Ca, 1, 22
Select a line for its word-by-word analysis.
अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः ॥ (१।१)
athāto laṅghanabṛṃhaṇīyamadhyāyaṃ vyākhyāsyāmaḥ ||
लङ्घनं बृंहणं काले रूक्षणं स्नेहनं तथा । (४।१)
laṅghanaṃ bṛṃhaṇaṃ kāle rūkṣaṇaṃ snehanaṃ tathā |
स्वेदनं स्तम्भनं चैव जानीते यः स वै भिषक् ॥ (४।२)
svedanaṃ stambhanaṃ caiva jānīte yaḥ sa vai bhiṣak ||
भगवंल्लङ्घनं किंस्विल्लङ्घनीयाश्च कीदृशाः । (६।१)
bhagavaṃllaṅghanaṃ kiṃsvillaṅghanīyāśca kīdṛśāḥ |
बृंहणं बृंहणीयाश्च रूक्षणीयाश्च रूक्षणम् ॥ (६।२)
bṛṃhaṇaṃ bṛṃhaṇīyāśca rūkṣaṇīyāśca rūkṣaṇam ||
के स्नेहाः स्नेहनीयाश्च स्वेदाः स्वेद्याश्च के मताः । (७।१)
ke snehāḥ snehanīyāśca svedāḥ svedyāśca ke matāḥ |
स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद्गुरो ॥ (७।२)
stambhanaṃ stambhanīyāśca vaktumarhasi tadguro ||
यत् किंचिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥ (९।२)
yat kiṃcillāghavakaraṃ dehe tallaṅghanaṃ smṛtam ||
बृहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम् । (१०।१)
bṛhattvaṃ yaccharīrasya janayettacca bṛṃhaṇam |
रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्तद्धि रूक्षणम् ॥ (१०।२)
raukṣyaṃ kharatvaṃ vaiśadyaṃ yat kuryāttaddhi rūkṣaṇam ||
स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम् ॥ (११।२)
stambhagauravaśītaghnaṃ svedanaṃ svedakārakam ||
स्तम्भनं स्तम्भयति यद्गतिमन्तं चलं ध्रुवम् । (१२।१)
stambhanaṃ stambhayati yadgatimantaṃ calaṃ dhruvam |
लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम् ॥ (१२।२)
laghūṣṇatīkṣṇaviśadaṃ rūkṣaṃ sūkṣmaṃ kharaṃ saram ||
कठिनं चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम् । (१३।१)
kaṭhinaṃ caiva yaddravyaṃ prāyastallaṅghanaṃ smṛtam |
गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम् ॥ (१३।२)
guru śītaṃ mṛdu snigdhaṃ bahalaṃ sthūlapicchilam ||
प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणमुच्यते । (१४।१)
prāyo mandaṃ sthiraṃ ślakṣṇaṃ dravyaṃ bṛṃhaṇamucyate |
रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम् ॥ (१४।२)
rūkṣaṃ laghu kharaṃ tīkṣṇamuṣṇaṃ sthiramapicchilam ||
प्रायशः कठिनं चैव यद्द्रव्यं तद्धि रूक्षणम् । (१५।१)
prāyaśaḥ kaṭhinaṃ caiva yaddravyaṃ taddhi rūkṣaṇam |
द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम् । (१५।२)
dravaṃ sūkṣmaṃ saraṃ snigdhaṃ picchilaṃ guru śītalam |
प्रायो मन्दं मृदु च यद्द्रव्यं तत्स्नेहनं मतम् ॥ (१५।३)
prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam ||
उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम् । (१६।१)
uṣṇaṃ tīkṣṇaṃ saraṃ snigdhaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram |
द्रव्यं गुरु च यत् प्रायस्तद्धि स्वेदनमुच्यते ॥ (१६।२)
dravyaṃ guru ca yat prāyastaddhi svedanamucyate ||
शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम् । (१७।१)
śītaṃ mandaṃ mṛdu ślakṣṇaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram |
यद्द्रव्यं लघु चोद्दिष्टं प्रायस्तत् स्तम्भनं स्मृतम् ॥ (१७।२)
yaddravyaṃ laghu coddiṣṭaṃ prāyastat stambhanaṃ smṛtam ||
चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ । (१८।१)
catuṣprakārā saṃśuddhiḥ pipāsā mārutātapau |
प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः । (१९।१)
prabhūtaśleṣmapittāsramalāḥ saṃsṛṣṭamārutāḥ |
बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः ॥ (१९।२)
bṛhaccharīrā balino laṅghanīyā viśuddhibhiḥ ||
येषां मध्यबला रोगाः कफपित्तसमुत्थिताः । (२०।१)
yeṣāṃ madhyabalā rogāḥ kaphapittasamutthitāḥ |
पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत् ॥ (२१।२)
pācanaistān bhiṣak prājñaḥ prāyeṇādāvupācaret ||
त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहिणाम् । (२४।१)
tvagdoṣiṇāṃ pramīḍhānāṃ snigdhābhiṣyandibṛṃhiṇām |
अदिग्धविद्धम् अक्लिष्टं वयस्थं सात्म्यचारिणाम् । (२५।१)
adigdhaviddham akliṣṭaṃ vayasthaṃ sātmyacāriṇām |
मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते ॥ (२५।२)
mṛgamatsyavihaṅgānāṃ māṃsaṃ bṛṃhaṇamucyate ||
क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः । (२६।१)
kṣīṇāḥ kṣatāḥ kṛśā vṛddhā durbalā nityamadhvagāḥ |
स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः ॥ (२६।२)
strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ ||
शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये । (२७।१)
śoṣārśograhaṇīdoṣairvyādhibhiḥ karśitāśca ye |
तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः ॥ (२७।२)
teṣāṃ kravyādamāṃsānāṃ bṛṃhaṇā laghavo rasāḥ ||
स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः । (२८।१)
snānamutsādanaṃ svapno madhurāḥ snehabastayaḥ |
शर्कराक्षीरसर्पींषि सर्वेषां विद्धि बृंहणम् ॥ (२८।२)
śarkarākṣīrasarpīṃṣi sarveṣāṃ viddhi bṛṃhaṇam ||
खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम् ॥ (२९।२)
khalipiṇyākatakrāṇāṃ madhvādīnāṃ ca rūkṣaṇam ||
अभिष्यण्णा महादोषा मर्मस्था व्याधयश्च ये । (३०।१)
abhiṣyaṇṇā mahādoṣā marmasthā vyādhayaśca ye |
स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः । (३१।१)
snehāḥ snehayitavyāśca svedāḥ svedyāśca ye narāḥ |
स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम् ॥ (३१।२)
snehādhyāye mayoktāste svedākhye ca savistaram ||
स्वादु तिक्तं कषायं च स्तम्भनं सर्वमेव तत् ॥ (३२।२)
svādu tiktaṃ kaṣāyaṃ ca stambhanaṃ sarvameva tat ||
पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः । (३३।१)
pittakṣārāgnidagdhā ye vamyatīsārapīḍitāḥ |
विषस्वेदातियोगार्ताः स्तम्भनीया निदर्शिताः ॥ (३३।२)
viṣasvedātiyogārtāḥ stambhanīyā nidarśitāḥ ||
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते ॥ (३४।२)
hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate ||
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥ (३५।२)
kṛtaṃ laṅghanamādeśyaṃ nirvyathe cāntarātmani ||
पर्वभेदो ऽङ्गमर्दश्च कासः शोषो मुखस्य च । (३६।१)
parvabhedo 'ṅgamardaśca kāsaḥ śoṣo mukhasya ca |
क्षुत्प्रणाशो ऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ॥ (३६।२)
kṣutpraṇāśo 'rucistṛṣṇā daurbalyaṃ śrotranetrayoḥ ||
मनसः संभ्रमो ऽभीक्ष्णमूर्ध्ववातस्तमो हृदि । (३७।१)
manasaḥ saṃbhramo 'bhīkṣṇamūrdhvavātastamo hṛdi |
बलं पुष्ट्युपलम्भश्च कार्श्यदोषविवर्जनम् । (३८।१)
balaṃ puṣṭyupalambhaśca kārśyadoṣavivarjanam |
लक्षणं बृंहिते स्थौल्यमति चात्यर्थबृंहिते ॥ (३८।२)
lakṣaṇaṃ bṛṃhite sthaulyamati cātyarthabṛṃhite ||
कृतातिकृतलिङ्गं यल्लङ्घिते तद्धि रूक्षिते । (३९।१)
kṛtātikṛtaliṅgaṃ yallaṅghite taddhi rūkṣite |
स्तम्भितः स्याद्बले लब्धे यथोक्तैश्चामयैर्जितैः ॥ (३९।२)
stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ ||
श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसंग्रहः । (४०।१)
śyāvatā stabdhagātratvamudvego hanusaṃgrahaḥ |
हृद्वर्चोनिग्रहश्च स्यादतिस्तम्भितलक्षणम् ॥ (४०।२)
hṛdvarconigrahaśca syādatistambhitalakṣaṇam ||
लक्षणं चाकृतानां स्यात् षण्णामेषां समासतः । (४१।१)
lakṣaṇaṃ cākṛtānāṃ syāt ṣaṇṇāmeṣāṃ samāsataḥ |
इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः । (४२।१)
iti ṣaṭ sarvarogāṇāṃ proktāḥ samyagupakramāḥ |
साध्यानां साधने सिद्धा मात्राकालानुरोधिनः ॥ (४२।२)
sādhyānāṃ sādhane siddhā mātrākālānurodhinaḥ ||
दोषाणां बहुसंसर्गात् संकीर्यन्ते ह्युपक्रमाः । (४३।२)
doṣāṇāṃ bahusaṃsargāt saṃkīryante hyupakramāḥ |
षट्त्वं तु नातिवर्तन्ते त्रित्वं वातादयो यथा ॥ (४३।३)
ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā ||
इत्यस्मिंल्लङ्घनाध्याये व्याख्याताः षडुपक्रमाः । (४४।२)
ityasmiṃllaṅghanādhyāye vyākhyātāḥ ṣaḍupakramāḥ |
यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते ॥ (४४।३)
yathāpraśnaṃ bhagavatā cikitsā yaiḥ pravartate ||
Data courtesy of The Digital Corpus of Sanskrit.