

79.1७९.१

न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम् । (७९।१)

na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam |

79.2७९.२

न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च ॥ (७९।२)

na ca dantāḥ kṣayaṃ yānti dṛḍhamūlā bhavanti ca ||

80.1८०.१

न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च । (८०।१)

na śūlyante na cāmlena hṛṣyante bhakṣayanti ca |

80.2८०.२

परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात् ॥ (८०।२)

parānapi kharān bhakṣyāṃstailagaṇḍūṣadhāraṇāt ||

81.1८१.१

नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते । (८१।१)

nityaṃ snehārdraśirasaḥ śiraḥśūlaṃ na jāyate |

81.2८१.२

न खालित्यं न पालित्यं न केशाः प्रपतन्ति च ॥ (८१।२)

na khālityaṃ na pālityaṃ na keśāḥ prapatanti ca ||

82.1८२.१

बलं शिरःकपालानां विशेषेणाभिवर्धते । (८२।१)

balaṃ śiraḥkapālānāṃ viśeṣeṇābhivardhate |

82.2८२.२

दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च ॥ (८२।२)

dṛḍhamūlāśca dīrghāśca kṛṣṇāḥ keśā bhavanti ca ||

83.1८३.१

इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम् । (८३।१)

indriyāṇi prasīdanti sutvagbhavati cānanam |

83.2८३.२

निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात् ॥ (८३।२)

nidrālābhaḥ sukhaṃ ca syānmūrdhni tailaniṣevaṇāt ||

84.1८४.१

न कर्णरोगा वातोत्था न मन्याहनुसंग्रहः । (८४।१)

na karṇarogā vātotthā na manyāhanusaṃgrahaḥ |

84.2८४.२

नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात् ॥ (८४।२)

noccaiḥ śrutirna bādhiryaṃ syānnityaṃ karṇatarpaṇāt ||

85.1८५.१

स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात् । (८५।१)

snehābhyaṅgādyathā kumbhaścarma snehavimardanāt |

85.2८५.२

भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा ॥ (८५।२)

bhavatyupāṅgādakṣaśca dṛḍhaḥ kleśasaho yathā ||

86.1८६.१

तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् च जायते । (८६।१)

tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate |

86.2८६.२

प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम् ॥ (८६।२)

praśāntamārutābādhaṃ kleśavyāyāmasaṃsaham ||

87.1८७.१

स्पर्शने ऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम् । (८७।१)

sparśane 'bhyadhiko vāyuḥ sparśanaṃ ca tvagāśritam |

87.2८७.२

त्वच्यश्च परमभ्यङ्गस् तस्मात्तं शीलयेन्नरः ॥ (८७।२)

tvacyaśca paramabhyaṅgas tasmāttaṃ śīlayennaraḥ ||

88.1८८.१

न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः । (८८।१)

na cābhighātābhihataṃ gātramabhyaṅgasevinaḥ |

88.2८८.२

विकारं भजते ऽत्यर्थं बलकर्मणि वा क्वचित् ॥ (८८।२)

vikāraṃ bhajate 'tyarthaṃ balakarmaṇi vā kvacit ||

89.1८९.१

सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः । (८९।१)

susparśopacitāṅgaśca balavān priyadarśanaḥ |

89.2८९.२

भवत्यङ्गनित्यत्वान्नरो ऽल्पजर एव च ॥ (८९।२)

bhavatyaṅganityatvānnaro 'lpajara eva ca ||

90.1९०.१

ड़ु￟प्ड़्लेगेखरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः । (९०।१)

Fu￟pflegekharatvaṃ stabdhatā raukṣyaṃ śramaḥ suptiśca pādayoḥ |

90.2९०.२

सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात् ॥ (९०।२)

sadya evopaśāmyanti pādābhyaṅganiṣevaṇāt ||

91.1९१.१

जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः । (९१।१)

jāyate saukumāryaṃ ca balaṃ sthairyaṃ ca pādayoḥ |

91.2९१.२

दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति ॥ (९१।२)

dṛṣṭiḥ prasādaṃ labhate mārutaścopaśāmyati ||

92.1९२.१

न च स्याद्गृध्रसीवातः पादयोः स्फुटनं न च । (९२।१)

na ca syādgṛdhrasīvātaḥ pādayoḥ sphuṭanaṃ na ca |

92.2९२.२

न सिरास्नायुसंकोचः पादाभ्यङ्गेन पादयोः ॥ (९२।२)

na sirāsnāyusaṃkocaḥ pādābhyaṅgena pādayoḥ ||

93.1९३.१

दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम् । (९३।१)

daurgandhyaṃ gauravaṃ tandrāṃ kaṇḍūṃ malamarocakam |

93.2९३.२

स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम् ॥ (९३।२)

svedabībhatsatāṃ hanti śarīraparimārjanam ||

94.1९४.१

पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम् । (९४।१)

pavitraṃ vṛṣyamāyuṣyaṃ śramasvedamalāpaham |

94.2९४.२

शरीरबलसन्धानं स्नानमोजस्करं परम् ॥ (९४।२)

śarīrabalasandhānaṃ snānamojaskaraṃ param ||

95.1९५.१

काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम् । (९५।१)

kāmyaṃ yaśasyamāyuṣyamalakṣmīghnaṃ praharṣaṇam |

95.2९५.२

श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम् ॥ (९५।२)

śrīmat pāriṣadaṃ śastaṃ nirmalāmbaradhāraṇam ||

96.1९६.१

वृष्यं सौगन्ध्यम् आयुष्यं काम्यं पुष्टिबलप्रदम् । (९६।१)

vṛṣyaṃ saugandhyam āyuṣyaṃ kāmyaṃ puṣṭibalapradam |

96.2९६.२

सौमनस्यम् अलक्ष्मीघ्नं गन्धमाल्यनिषेवणम् ॥ (९६।२)

saumanasyam alakṣmīghnaṃ gandhamālyaniṣevaṇam ||

97.1९७.१

धन्यं मङ्गल्यमायुष्यं श्रीमद्व्यसनसूदनम् । (९७।१)

dhanyaṃ maṅgalyamāyuṣyaṃ śrīmadvyasanasūdanam |

97.2९७.२

हर्षणं काम्यमोजस्यं रत्नाभरणधारणम् ॥ (९७।२)

harṣaṇaṃ kāmyamojasyaṃ ratnābharaṇadhāraṇam ||

98.1९८.१

मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम् । (९८।१)

medhyaṃ pavitramāyuṣyamalakṣmīkalināśanam |

98.2९८.२

पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः ॥ (९८।२)

pādayormalamārgāṇāṃ śaucādhānamabhīkṣṇaśaḥ ||

99.1९९.१

पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम् । (९९।१)

pauṣṭikaṃ vṛṣyamāyuṣyaṃ śuci rūpavirājanam |

99.2९९.२

केशश्मश्रुनखादीनां कल्पनं सम्प्रसाधनम् ॥ (९९।२)

keśaśmaśrunakhādīnāṃ kalpanaṃ samprasādhanam ||

100.1१००.१

चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम् । (१००।१)

cakṣuṣyaṃ sparśanahitaṃ pādayorvyasanāpaham |

100.2१००.२

बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम् ॥ (१००।२)

balyaṃ parākramasukhaṃ vṛṣyaṃ pādatradhāraṇam ||

101.1१०१.१

ईतेः प्रशमनं बल्यं गुप्त्यावरणशङ्करम् । (१०१।१)

īteḥ praśamanaṃ balyaṃ guptyāvaraṇaśaṅkaram |

101.2१०१.२

घर्मानिलरजोऽम्बुघ्नं छत्रधारणमुच्यते ॥ (१०१।२)

gharmānilarajo'mbughnaṃ chatradhāraṇamucyate ||

102.1१०२.१

स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम् । (१०२।१)

skhalataḥ sampratiṣṭhānaṃ śatrūṇāṃ ca niṣūdanam |

102.2१०२.२

अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम् ॥ (१०२।२)

avaṣṭambhanamāyuṣyaṃ bhayaghnaṃ daṇḍadhāraṇam ||

103.1१०३.१

नगरी नगरस्येव रथस्येव रथी यथा । (१०३।१)

nagarī nagarasyeva rathasyeva rathī yathā |

103.2१०३.२

स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत् ॥ (१०३।२)

svaśarīrasya medhāvī kṛtyeṣvavahito bhavet ||

104.1१०४.१

भवति चात्र । (१०४।१)

bhavati cātra |

104.2१०४.२

वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः । (१०४।२)

vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ |

104.3१०४.३

शममध्ययनं चैव सुखमेवं समश्नुते ॥ (१०४।३)

śamamadhyayanaṃ caiva sukhamevaṃ samaśnute ||

105.1१०५.१

तत्र श्लोकाः । (१०५।१)

tatra ślokāḥ |

105.2१०५.२

मात्रा द्रव्याणि मात्रां संश्रित्य गुरुलाघवम् । (१०५।२)

mātrā dravyāṇi mātrāṃ saṃśritya gurulāghavam |

105.3१०५.३

द्रव्याणां गर्हितो ऽभ्यासो येषां येषां च शस्यते ॥ (१०५।३)

dravyāṇāṃ garhito 'bhyāso yeṣāṃ yeṣāṃ ca śasyate ||

106.1१०६.१

अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना । (१०६।१)

añjanaṃ dhūmavartiśca trividhā vartikalpanā |

106.2१०६.२

धूमपानगुणाः कालाः पानमानं च यस्य यत् ॥ (१०६।२)

dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat ||

107.1१०७.१

व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः । (१०७।१)

vyāpatticihnaṃ bhaiṣajyaṃ dhūmo yeṣāṃ vigarhitaḥ |

107.2१०७.२

पेयो यथा यन्मयं च नेत्रं यस्य च यद्विधम् ॥ (१०७।२)

peyo yathā yanmayaṃ ca netraṃ yasya ca yadvidham ||

108.1१०८.१

नस्यकर्मगुणा नस्तःकार्यं यच्च यथा यदा । (१०८।१)

nasyakarmaguṇā nastaḥkāryaṃ yacca yathā yadā |

108.2१०८.२

भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत् ॥ (१०८।२)

bhakṣayeddantapavanaṃ yathā yadyadguṇaṃ ca yat ||

109.1१०९.१

यदर्थं यानि चास्येन धार्याणि कवलग्रहे । (१०९।१)

yadarthaṃ yāni cāsyena dhāryāṇi kavalagrahe |

109.2१०९.२

तैलस्य ये गुणा दिष्टाः शिरस्तैलगुणाश्च ये ॥ (१०९।२)

tailasya ye guṇā diṣṭāḥ śirastailaguṇāśca ye ||

110.1११०.१

कर्णतैले तथाभ्यङ्गे पादाभ्यङ्गे ऽङ्गमार्जने । (११०।१)

karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane |

110.2११०.२

स्नाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे ॥ (११०।२)

snāne vāsasi śuddhe ca saugandhye ratnadhāraṇe ||

111.1१११.१

शौचे संहरणे लोम्नां पादत्रच्छत्रधारणे । (१११।१)

śauce saṃharaṇe lomnāṃ pādatracchatradhāraṇe |

111.2१११.२

गुणा मात्राशितीये ऽस्मिंस्तथोक्ता दण्डधारणे ॥ (१११।२)

guṇā mātrāśitīye 'smiṃstathoktā daṇḍadhāraṇe ||

Data courtesy of The Digital Corpus of Sanskrit.

Ca, 1, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit