Ca, 6, 10
Select a line for its word-by-word analysis.
स्थानमेतद्धि तन्त्रस्य रहस्यं परमुत्तमम् ॥ (२८८।३)
sthānametaddhi tantrasya rahasyaṃ paramuttamam ||
अस्मिन् सप्तदशाध्यायाः कल्पाः सिद्धय एव च । (२८९।१)
asmin saptadaśādhyāyāḥ kalpāḥ siddhaya eva ca |
नासाद्यन्ते ऽग्निवेशस्य तन्त्रे चरकसंस्कृते ॥ (२८९।२)
nāsādyante 'gniveśasya tantre carakasaṃskṛte ||
तानेतान् कापिलबलिः शेषान् दृढबलो ऽकरोत् । (२९०।१)
tānetān kāpilabaliḥ śeṣān dṛḍhabalo 'karot |
तन्त्रस्यास्य महार्थस्य पूरणार्थं यथातथम् ॥ (२९०।२)
tantrasyāsya mahārthasya pūraṇārthaṃ yathātatham ||
रोगा ये ऽप्यत्र नोद्दिष्टा बहुत्वान्नामरूपतः । (२९१।१)
rogā ye 'pyatra noddiṣṭā bahutvānnāmarūpataḥ |
तेषामप्येतदेव स्याद्दोषादीन् वीक्ष्य भेषजम् ॥ (२९१।२)
teṣāmapyetadeva syāddoṣādīn vīkṣya bheṣajam ||
Data courtesy of The Digital Corpus of Sanskrit.