Ca, 1, 2
Select a line for its word-by-word analysis.
अथातो ऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः ॥ (१।१)
athāto 'pāmārgataṇḍulīyamadhyāyaṃ vyākhyāsyāmaḥ ||
विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि च ॥ (३।२)
viḍaṅgānyatha śigrūṇi sarṣapāṃstumburūṇi ca ||
पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्झकौ ॥ (४।२)
pṛthvīkāṃ surasāṃ śvetāṃ kuṭherakaphaṇijjhakau ||
ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने ॥ (५।२)
jyotiṣmatīṃ nāgaraṃ ca dadyācchīrṣavirecane ||
त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम् । (९।१)
trivṛtāṃ triphalāṃ dantīṃ nīlinīṃ saptalāṃ vacām |
कम्पिल्लकं गवाक्षीं च क्षीरिणीम् उदकीर्यकाम् ॥ (९।२)
kampillakaṃ gavākṣīṃ ca kṣīriṇīm udakīryakām ||
पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च । (१०।१)
pīlūnyāragvadhaṃ drākṣāṃ dravantīṃ niculāni ca |
पाटलां चाग्निमन्थं च बिल्वं श्योनाकमेव च । (११।१)
pāṭalāṃ cāgnimanthaṃ ca bilvaṃ śyonākameva ca |
काश्मर्यं शालपर्णीं च पृश्निपर्णीं निदिग्धिकाम् ॥ (११।२)
kāśmaryaṃ śālaparṇīṃ ca pṛśniparṇīṃ nidigdhikām ||
बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम् । (१२।१)
balāṃ śvadaṃṣṭrāṃ bṛhatīmeraṇḍaṃ sapunarnavam |
यवान् कुलत्थान् कोलानि गुडूचीं मदनानि च ॥ (१२।२)
yavān kulatthān kolāni guḍūcīṃ madanāni ca ||
पलाशं कत्तृणं चैव स्नेहांश्च लवणानि च । (१३।१)
palāśaṃ kattṛṇaṃ caiva snehāṃśca lavaṇāni ca |
उदावर्ते विबन्धेषु युञ्ज्यादास्थापनेषु च ॥ (१३।२)
udāvarte vibandheṣu yuñjyādāsthāpaneṣu ca ||
मारुतघ्नमिति प्रोक्तः संग्रहः पाञ्चकर्मिकः ॥ (१४।२)
mārutaghnamiti proktaḥ saṃgrahaḥ pāñcakarmikaḥ ||
पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन् ॥ (१५।२)
pañcakarmāṇi kurvīta mātrākālau vicārayan ||
मात्राकालाश्रया युक्तिः सिद्धिर्युक्तौ प्रतिष्ठिता । (१६।१)
mātrākālāśrayā yuktiḥ siddhiryuktau pratiṣṭhitā |
तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा ॥ (१६।२)
tiṣṭhatyupari yuktijño dravyajñānavatāṃ sadā ||
अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः । (१७।१)
ata ūrdhvaṃ pravakṣyāmi yavāgūrvividhauṣadhāḥ |
विविधानां विकाराणां तत्साध्यानां निवृत्तये ॥ (१७।२)
vividhānāṃ vikārāṇāṃ tatsādhyānāṃ nivṛttaye ||
शालपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता । (२०।१)
śālaparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā |
दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम् ॥ (२०।२)
dāḍimāmlā hitā peyā pittaśleṣmātisāriṇām ||
पेया रक्तातिसारघ्नी पृश्निपर्ण्या च साधिता ॥ (२१।२)
peyā raktātisāraghnī pṛśniparṇyā ca sādhitā ||
दद्यात् सातिविषां पेयां सामे साम्लां सनागराम् । (२२।१)
dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām |
श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम् ॥ (२२।२)
śvadaṃṣṭrākaṇṭakārībhyāṃ mūtrakṛcchre saphāṇitām ||
तक्रसिद्धा यवागूः स्यात् क्रिमिघ्नी ससुवर्चिका ॥ (२३।२)
takrasiddhā yavāgūḥ syāt krimighnī sasuvarcikā ||
गवेधुकानां भृष्टानां कर्शनीया समाक्षिका ॥ (२५।२)
gavedhukānāṃ bhṛṣṭānāṃ karśanīyā samākṣikā ||
शाकैर्मांसैस्तिलैर्माषैः सिद्धा वर्चो निरस्यति । (२८।१)
śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati |
जम्ब्वाम्रास्थिदधित्थाम्लबिल्वैः साङ्ग्राहिकी मता ॥ (२८।२)
jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā ||
तक्रसिद्धा यवागूः स्याद्घृतव्यापत्तिनाशिनी । (३०।१)
takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī |
तैलव्यापदि शस्ता स्यात्तक्रपिण्याकसाधिता ॥ (३०।२)
tailavyāpadi śastā syāttakrapiṇyākasādhitā ||
कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता ॥ (३१।२)
kaṇṭhyā yavānāṃ yamake pippalyāmalakaiḥ śṛtā ||
क्षुधं हन्यादपामार्गक्षीरगोधारसैः शृता ॥ (३३।२)
kṣudhaṃ hanyādapāmārgakṣīragodhārasaiḥ śṛtā ||
पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसंग्रहः ॥ (३४।३)
pañcakarmāṇi cāśritya prokto bhaiṣajyasaṃgrahaḥ ||
पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः ॥ (३५।२)
pañcakarmāśrayajñānahetostat kīrtitaṃ punaḥ ||
स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान् । (३६।१)
smṛtimān hetuyuktijño jitātmā pratipattimān |
Data courtesy of The Digital Corpus of Sanskrit.