चरकसंहिताCarakasaṃhitā

Ca, 6, 6

70 of 82 · 224 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः ॥ (१।१)

athāto raktapittacikitsitaṃ vyākhyāsyāmaḥ ||

2.1२.१

इति ह स्माह भगवानात्रेयः ॥ (२।१)

iti ha smāha bhagavānātreyaḥ ||

3.1३.१

विहरन्तं जितात्मानं पञ्चगङ्गे पुनर्वसुम् । (३।१)

viharantaṃ jitātmānaṃ pañcagaṅge punarvasum |

3.2३.२

प्रणम्योवाच निर्मोहमग्निवेशो ऽग्निवर्चसम् ॥ (३।२)

praṇamyovāca nirmohamagniveśo 'gnivarcasam ||

4.1४.१

भगवन् रक्तपित्तस्य हेतुरुक्तः सलक्षणः । (४।१)

bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ |

4.2४.२

वक्तव्यं यत् परं तस्य वक्तुमर्हसि तद्गुरो ॥ (४।२)

vaktavyaṃ yat paraṃ tasya vaktumarhasi tadguro ||

5.1५.१

गुरुरुवाच । (५।१)

gururuvāca |

5.2५.२

महागदं महावेगम् अग्निवच्छीघ्रकारि च । (५।२)

mahāgadaṃ mahāvegam agnivacchīghrakāri ca |

5.3५.३

हेतुलक्षणविच्छीघ्रं रक्तपित्तमुपाचरेत् ॥ (५।३)

hetulakṣaṇavicchīghraṃ raktapittamupācaret ||

6.1६.१

तस्योष्णं तीक्ष्णमम्लं च कटूनि लवणानि च । (६।१)

tasyoṣṇaṃ tīkṣṇamamlaṃ ca kaṭūni lavaṇāni ca |

6.2६.२

घर्मश्चान्नविदाहश्च हेतुः पूर्वं निदर्शितः ॥ (६।२)

gharmaścānnavidāhaśca hetuḥ pūrvaṃ nidarśitaḥ ||

7.1७.१

तैर्हेतुभिः समुत्क्लिष्टं पित्तं रक्तं प्रपद्यते । (७।१)

tairhetubhiḥ samutkliṣṭaṃ pittaṃ raktaṃ prapadyate |

7.2७.२

तद्योनित्वात् प्रपन्नं च वर्धते तत् प्रदूषयत् ॥ (७।२)

tadyonitvāt prapannaṃ ca vardhate tat pradūṣayat ||

8.1८.१

तस्योष्मणा द्रवो धातुर्धातोर्धातोः प्रसिच्यते । (८।१)

tasyoṣmaṇā dravo dhāturdhātordhātoḥ prasicyate |

8.2८.२

स्विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति ॥ (८।२)

svidyatastena saṃvṛddhiṃ bhūyastadadhigacchati ||

9.1९.१

संयोगाद् दूषणात्तत्तु सामान्याद्गन्धवर्णयोः । (९।१)

saṃyogād dūṣaṇāttattu sāmānyādgandhavarṇayoḥ |

9.2९.२

रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः ॥ (९।२)

raktasya pittamākhyātaṃ raktapittaṃ manīṣibhiḥ ||

10.1१०.१

प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते । (१०।१)

plīhānaṃ ca yakṛccaiva tadadhiṣṭhāya vartate |

10.2१०.२

स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम् ॥ (१०।२)

srotāṃsi raktavāhīni tanmūlāni hi dehinām ||

11.1११.१

सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम् । (११।१)

sāndraṃ sapāṇḍu sasnehaṃ picchilaṃ ca kaphānvitam |

11.2११.२

श्यावारुणं सफेनं च तनु रूक्षं च वातिकम् ॥ (११।२)

śyāvāruṇaṃ saphenaṃ ca tanu rūkṣaṃ ca vātikam ||

12.1१२.१

रक्तपित्तं कषायाभं कृष्णं गोमूत्रसंनिभम् । (१२।१)

raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasaṃnibham |

12.2१२.२

मेचकागारधूमाभमञ्जनाभं च पैत्तिकम् ॥ (१२।२)

mecakāgāradhūmābhamañjanābhaṃ ca paittikam ||

13.1१३.१

संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् । (१३।१)

saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam |

13.2१३.२

एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते ॥ (१३।२)

ekadoṣānugaṃ sādhyaṃ dvidoṣaṃ yāpyamucyate ||

14.1१४.१

यत्त्रिदोषमसाध्यं तन्मन्दाग्नेर् अतिवेगवत् । (१४।१)

yattridoṣamasādhyaṃ tanmandāgner ativegavat |

14.2१४.२

व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् ॥ (१४।२)

vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat ||

15.1१५.१

गतिरूर्ध्वमधश्चैव रक्तपित्तस्य दर्शिता । (१५।१)

gatirūrdhvamadhaścaiva raktapittasya darśitā |

15.2१५.२

ऊर्ध्वा सप्तविधद्वारा द्विद्वारा त्वधरा गतिः ॥ (१५।२)

ūrdhvā saptavidhadvārā dvidvārā tvadharā gatiḥ ||

16.1१६.१

सप्त छिद्राणि शिरसि द्वे चाधः साध्यमूर्ध्वगम् । (१६।१)

sapta chidrāṇi śirasi dve cādhaḥ sādhyamūrdhvagam |

16.2१६.२

याप्यं त्वधोगं मार्गौ तु द्वावसाध्यं प्रपद्यते ॥ (१६।२)

yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate ||

17.1१७.१

यदा तु सर्वच्छिद्रेभ्यो रोमकूपेभ्य एव च । (१७।१)

yadā tu sarvacchidrebhyo romakūpebhya eva ca |

17.2१७.२

वर्तते ताम् असंख्येयां गतिं तस्याहुर् आन्तिकीम् ॥ (१७।२)

vartate tām asaṃkhyeyāṃ gatiṃ tasyāhur āntikīm ||

18.1१८.१

यच्चोभयाभ्यां मार्गाभ्यामतिमात्रं प्रवर्तते । (१८।१)

yaccobhayābhyāṃ mārgābhyāmatimātraṃ pravartate |

18.2१८.२

तुल्यं कुणपगन्धेन रक्तं कृष्णमतीव च ॥ (१८।२)

tulyaṃ kuṇapagandhena raktaṃ kṛṣṇamatīva ca ||

19.1१९.१

संसृष्टं कफवाताभ्यां कण्ठे सजति चापि यत् । (१९।१)

saṃsṛṣṭaṃ kaphavātābhyāṃ kaṇṭhe sajati cāpi yat |

19.2१९.२

यच्चाप्युपद्रवैः सर्वैर्यथोक्तैः समभिद्रुतम् ॥ (१९।२)

yaccāpyupadravaiḥ sarvairyathoktaiḥ samabhidrutam ||

20.1२०.१

हारिद्रनीलहरितताम्रैर् वर्णैर् उपद्रुतम् । (२०।१)

hāridranīlaharitatāmrair varṇair upadrutam |

20.2२०.२

क्षीणस्य कासमानस्य यच्च तच्च न सिध्यति ॥ (२०।२)

kṣīṇasya kāsamānasya yacca tacca na sidhyati ||

21.1२१.१

यद्द्विदोषानुगं यद्वा शान्तं शान्तं प्रकुप्यति । (२१।१)

yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati |

21.2२१.२

मार्गान्मार्गं चरेद्यद्वा याप्यं पित्तमसृक् च तत् ॥ (२१।२)

mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat ||

22.1२२.१

एकमार्गं बलवतो नातिवेगं नवोत्थितम् । (२२।१)

ekamārgaṃ balavato nātivegaṃ navotthitam |

22.2२२.२

रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम् ॥ (२२।२)

raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam ||

23.1२३.१

स्निग्धोष्णमुष्णरूक्षं च रक्तपित्तस्य कारणम् । (२३।१)

snigdhoṣṇamuṣṇarūkṣaṃ ca raktapittasya kāraṇam |

23.2२३.२

अधोगस्योत्तरं प्रायः पूर्वं स्यादूर्ध्वगस्य तु ॥ (२३।२)

adhogasyottaraṃ prāyaḥ pūrvaṃ syādūrdhvagasya tu ||

24.1२४.१

ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम् । (२४।१)

ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam |

24.2२४.२

द्विमार्गं कफवाताभ्यामुभाभ्यामनुबध्यते ॥ (२४।२)

dvimārgaṃ kaphavātābhyāmubhābhyāmanubadhyate ||

25.1२५.१

अक्षीणबलमांसस्य रक्तपित्तं यदश्नतः । (२५।१)

akṣīṇabalamāṃsasya raktapittaṃ yadaśnataḥ |

25.2२५.२

तद्दोषदुष्टम् उत्क्लिष्टं नादौ स्तम्भनमर्हति ॥ (२५।२)

taddoṣaduṣṭam utkliṣṭaṃ nādau stambhanamarhati ||

26.1२६.१

गलग्रहं पूतिनस्यं मूर्च्छायमरुचिं ज्वरम् । (२६।१)

galagrahaṃ pūtinasyaṃ mūrcchāyamaruciṃ jvaram |

26.2२६.२

गुल्मं प्लीहानमानाहं किलासं कृच्छ्रमूत्रताम् ॥ (२६।२)

gulmaṃ plīhānamānāhaṃ kilāsaṃ kṛcchramūtratām ||

27.1२७.१

कुष्ठान्यर्शांसि वीसर्पं वर्णनाशं भगन्दरम् । (२७।१)

kuṣṭhānyarśāṃsi vīsarpaṃ varṇanāśaṃ bhagandaram |

27.2२७.२

बुद्धीन्द्रियोपरोधं च कुर्यात् सम्भितम् आदितः ॥ (२७।२)

buddhīndriyoparodhaṃ ca kuryāt sambhitam āditaḥ ||

28.1२८.१

तस्मादुपेक्ष्यं बलिनो बलदोषविचारिणा । (२८।१)

tasmādupekṣyaṃ balino baladoṣavicāriṇā |

28.2२८.२

रक्तपित्तं प्रथमतः प्रवृद्धं सिद्धिमिच्छता ॥ (२८।२)

raktapittaṃ prathamataḥ pravṛddhaṃ siddhimicchatā ||

29.1२९.१

प्रायेण हि समुत्क्लिष्टमामदोषाच्छरीरिणाम् । (२९।१)

prāyeṇa hi samutkliṣṭamāmadoṣāccharīriṇām |

29.2२९.२

वृद्धिं प्रयाति पित्तासृक् तस्मात्तल्लङ्घ्यम् आदितः ॥ (२९।२)

vṛddhiṃ prayāti pittāsṛk tasmāttallaṅghyam āditaḥ ||

30.1३०.१

मार्गौ दोषानुबन्धं च निदानं प्रसमीक्ष्य च । (३०।१)

mārgau doṣānubandhaṃ ca nidānaṃ prasamīkṣya ca |

30.2३०.२

लङ्घनं रक्तपित्तादौ तर्पणं वा प्रयोजयेत् ॥ (३०।२)

laṅghanaṃ raktapittādau tarpaṇaṃ vā prayojayet ||

31.1३१.१

ह्रीबेरचन्दनोशीरमुस्तपर्पटकैः शृतम् । (३१।१)

hrīberacandanośīramustaparpaṭakaiḥ śṛtam |

31.2३१.२

केवलं शृतशीतं वा दद्यात्तोयं पिपासवे ॥ (३१।२)

kevalaṃ śṛtaśītaṃ vā dadyāttoyaṃ pipāsave ||

32.1३२.१

ऊर्ध्वगे तर्पणं पूर्वं पेयां पूर्वमधोगते । (३२।१)

ūrdhvage tarpaṇaṃ pūrvaṃ peyāṃ pūrvamadhogate |

32.2३२.२

कालसात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित् ॥ (३२।२)

kālasātmyānubandhajño dadyāt prakṛtikalpavit ||

33.1३३.१

जलं खर्जूरमृद्वीकामधूकैः सपरूषकैः । (३३।१)

jalaṃ kharjūramṛdvīkāmadhūkaiḥ saparūṣakaiḥ |

33.2३३.२

शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम् ॥ (३३।२)

śṛtaśītaṃ prayoktavyaṃ tarpaṇārthe saśarkaram ||

34.1३४.१

तर्पणं सघृतक्षौद्रं लाजचूर्णैः प्रदापयेत् । (३४।१)

tarpaṇaṃ saghṛtakṣaudraṃ lājacūrṇaiḥ pradāpayet |

34.2३४.२

ऊर्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति ॥ (३४।२)

ūrdhvagaṃ raktapittaṃ tat pītaṃ kāle vyapohati ||

35.1३५.१

मन्दाग्नेरम्लसात्म्याय तत् साम्लमपि कल्पयेत् । (३५।१)

mandāgneramlasātmyāya tat sāmlamapi kalpayet |

35.2३५.२

दाडिमामलकैर्विद्वानम्लार्थं चानुदापयेत् ॥ (३५।२)

dāḍimāmalakairvidvānamlārthaṃ cānudāpayet ||

36.1३६.१

शालिषष्टिकनीवारकोरदूषप्रशान्तिकाः । (३६।१)

śāliṣaṣṭikanīvārakoradūṣapraśāntikāḥ |

36.2३६.२

श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् ॥ (३६।२)

śyāmākaśca priyaṅguśca bhojanaṃ raktapittinām ||

37.1३७.१

मुद्गा मसूराश्चणकाः समकुष्ठाढकीफलाः । (३७।१)

mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ |

37.2३७.२

प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् ॥ (३७।२)

praśastāḥ sūpayūṣārthe kalpitā raktapittinām ||

38.1३८.१

पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः । (३८।१)

paṭolanimbavetrāgraplakṣavetasapallavāḥ |

38.2३८.२

किराततिक्तकं शाकं गण्डीरः सकठिल्लकः ॥ (३८।२)

kirātatiktakaṃ śākaṃ gaṇḍīraḥ sakaṭhillakaḥ ||

39.1३९.१

कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मलेः । (३९।१)

kovidārasya puṣpāṇi kāśmaryasyātha śālmaleḥ |

39.2३९.२

अन्नपानविधौ शाकं यच्चान्यद्रक्तपित्तनुत् ॥ (३९।२)

annapānavidhau śākaṃ yaccānyadraktapittanut ||

40.1४०.१

शाकार्थं शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम् । (४०।१)

śākārthaṃ śākasātmyānāṃ tacchastaṃ raktapittinām |

40.2४०.२

स्विन्नं वा सर्पिषा भृष्टं यूषवद्वा विपाचितम् ॥ (४०।२)

svinnaṃ vā sarpiṣā bhṛṣṭaṃ yūṣavadvā vipācitam ||

41.1४१.१

पारावतान् कपोतांश्च लावान् रक्ताक्षवर्तकान् । (४१।१)

pārāvatān kapotāṃśca lāvān raktākṣavartakān |

41.2४१.२

शशान् कपिञ्जलानेणान् हरिणान्कालपुच्छकान् ॥ (४१।२)

śaśān kapiñjalāneṇān hariṇānkālapucchakān ||

42.1४२.१

रक्तपित्ते हितान् विद्याद्रसांस्तेषां प्रयोजयेत् । (४२।१)

raktapitte hitān vidyādrasāṃsteṣāṃ prayojayet |

42.2४२.२

ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान् ॥ (४२।२)

īṣadamlānanamlān vā ghṛtabhṛṣṭān saśarkarān ||

43.1४३.१

कफानुगे यूषशाकं दद्याद्वातानुगे रसम् । (४३।१)

kaphānuge yūṣaśākaṃ dadyādvātānuge rasam |

43.2४३.२

रक्तपित्ते यवागूनामतः कल्पः प्रवक्ष्यते ॥ (४३।२)

raktapitte yavāgūnāmataḥ kalpaḥ pravakṣyate ||

44.1४४.१

पद्मोत्पलानां किञ्जल्कः पृश्निपर्णी प्रियङ्गुकाः । (४४।१)

padmotpalānāṃ kiñjalkaḥ pṛśniparṇī priyaṅgukāḥ |

44.2४४.२

जले साध्या रसे तस्मिन् पेया स्याद्रक्तपित्तिनाम् ॥ (४४।२)

jale sādhyā rase tasmin peyā syādraktapittinām ||

45.1४५.१

चन्दनोशीरलोध्राणां रसे तद्वत् सनागरे । (४५।१)

candanośīralodhrāṇāṃ rase tadvat sanāgare |

45.2४५.२

किराततिक्तकोशीरमुस्तानां तद्वदेव च ॥ (४५।२)

kirātatiktakośīramustānāṃ tadvadeva ca ||

46.1४६.१

धातकीधन्वयासाम्बुबिल्वानां वा रसे शृता । (४६।१)

dhātakīdhanvayāsāmbubilvānāṃ vā rase śṛtā |

46.2४६.२

मसूरपृश्निपर्ण्योर्वा स्थिरामुद्गरसे ऽथवा ॥ (४६।२)

masūrapṛśniparṇyorvā sthirāmudgarase 'thavā ||

47.1४७.१

रसे हरेणुकानां वा सघृते सबलारसे । (४७।१)

rase hareṇukānāṃ vā saghṛte sabalārase |

47.2४७.२

सिद्धाः पारावतादीनां रसे वा स्युः पृथक्पृथक् ॥ (४७।२)

siddhāḥ pārāvatādīnāṃ rase vā syuḥ pṛthakpṛthak ||

48.1४८.१

इत्युक्ता रक्तपित्तघ्न्यः शीताः समधुशर्कराः । (४८।१)

ityuktā raktapittaghnyaḥ śītāḥ samadhuśarkarāḥ |

48.2४८.२

यवाग्वः कल्पना चैषा कार्या मांसरसेष्वपि ॥ (४८।२)

yavāgvaḥ kalpanā caiṣā kāryā māṃsaraseṣvapi ||

49.1४९.१

शशः सवास्तुकः शस्तो विबन्धे रक्तपित्तिनाम् । (४९।१)

śaśaḥ savāstukaḥ śasto vibandhe raktapittinām |

49.2४९.२

वातोल्बणे तित्तिरिः स्यादुदुम्बररसे शृतः ॥ (४९।२)

vātolbaṇe tittiriḥ syādudumbararase śṛtaḥ ||

50.1५०.१

मयूरः प्लक्षनिर्यूहे न्यग्रोधस्य च कुक्कुटः । (५०।१)

mayūraḥ plakṣaniryūhe nyagrodhasya ca kukkuṭaḥ |

50.2५०.२

रसे बिल्वोत्पलादीनां वर्तकक्रकरौ हितौ ॥ (५०।२)

rase bilvotpalādīnāṃ vartakakrakarau hitau ||

51.1५१.१

तृष्यते तिक्तकैः सिद्धं तृष्णाघ्नं वा फलोदकम् । (५१।१)

tṛṣyate tiktakaiḥ siddhaṃ tṛṣṇāghnaṃ vā phalodakam |

51.2५१.२

सिद्धं विदारिगन्धाद्यैरथवा शृतशीतलम् ॥ (५१।२)

siddhaṃ vidārigandhādyairathavā śṛtaśītalam ||

52.1५२.१

ज्ञात्वा दोषावनुबलौ बलमाहारमेव च । (५२।१)

jñātvā doṣāvanubalau balamāhārameva ca |

52.2५२.२

जलं पिपासवे दद्याद्विसर्गादल्पशो ऽपि वा ॥ (५२।२)

jalaṃ pipāsave dadyādvisargādalpaśo 'pi vā ||

53.1५३.१

निदानं रक्तपित्तस्य यत्किंचित् संप्रकाशितम् । (५३।१)

nidānaṃ raktapittasya yatkiṃcit saṃprakāśitam |

53.2५३.२

जीवितारोग्यकामैस्तन्न सेव्यं रक्तपित्तिभिः ॥ (५३।२)

jīvitārogyakāmaistanna sevyaṃ raktapittibhiḥ ||

54.1५४.१

इत्यन्नपानं निर्दिष्टं क्रमशो रक्तपित्तनुत् । (५४।१)

ityannapānaṃ nirdiṣṭaṃ kramaśo raktapittanut |

54.2५४.२

वक्ष्यते बहुदोषाणां कार्यं बलवतां च यत् ॥ (५४।२)

vakṣyate bahudoṣāṇāṃ kāryaṃ balavatāṃ ca yat ||

55.1५५.१

अक्षीणबलमांसस्य यस्य संतर्पणोत्थितम् । (५५।१)

akṣīṇabalamāṃsasya yasya saṃtarpaṇotthitam |

55.2५५.२

बहुदोषं बलवतो रक्तपित्तं शरीरिणः ॥ (५५।२)

bahudoṣaṃ balavato raktapittaṃ śarīriṇaḥ ||

56.1५६.१

काले संशोधनार्हस्य तद्धरेन्निरुपद्रवम् । (५६।१)

kāle saṃśodhanārhasya taddharennirupadravam |

56.2५६.२

विरेचनेनोर्ध्वभागमधोगं वमनेन च ॥ (५६।२)

virecanenordhvabhāgamadhogaṃ vamanena ca ||

57.1५७.१

त्रिवृतामभयां प्राज्ञः फलान्यारग्वधस्य वा । (५७।१)

trivṛtāmabhayāṃ prājñaḥ phalānyāragvadhasya vā |

57.2५७.२

त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा ॥ (५७।२)

trāyamāṇāṃ gavākṣyā vā mūlamāmalakāni vā ||

58.1५८.१

विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम् । (५८।१)

virecanaṃ prayuñjīta prabhūtamadhuśarkaram |

58.2५८.२

रसः प्रशस्यते तेषां रक्तपित्ते विशेषतः ॥ (५८।२)

rasaḥ praśasyate teṣāṃ raktapitte viśeṣataḥ ||

59.1५९.१

वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः । (५९।१)

vamanaṃ madanonmiśro manthaḥ sakṣaudraśarkaraḥ |

59.2५९.२

सशर्करं वा सलिलमिक्षूणां रस एव वा ॥ (५९।२)

saśarkaraṃ vā salilamikṣūṇāṃ rasa eva vā ||

60.1६०.१

वत्सकस्य फलं मुस्तं मदनं मधुकं मधु । (६०।१)

vatsakasya phalaṃ mustaṃ madanaṃ madhukaṃ madhu |

60.2६०.२

अधोवहे रक्तपित्ते वमनं परमुच्यते ॥ (६०।२)

adhovahe raktapitte vamanaṃ paramucyate ||

61.1६१.१

ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादिः क्रमो हितः । (६१।१)

ūrdhvage śuddhakoṣṭhasya tarpaṇādiḥ kramo hitaḥ |

61.2६१.२

अधोगते यवाग्वादिर्न चेत्स्यान्मारुतो बली ॥ (६१।२)

adhogate yavāgvādirna cetsyānmāruto balī ||

62.1६२.१

बलमांसपरिक्षीणं शोकभाराध्वकर्शितम् । (६२।१)

balamāṃsaparikṣīṇaṃ śokabhārādhvakarśitam |

62.2६२.२

ज्वलनादित्यसंतप्तमन्यैर्वा क्षीणमामयैः ॥ (६२।२)

jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ ||

63.1६३.१

गर्भिणीं स्थविरं बालं रूक्षाल्पप्रमिताशिनम् । (६३।१)

garbhiṇīṃ sthaviraṃ bālaṃ rūkṣālpapramitāśinam |

63.2६३.२

अवम्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम् ॥ (६३।२)

avamyamavirecyaṃ vā yaṃ paśyedraktapittinam ||

64.1६४.१

शोषेण सानुबन्धं वा तस्य संशमनी क्रिया । (६४।१)

śoṣeṇa sānubandhaṃ vā tasya saṃśamanī kriyā |

64.2६४.२

शस्यते रक्तपित्तस्य परं साथ प्रवक्ष्यते ॥ (६४।२)

śasyate raktapittasya paraṃ sātha pravakṣyate ||

65.1६५.१

अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः । (६५।१)

aṭarūṣakamṛdvīkāpathyākvāthaḥ saśarkaraḥ |

65.2६५.२

मधुमिश्रः श्वासकासरक्तपित्तनिबर्हणः ॥ (६५।२)

madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ ||

66.1६६.१

अटरूषकनिर्यूहे प्रियङ्गुं मृत्तिकाञ्जने । (६६।१)

aṭarūṣakaniryūhe priyaṅguṃ mṛttikāñjane |

66.2६६.२

विनीय लोध्रं क्षौद्रं च रक्तपित्तहरं पिबेत् ॥ (६६।२)

vinīya lodhraṃ kṣaudraṃ ca raktapittaharaṃ pibet ||

67.1६७.१

पद्मकं पद्मकिञ्जल्कं दूर्वां वास्तूकमुत्पलम् । (६७।१)

padmakaṃ padmakiñjalkaṃ dūrvāṃ vāstūkamutpalam |

67.2६७.२

नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत् ॥ (६७।२)

nāgapuṣpaṃ ca lodhraṃ ca tenaiva vidhinā pibet ||

68.1६८.१

प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे । (६८।१)

prapauṇḍarīkaṃ madhukaṃ madhu cāśvaśakṛdrase |

68.2६८.२

यवासभृङ्गरजसोर्मूलं वा गोशकृद्रसे ॥ (६८।२)

yavāsabhṛṅgarajasormūlaṃ vā gośakṛdrase ||

69.1६९.१

विनीय रक्तपित्तघ्नं पेयं स्यात्तण्डुलाम्बुना । (६९।१)

vinīya raktapittaghnaṃ peyaṃ syāttaṇḍulāmbunā |

69.2६९.२

युक्तं वा मधुसर्पिर्भ्यां लिह्याद् गोऽश्वशकृद्रसम् ॥ (६९।२)

yuktaṃ vā madhusarpirbhyāṃ lihyād go'śvaśakṛdrasam ||

70.1७०.१

खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मलेः । (७०।१)

khadirasya priyaṅgūṇāṃ kovidārasya śālmaleḥ |

70.2७०.२

पुष्पचूर्णानि मधुना लिह्यान्ना रक्तपित्तिकः ॥ (७०।२)

puṣpacūrṇāni madhunā lihyānnā raktapittikaḥ ||

71.1७१.१

शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि । (७१।१)

śṛṅgāṭakānāṃ lājānāṃ mustakharjūrayorapi |

71.2७१.२

लिह्याच्चूर्णानि मधुना पद्मानां केशरस्य च ॥ (७१।२)

lihyāccūrṇāni madhunā padmānāṃ keśarasya ca ||

72.1७२.१

धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम् । (७२।१)

dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām |

72.2७२.२

सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावतं शकृत् ॥ (७२।२)

sakṣaudraṃ grathite rakte lihyāt pārāvataṃ śakṛt ||

73.1७३.१

उशीरकालीयकलोध्रपद्मकप्रियङ्गुकाकट्फलशङ्खगैरिकाः । (७३।१)

uśīrakālīyakalodhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ |

73.2७३.२

पृथक् पृथक् चन्दनतुल्यभागिकाः सशर्करास्तण्डुलधावनाप्लुताः ॥ (७३।२)

pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ ||

74.1७४.१

रक्तं सपित्तं तमकं पिपासां दाहं च पीताः शमयन्ति सद्यः । (७४।१)

raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ |

74.2७४.२

किराततिक्तं क्रमुकं समुस्तं प्रपौण्डरीकं कमलोत्पले च ॥ (७४।२)

kirātatiktaṃ kramukaṃ samustaṃ prapauṇḍarīkaṃ kamalotpale ca ||

75.1७५.१

ह्रीबेरमूलानि पटोलपत्रं दुरालभा पर्पटको मृणालम् । (७५।१)

hrīberamūlāni paṭolapatraṃ durālabhā parpaṭako mṛṇālam |

75.2७५.२

धनञ्जयोदुम्बरवेतसत्वङ्न्यग्रोधशालेययवासकत्वक् ॥ (७५।२)

dhanañjayodumbaravetasatvaṅnyagrodhaśāleyayavāsakatvak ||

76.1७६.१

तुगालतावेतसतण्डुलीयं ससारिवं मोचरसः समङ्गा । (७६।१)

tugālatāvetasataṇḍulīyaṃ sasārivaṃ mocarasaḥ samaṅgā |

76.2७६.२

पृथक् पृथक् चन्दनयोजितानि तेनैव कल्पेन हितानि तत्र ॥ (७६।२)

pṛthak pṛthak candanayojitāni tenaiva kalpena hitāni tatra ||

77.1७७.१

निशि स्थिता वा स्वरसीकृता वा कल्कीकृता वा मृदिताः शृता वा । (७७।१)

niśi sthitā vā svarasīkṛtā vā kalkīkṛtā vā mṛditāḥ śṛtā vā |

77.2७७.२

एते समस्ता गणशः पृथग्वा रक्तं सपित्तं शमयन्ति योगाः ॥ (७७।२)

ete samastā gaṇaśaḥ pṛthagvā raktaṃ sapittaṃ śamayanti yogāḥ ||

78.1७८.१

मुद्गाः सलाजाः सयवाः सकृष्णाः सोशीरमुस्ताः सह चन्दनेन । (७८।१)

mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena |

78.2७८.२

बलाजले पर्युषिताः कषाया रक्तं सपित्तं शमयन्त्युदीर्णम् ॥ (७८।२)

balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam ||

79.1७९.१

वैदूर्यमुक्तामणिगैरिकाणां मृच्छङ्खहेमामलकोदकानाम् । (७९।१)

vaidūryamuktāmaṇigairikāṇāṃ mṛcchaṅkhahemāmalakodakānām |

79.2७९.२

मधूदकस्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम् ॥ (७९।२)

madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam ||

80.1८०.१

उशीरपद्मोत्पलचन्दनानां पक्वस्य लोष्टस्य च यः प्रसादः । (८०।१)

uśīrapadmotpalacandanānāṃ pakvasya loṣṭasya ca yaḥ prasādaḥ |

80.2८०.२

सशर्करः क्षौद्रयुतः सुशीतो रक्तातियोगप्रशमाय देयः ॥ (८०।२)

saśarkaraḥ kṣaudrayutaḥ suśīto raktātiyogapraśamāya deyaḥ ||

81.1८१.१

प्रियङ्गुकाचन्दनलोध्रसारिवामधूकमुस्ताभयधातकीजलम् । (८१।१)

priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam |

81.2८१.२

समृत्प्रसादं सह यष्टिकाम्बुना सशर्करं रक्तनिबर्हणं परम् ॥ (८१।२)

samṛtprasādaṃ saha yaṣṭikāmbunā saśarkaraṃ raktanibarhaṇaṃ param ||

82.1८२.१

कषाययोगैर्विविधैर्यथोक्तैर्दीप्ते ऽनले श्लेष्मणि निर्जिते च । (८२।१)

kaṣāyayogairvividhairyathoktairdīpte 'nale śleṣmaṇi nirjite ca |

82.2८२.२

यद्रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु तत्र कार्यम् ॥ (८२।२)

yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam ||

83.1८३.१

छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा । (८३।१)

chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale vā |

83.2८३.२

सशर्करं माक्षिकसम्प्रयुक्तं विदारिगन्धादिगणैः शृतं वा ॥ (८३।२)

saśarkaraṃ mākṣikasamprayuktaṃ vidārigandhādigaṇaiḥ śṛtaṃ vā ||

84.1८४.१

द्राक्षाशृतं नागरकैः शृतं वा बलाशृतं गोक्षुरकैः शृतं वा । (८४।१)

drākṣāśṛtaṃ nāgarakaiḥ śṛtaṃ vā balāśṛtaṃ gokṣurakaiḥ śṛtaṃ vā |

84.2८४.२

सजीवकं सर्षभकं ससर्पिः पयः प्रयोज्यं सितया शृतं वा ॥ (८४।२)

sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā ||

85.1८५.१

शतावरीगोक्षुरकैः शृतं वा शृतं पयो वाप्यथ पर्णिनीभिः । (८५।१)

śatāvarīgokṣurakaiḥ śṛtaṃ vā śṛtaṃ payo vāpyatha parṇinībhiḥ |

85.2८५.२

रक्तं निहन्त्याशु विशेषतस्तु यन्मूत्रमार्गात् सरुजं प्रयाति ॥ (८५।२)

raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti ||

86.1८६.१

विशेषतो विट्पथसम्प्रवृत्ते पयो मतं मोचरसेन सिद्धम् । (८६।१)

viśeṣato viṭpathasampravṛtte payo mataṃ mocarasena siddham |

86.2८६.२

वटावरोहैर् वटशुङ्गकैर् वा ह्रीबेरनीलोत्पलनागरैर्वा ॥ (८६।२)

vaṭāvarohair vaṭaśuṅgakair vā hrīberanīlotpalanāgarairvā ||

87.1८७.१

कषाययोगान् पयसा पुरा वा पीत्वानु चाद्यात् पयसैव शालीन् । (८७।१)

kaṣāyayogān payasā purā vā pītvānu cādyāt payasaiva śālīn |

87.2८७.२

कषाययोगैरथवा विपक्वमेतैः पिबेत् सर्पिरतिस्रवे च ॥ (८७।२)

kaṣāyayogairathavā vipakvametaiḥ pibet sarpiratisrave ca ||

88.1८८.१

वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः । (८८।१)

vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ |

88.2८८.२

प्रदाय कल्कं विपचेद्घृतं तत् सक्षौद्रमाश्वेव निहन्ति रक्तम् ॥ (८८।२)

pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam ||

89.1८९.१

इति वासाघृतम् । (८९।१)

iti vāsāghṛtam |

89.2८९.२

पलाशवृन्तस्वरसेन सिद्धं तस्यैव कल्केन मधुद्रवेण । (८९।२)

palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa |

89.3८९.३

लिह्याद्घृतं वत्सककल्कसिद्धं तद्वत् समङ्गोत्पललोध्रसिद्धम् ॥ (८९।३)

lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham ||

90.1९०.१

स्यात्त्रायमाणाविधिरेष एव सोदुम्बरे चैव पटोलपत्रे । (९०।१)

syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre |

90.2९०.२

सर्पींषि पित्तज्वरनाशनानि सर्वाणि शस्तानि च रक्तपित्ते ॥ (९०।२)

sarpīṃṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte ||

91.1९१.१

अभ्यङ्गयोगाः परिषेचनानि सेकावगाहाः शयनानि वेश्म । (९१।१)

abhyaṅgayogāḥ pariṣecanāni sekāvagāhāḥ śayanāni veśma |

91.2९१.२

शीतो विधिर्बस्तिविधानमग्र्यं पित्तज्वरे यत् प्रशमाय दिष्टम् ॥ (९१।२)

śīto vidhirbastividhānamagryaṃ pittajvare yat praśamāya diṣṭam ||

92.1९२.१

तद्रक्तपित्ते निखिलेन कार्यं कालं च मात्रां च पुरा समीक्ष्य । (९२।१)

tadraktapitte nikhilena kāryaṃ kālaṃ ca mātrāṃ ca purā samīkṣya |

92.2९२.२

सर्पिर्गुडा ये च हिताः क्षतेभ्यस्ते रक्तपित्तं शमयन्ति सद्यः ॥ (९२।२)

sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ ||

93.1९३.१

कफानुबन्धे रुधिरे सपित्ते कण्ठागते स्याद्ग्रथिते प्रयोगः । (९३।१)

kaphānubandhe rudhire sapitte kaṇṭhāgate syādgrathite prayogaḥ |

93.2९३.२

युक्तस्य युक्त्या मधुसर्पिषोश्च क्षारस्य चैवोत्पलनालजस्य ॥ (९३।२)

yuktasya yuktyā madhusarpiṣośca kṣārasya caivotpalanālajasya ||

94.1९४.१

मृणालपद्मोत्पलकेशराणां तथा पलाशस्य तथा प्रियङ्गोः । (९४।१)

mṛṇālapadmotpalakeśarāṇāṃ tathā palāśasya tathā priyaṅgoḥ |

94.2९४.२

तथा मधूकस्य तथासनस्य क्षाराः प्रयोज्या विधिनैव तेन ॥ (९४।२)

tathā madhūkasya tathāsanasya kṣārāḥ prayojyā vidhinaiva tena ||

95.1९५.१

शतावरीदाडिमतिन्तिडीकं काकोलिमेदे मधुकं विदारीम् । (९५।१)

śatāvarīdāḍimatintiḍīkaṃ kākolimede madhukaṃ vidārīm |

95.2९५.२

पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणं ज्ञः ॥ (९५।२)

piṣṭvā ca mūlaṃ phalapūrakasya ghṛtaṃ pacet kṣīracaturguṇaṃ jñaḥ ||

96.1९६.१

कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्यात् । (९६।१)

kāsajvarānāhavibandhaśūlaṃ tadraktapittaṃ ca ghṛtaṃ nihanyāt |

96.2९६.२

यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च तदर्थकारि ॥ (९६।२)

yat pañcamūlairatha pañcabhirvā siddhaṃ ghṛtaṃ tacca tadarthakāri ||

97.1९७.१

इति शतावर्यादिघृतम् । (९७।१)

iti śatāvaryādighṛtam |

97.2९७.२

कषाययोगा य इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्याः । (९७।२)

kaṣāyayogā ya ihopadiṣṭāste cāvapīḍe bhiṣajā prayojyāḥ |

97.3९७.३

घ्राणात् प्रवृत्तं रुधिरं सपीतं यदा भवेन्निःसृतदुष्टदोषम् ॥ (९७।३)

ghrāṇāt pravṛttaṃ rudhiraṃ sapītaṃ yadā bhavenniḥsṛtaduṣṭadoṣam ||

98.1९८.१

रक्ते प्रदुष्टे ह्यवपीडबन्धे दुष्टप्रतिश्यायशिरोविकाराः । (९८।१)

rakte praduṣṭe hyavapīḍabandhe duṣṭapratiśyāyaśirovikārāḥ |

98.2९८.२

रक्तं सपूयं कुणपश्च गन्धः स्याद् घ्राणनाशः कृमयश्च दुष्टाः ॥ (९८।२)

raktaṃ sapūyaṃ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ ||

99.1९९.१

नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात्तु सिताजलेन । (९९।१)

nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena |

99.2९९.२

नस्यं तथाम्रास्थिरसः समङ्गा सधातकीमोचरसः सलोध्रः ॥ (९९।२)

nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ ||

100.1१००.१

द्राक्षारसस्येक्षुरसस्य नस्यं क्षीरस्य दूर्वास्वरसस्य चैव । (१००।१)

drākṣārasasyekṣurasasya nasyaṃ kṣīrasya dūrvāsvarasasya caiva |

100.2१००.२

यवासमूलानि पलाण्डुमूलं नस्यं तथा दाडिमपुष्पतोयम् ॥ (१००।२)

yavāsamūlāni palāṇḍumūlaṃ nasyaṃ tathā dāḍimapuṣpatoyam ||

101.1१०१.१

प्रियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषम् आजिकं वा । (१०१।१)

priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣam ājikaṃ vā |

101.2१०१.२

आम्रास्थिपूर्वैः पयसा च नस्यं ससारिवैः स्यात् कमलोत्पलैश्च ॥ (१०१।२)

āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca ||

102.1१०२.१

भद्रश्रियं लोहितचन्दनं च प्रपौण्डरीकं कमलोत्पले च । (१०२।१)

bhadraśriyaṃ lohitacandanaṃ ca prapauṇḍarīkaṃ kamalotpale ca |

102.2१०२.२

उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या ॥ (१०२।२)

uśīravānīrajalaṃ mṛṇālaṃ sahasravīryā madhukaṃ payasyā ||

103.1१०३.१

शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च । (१०३।१)

śālīkṣumūlāni yavāsagundrāmūlaṃ nalānāṃ kuśakāśayośca |

103.2१०३.२

कुचन्दनं शैवलमप्यनन्ता कालानुसार्या तृणमूलमृद्धिः ॥ (१०३।२)

kucandanaṃ śaivalamapyanantā kālānusāryā tṛṇamūlamṛddhiḥ ||

104.1१०४.१

मूलानि पुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च । (१०४।१)

mūlāni puṣpāṇi ca vārijānāṃ pralepanaṃ puṣkariṇīmṛdaśca |

104.2१०४.२

उदुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिराश्च सर्वे ॥ (१०४।२)

udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāśca sarve ||

105.1१०५.१

प्रदेहकल्पे परिषेचने च तथावगाहे घृततैलसिद्धौ । (१०५।१)

pradehakalpe pariṣecane ca tathāvagāhe ghṛtatailasiddhau |

105.2१०५.२

रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात् ॥ (१०५।२)

raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt ||

106.1१०६.१

धारागृहं भूमिगृहं सुशीतं वनं च रम्यं जलवातशीतम् । (१०६।१)

dhārāgṛhaṃ bhūmigṛhaṃ suśītaṃ vanaṃ ca ramyaṃ jalavātaśītam |

106.2१०६.२

वैदूर्यमुक्तामणिभाजनानां स्पर्शाश्च दाहे शिशिराम्बुशीताः ॥ (१०६।२)

vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ ||

107.1१०७.१

पत्राणि पुष्पाणि च वारिजानां क्षौमं च शीतं कदलीदलानि । (१०७।१)

patrāṇi puṣpāṇi ca vārijānāṃ kṣaumaṃ ca śītaṃ kadalīdalāni |

107.2१०७.२

प्रच्छादनार्थं शयनासनानां पद्मोत्पलानां च दलाः प्रशस्ताः ॥ (१०७।२)

pracchādanārthaṃ śayanāsanānāṃ padmotpalānāṃ ca dalāḥ praśastāḥ ||

108.1१०८.१

प्रियङ्गुकाचन्दनरूषितानां स्पर्शाः प्रियाणां च वराङ्गनानाम् । (१०८।१)

priyaṅgukācandanarūṣitānāṃ sparśāḥ priyāṇāṃ ca varāṅganānām |

108.2१०८.२

दाहे प्रशस्ताः सजलाः सुशीताः पद्मोत्पलानां च कलापवाताः ॥ (१०८।२)

dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ ||

109.1१०९.१

सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम् । (१०९।१)

sariddhradānāṃ himavaddarīṇāṃ candrodayānāṃ kamalākarāṇām |

109.2१०९.२

मनोऽनुकूलाः शिशिराश्च सर्वाः कथाः सरक्तं शमयन्ति पित्तम् ॥ (१०९।२)

mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam ||

110.1११०.१

तत्र श्लोकौ । (११०।१)

tatra ślokau |

110.2११०.२

हेतुं वृद्धिं संज्ञां स्थानं लिङ्गं पृथक् प्रदुष्टस्य । (११०।२)

hetuṃ vṛddhiṃ saṃjñāṃ sthānaṃ liṅgaṃ pṛthak praduṣṭasya |

110.3११०.३

मार्गौ साध्यमसाध्यं याप्यं कार्यक्रमं चैव ॥ (११०।३)

mārgau sādhyamasādhyaṃ yāpyaṃ kāryakramaṃ caiva ||

111.1१११.१

पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च । (१११।१)

pānānnamiṣṭameva ca varjyaṃ saṃśodhanaṃ ca śamanaṃ ca |

111.2१११.२

गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य ॥ (१११।२)

gururuktavānyathāvaccikitsite raktapittasya ||

Data courtesy of The Digital Corpus of Sanskrit.

Ca, 6, 6

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit