Ca, 6, 4, 1
Select a line for its word-by-word analysis.
अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः ॥ (१।०)
athātaḥ saṃyogaśaramūlīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ ||
वाजीकरणम् अन्विच्छेत् पुरुषो नित्यमात्मवान् । (३।१)
vājīkaraṇam anvicchet puruṣo nityamātmavān |
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च ॥ (३।२)
tadāyattau hi dharmārthau prītiśca yaśa eva ca ||
पुत्रस्यायतनं ह्य् एतद्गुणाश्चैते सुताश्रयाः । (४।१)
putrasyāyatanaṃ hy etadguṇāścaite sutāśrayāḥ |
वाजीकरणम् अग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी ॥ (४।२)
vājīkaraṇam agryaṃ ca kṣetraṃ strī yā praharṣiṇī ||
इष्टा ह्य् एकैकशो ऽप्य् अर्थाः परं प्रीतिकराः स्मृताः । (५।१)
iṣṭā hy ekaikaśo 'py arthāḥ paraṃ prītikarāḥ smṛtāḥ |
किं पुनः स्त्रीशरीरे ये संघातेन प्रतिष्ठिताः ॥ (५।२)
kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ ||
संघातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते । (६।१)
saṃghāto hīndriyārthānāṃ strīṣu nānyatra vidyate |
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम् । (६।२)
stryāśrayo hīndriyārtho yaḥ sa prītijanano'dhikam |
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्व् अपत्यं प्रतिष्ठितम् ॥ (६।३)
strīṣu prītirviśeṣeṇa strīṣv apatyaṃ pratiṣṭhitam ||
धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः । (७।१)
dharmārthau strīṣu lakṣmīśca strīṣu lokāḥ pratiṣṭhitāḥ |
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता । (८।१)
yā vaśyā śikṣitā yā ca sā strī vṛṣyatamā matā |
नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम् ॥ (८।२)
nānābhaktyā tu lokasya daivayogācca yoṣitām ||
तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः । (९।१)
taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ |
प्रविशत्याशु हृदयं दैवाद् वा कर्मणो ऽपि वा । (१०।१)
praviśatyāśu hṛdayaṃ daivād vā karmaṇo 'pi vā |
समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः । (११।१)
samānasattvā yā vaśyā yā yasya prīyate priyaiḥ |
या पाशभूता सर्वेषाम् इन्द्रियाणां परैर्गुणैः ॥ (११।२)
yā pāśabhūtā sarveṣām indriyāṇāṃ parairguṇaiḥ ||
यया वियुक्तो निस्त्रीकम् अरतिर् मन्यते जगत् । (१२।१)
yayā viyukto nistrīkam aratir manyate jagat |
यस्या ऋते शरीरं ना धत्ते शून्यम् इवेन्द्रियैः ॥ (१२।२)
yasyā ṛte śarīraṃ nā dhatte śūnyam ivendriyaiḥ ||
शोकोद्वेगारतिभयैर् यां दृष्ट्वा नाभिभूयते । (१३।१)
śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate |
याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम् ॥ (१३।२)
yāti yāṃ prāpya visrambhaṃ dṛṣṭvā hṛṣyatyatīva yām ||
गत्वा गत्वापि बहुशो यां तृप्तिं नैव गच्छति ॥ (१४।२)
gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati ||
सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः । (१५।१)
sā strī vṛṣyatamā tasya nānābhāvā hi mānavāḥ |
अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम् ॥ (१५।२)
atulyagotrāṃ vṛṣyāṃ ca prahṛṣṭāṃ nirupadravām ||
शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः । (१६।१)
śuddhasnātāṃ vrajennārīmapatyārthī nirāmayaḥ |
अच्छायश् चैकशाखश् च निष्फलश्च यथा द्रुमः ॥ (१६।२)
acchāyaś caikaśākhaś ca niṣphalaśca yathā drumaḥ ||
चित्रदीपः सरः शुष्कम् अधातुर् धातुसंनिभः ॥ (१७।२)
citradīpaḥ saraḥ śuṣkam adhātur dhātusaṃnibhaḥ ||
निष्प्रजस् तृणपूलीति मन्तव्यः पुरुषाकृतिः । (१८।१)
niṣprajas tṛṇapūlīti mantavyaḥ puruṣākṛtiḥ |
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना ॥ (१८।२)
apratiṣṭhaśca nagnaśca śūnyaścaikendriyaśca nā ||
मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते । (१९।१)
mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate |
बहुमूर्तिर् बहुमुखो बहुव्यूहो बहुक्रियः ॥ (१९।२)
bahumūrtir bahumukho bahuvyūho bahukriyaḥ ||
बहुचक्षुर् बहुज्ञानो बह्वात्मा च बहुप्रजः । (२०।१)
bahucakṣur bahujñāno bahvātmā ca bahuprajaḥ |
मङ्गल्योऽयं प्रशस्योऽयं धन्योऽयं वीर्यवान् अयम् ॥ (२०।२)
maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam ||
प्रीतिर्बलं सुखं वृत्तिर् विस्तारो विपुलं कुलम् ॥ (२१।२)
prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam ||
यशो लोकाः सुखोदर्कास्तुष्टिश् चापत्यसंश्रिताः । (२२।१)
yaśo lokāḥ sukhodarkāstuṣṭiś cāpatyasaṃśritāḥ |
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् ॥ (२२।२)
tasmādapatyamanvicchan guṇāṃścāpatyasaṃśritān ||
उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान् ॥ (२३।२)
upabhogasukhān siddhān vīryāpatyavivardhanān ||
शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुबालिका ॥ (२४।२)
śaramūlekṣumūlāni kāṇḍekṣuḥ sekṣubālikā ||
ऋद्धिर् गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा । (२६।१)
ṛddhir gokṣurakaṃ rāsnā sātmaguptā punarnavā |
एषां त्रिपलिकान् भागान् माषाणाम् आढकं नवम् ॥ (२६।२)
eṣāṃ tripalikān bhāgān māṣāṇām āḍhakaṃ navam ||
तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली ॥ (२७।२)
tatra peṣyāṇi madhukaṃ drākṣā phalgūni pippalī ||
विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक् ॥ (२८।२)
vidāryāmalakekṣūṇāṃ rasasya ca pṛthak pṛthak ||
सर्पिषश् चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक् । (२९।१)
sarpiṣaś cāḍhakaṃ dadyāt kṣīradroṇaṃ ca tadbhiṣak |
शर्करायास्तुगाक्षीर्याश् चूर्णैः प्रस्थोन्मितैः पृथक् । (३०।१)
śarkarāyāstugākṣīryāś cūrṇaiḥ prasthonmitaiḥ pṛthak |
पलैश् चतुर्भिर् मागध्याः पलेन मरिचस्य च ॥ (३०।२)
palaiś caturbhir māgadhyāḥ palena maricasya ca ||
त्वगेलाकेसराणां च चूर्णैर् अर्धपलोन्मितैः । (३१।१)
tvagelākesarāṇāṃ ca cūrṇair ardhapalonmitaiḥ |
मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक् ॥ (३१।२)
madhunaḥ kuḍavābhyāṃ ca dvābhyāṃ tatkārayedbhiṣak ||
पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत् । (३२।१)
palikā gulikāstyānāstā yathāgni prayojayet |
जीवकर्षभकौ वीरां मेदाम् ऋद्धिं शतावरीम् । (३४।१)
jīvakarṣabhakau vīrāṃ medām ṛddhiṃ śatāvarīm |
मधुकं चाश्वगन्धां च साधयेत् कुडवोन्मिताम् ॥ (३४।२)
madhukaṃ cāśvagandhāṃ ca sādhayet kuḍavonmitām ||
रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः । (३५।१)
rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ |
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च ॥ (३५।२)
vidārīṇāṃ rasaprasthaṃ prasthamikṣurasasya ca ||
दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत् । (३६।१)
dattvā mṛdvagninā sādhyaṃ siddhaṃ sarpirnidhāpayet |
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक् ॥ (३६।२)
śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak ||
भागांश्चतुष्पलांस् तत्र पिप्पल्याश्चावपेत् पलम् । (३७।१)
bhāgāṃścatuṣpalāṃs tatra pippalyāścāvapet palam |
पलं पूर्वमतो लीढ्वा ततोऽन्नम् उपयोजयेत् ॥ (३७।२)
palaṃ pūrvamato līḍhvā tato'nnam upayojayet ||
य इच्छेदक्षयं शुक्रं शेफसश् चोत्तमं बलम् । (३८।१)
ya icchedakṣayaṃ śukraṃ śephasaś cottamaṃ balam |
गोधूमचूर्णषष्ठानि सर्पिष्य् उत्कारिकां पचेत् । (३९।१)
godhūmacūrṇaṣaṣṭhāni sarpiṣy utkārikāṃ pacet |
तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे ॥ (३९।२)
tāṃ nātipakvāṃ mṛditāṃ kaukkuṭe madhure rase ||
सुगन्धे प्रक्षिपेद् उष्णे यथा सान्द्रीभवेद् रसः । (४०।१)
sugandhe prakṣiped uṣṇe yathā sāndrībhaved rasaḥ |
घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे । (४२।१)
ghṛtaṃ māṣān sabastāṇḍān sādhayenmāhiṣe rase |
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि ॥ (४२।२)
bharjayettaṃ rasaṃ pūtaṃ phalāmlaṃ navasarpiṣi ||
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः ॥ (४३।२)
eṣa vṛṣyaśca balyaśca bṛṃhaṇaśca rasottamaḥ ||
चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे । (४४।१)
caṭakāṃstittirirase tittirīn kaukkuṭe rase |
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च ॥ (४४।२)
kukkuṭān bārhiṇarase hāṃse bārhiṇameva ca ||
नवसर्पिषि संतप्तान् फलाम्लान् कारयेद् रसान् । (४५।१)
navasarpiṣi saṃtaptān phalāmlān kārayed rasān |
मधुरान्वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान् ॥ (४५।२)
madhurānvā yathāsātmyaṃ gandhāḍhyān balavardhanān ||
तृप्तिं चटकमांसानां गत्वा यो ऽनुपिबेत् पयः । (४६।१)
tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ |
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि ॥ (४६।२)
na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi ||
माषसूपेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम् । (४७।१)
māṣasūpeṇa yo bhuktvā ghṛtāḍhyaṃ ṣaṣṭikaudanam |
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान् । (४७।२)
payaḥ pibati rātriṃ sa kṛtsnāṃ jāgarti vegavān |
न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा । (४७।३)
na nā svapiti rātriṣu nityastabdhena śephasā |
तृप्तः कुक्कुटमांसानां भृष्टानां नक्ररेतसि ॥ (४७।४)
tṛptaḥ kukkuṭamāṃsānāṃ bhṛṣṭānāṃ nakraretasi ||
निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत् ॥ (४८।०)
niḥsrāvya matsyāṇḍarasaṃ bhṛṣṭaṃ sarpiṣi bhakṣayet ||
स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले । (५०।१)
srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle |
वृषायते तेन परं मनुष्यस् तद्बृंहणं चैव बलप्रदं च ॥ (५०।२)
vṛṣāyate tena paraṃ manuṣyas tadbṛṃhaṇaṃ caiva balapradaṃ ca ||
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः । (५१।१)
tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ |
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः ॥ (५१।२)
sidhyanti dehe maline prayuktāḥ kliṣṭe yathā vāsasi rāgayogāḥ ||
वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या । (५२।१)
vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva yā |
ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये ॥ (५२।२)
ye doṣā nirapatyānāṃ guṇāḥ putravatāṃ ca ye ||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः ॥ (५४।०)
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.