Ca, 6, 4, 2
Select a line for its word-by-word analysis.
अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः ॥ (१।०)
athāta āsiktakṣīrikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ ||
आसिक्तक्षीरम् आपूर्णम् अशुष्कं शुद्धषष्टिकम् । (३।१)
āsiktakṣīram āpūrṇam aśuṣkaṃ śuddhaṣaṣṭikam |
बलायाः शूर्पपर्ण्याश्च जीवन्त्या जीवकस्य च । (५।१)
balāyāḥ śūrpaparṇyāśca jīvantyā jīvakasya ca |
शतावर्या विदार्याश्च द्राक्षाखर्जूरयोर् अपि । (६।१)
śatāvaryā vidāryāśca drākṣākharjūrayor api |
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत् ॥ (६।२)
saṃyuktaṃ mātrayā vaidyaḥ sādhayettatra cāvapet ||
तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च । (७।१)
tugākṣīryāḥ samāṣāṇāṃ śālīnāṃ ṣaṣṭikasya ca |
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः ॥ (७।२)
godhūmānāṃ ca cūrṇāni yaiḥ sa sāndrībhavedrasaḥ ||
सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम् । (८।१)
sāndrībhūtaṃ ca kuryāt prabhūtamadhuśarkaram |
गुटिका बदरैस्तुल्यास्ताश् च सर्पिषि भर्जयेत् ॥ (८।२)
guṭikā badaraistulyāstāś ca sarpiṣi bharjayet ||
पश्यत्यपत्यं विपुलं वृद्धो ऽप्यात्मजमक्षयम् ॥ (९।२)
paśyatyapatyaṃ vipulaṃ vṛddho 'pyātmajamakṣayam ||
चटकानां सहंसानां दक्षाणां शिखिनां तथा । (१०।१)
caṭakānāṃ sahaṃsānāṃ dakṣāṇāṃ śikhināṃ tathā |
शिशुमारस्य नक्रस्य भिषक्शुक्राणि संहरेत् ॥ (१०।२)
śiśumārasya nakrasya bhiṣakśukrāṇi saṃharet ||
गव्यं सर्पिर् वराहस्य कुलिङ्गस्य वसामपि । (११।१)
gavyaṃ sarpir varāhasya kuliṅgasya vasāmapi |
षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य च ॥ (११।२)
ṣaṣṭikānāṃ ca cūrṇāni cūrṇaṃ godhūmakasya ca ||
एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा । (१२।१)
ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā |
पूपा धानाश् च विविधा भक्ष्याश्चान्ये पृथग्विधाः ॥ (१२।२)
pūpā dhānāś ca vividhā bhakṣyāścānye pṛthagvidhāḥ ||
एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा । (१३।१)
eṣāṃ prayogādbhakṣyāṇāṃ stabdhenāpūrṇaretasā |
शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः ॥ (१३।२)
śephasā vājivadyāti yāvadicchaṃ striyo naraḥ ||
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम् । (१४।१)
ātmaguptāphalaṃ māṣān kharjūrāṇi śatāvarīm |
शृङ्गाटकानि मृद्वीकां साधयेत्प्रसृतोन्मितम् ॥ (१४।२)
śṛṅgāṭakāni mṛdvīkāṃ sādhayetprasṛtonmitam ||
क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम् । (१५।१)
kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam |
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस् त्रिभिः ॥ (१५।२)
śuddhena vāsasā pūtaṃ yojayet prasṛtais tribhiḥ ||
शर्करायास्तुगाक्षीर्याः सर्पिषो ऽभिनवस्य च । (१६।१)
śarkarāyāstugākṣīryāḥ sarpiṣo 'bhinavasya ca |
तत् पाययेत् सक्षौद्रं षष्टिकान्नं च भोजयेत् ॥ (१६।२)
tat pāyayet sakṣaudraṃ ṣaṣṭikānnaṃ ca bhojayet ||
खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम् । (१८।१)
kharjūrīmastakaṃ māṣān payasyāṃ ca śatāvarīm |
क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम् । (२०।१)
kṣīraśeṣeṇa tenādyād ghṛtāḍhyaṃ ṣaṣṭikaudanam |
जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम् । (२१।१)
jīvakarṣabhakau medāṃ jīvantīṃ śrāvaṇīdvayam |
खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम् ॥ (२१।२)
kharjūraṃ madhukaṃ drākṣāṃ pippalīṃ viśvabheṣajam ||
शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम् । (२२।१)
śṛṅgāṭakaṃ vidārīṃ ca navaṃ sarpiḥ payo jalam |
सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम् ॥ (२२।२)
siddhaṃ ghṛtāvaśeṣaṃ taccharkarākṣaudrapādikam ||
वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणम् उत्तमम् ॥ (२३।२)
vṛṣyaṃ balyaṃ ca varṇyaṃ ca kaṇṭhyaṃ bṛṃhaṇam uttamam ||
दध्नः सरं शरच्चन्द्रसंनिभं दोषवर्जितम् । (२४।१)
dadhnaḥ saraṃ śaraccandrasaṃnibhaṃ doṣavarjitam |
शर्कराक्षौद्रमरिचैस् तुगाक्षीर्या च बुद्धिमान् ॥ (२४।२)
śarkarākṣaudramaricais tugākṣīryā ca buddhimān ||
युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे । (२५।१)
yuktyā yuktaṃ sasūkṣmailaṃ nave kumbhe śucau paṭe |
मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने ॥ (२५।२)
mārjitaṃ prakṣipecchīte ghṛtāḍhye ṣaṣṭikaudane ||
पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम् । (२६।१)
pibenmātrāṃ rasālāyāstaṃ bhuktvā ṣaṣṭikaudanam |
चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम् । (२७।१)
candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam |
तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम् । (२८।१)
tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam |
पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः । (२९।१)
paktvā pūpalikāḥ khādedvāruṇīmaṇḍapo naraḥ |
य इच्छेदश्ववद् गन्तुं प्रसेक्तुं गजवच् च यः ॥ (२९।२)
ya icchedaśvavad gantuṃ prasektuṃ gajavac ca yaḥ ||
एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो बलवर्णयुक्तः । (३०।१)
etaiḥ prayogairvidhivadvapuṣmān vīryopapanno balavarṇayuktaḥ |
हर्षान्वितो वाजिवद् अष्टवर्षो भवेत् समर्थश्च वराङ्गनासु ॥ (३०।२)
harṣānvito vājivad aṣṭavarṣo bhavet samarthaśca varāṅganāsu ||
यद्यच्च किंचिन् मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः । (३१।१)
yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ |
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् ॥ (३१।२)
iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra yogyam ||
आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः । (३२।१)
āsiktakṣīrike pāde ye yogāḥ parikīrtitāḥ |
अष्टाव् अपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः ॥ (३२।२)
aṣṭāv apatyakāmaiste prayojyāḥ pauruṣārthibhiḥ ||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः ॥ (३३।०)
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.