चरकसंहिताCarakasaṃhitā

Ca, 5, 12

66 of 82 · 179 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः ॥ (१।१)

athāto gomayacūrṇīyamindriyaṃ vyākhyāsyāmaḥ ||

2.1२.१

इति ह स्माह भगवानात्रेयः ॥ (२।१)

iti ha smāha bhagavānātreyaḥ ||

3.1३.१

यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते । (३।१)

yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhani jāyate |

3.2३.२

सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम् ॥ (३।२)

sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam ||

4.1४.१

निकषन्निव यः पादौ च्युतांसः परिधावति । (४।१)

nikaṣanniva yaḥ pādau cyutāṃsaḥ paridhāvati |

4.2४.२

विकृत्या न स लोके ऽस्मिंश्चिरं वसति मानवः ॥ (४।२)

vikṛtyā na sa loke 'smiṃściraṃ vasati mānavaḥ ||

5.1५.१

यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम् । (५।१)

yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam |

5.2५.२

आर्द्रेषु सर्वगात्रेषु सो ऽर्धमासं न जीवति ॥ (५।२)

ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati ||

6.1६.१

यमुद्दिश्यातुरं वैद्यः संवर्तयितुमौषधम् । (६।१)

yamuddiśyāturaṃ vaidyaḥ saṃvartayitumauṣadham |

6.2६.२

यतमानो न शक्नोति दुर्लभं तस्य जीवितम् ॥ (६।२)

yatamāno na śaknoti durlabhaṃ tasya jīvitam ||

7.1७.१

विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम् । (७।१)

vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam |

7.2७.२

न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम् ॥ (७।२)

na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam ||

8.1८.१

आहारमुपयुञ्जानो भिषजा सूपकल्पितम् । (८।१)

āhāramupayuñjāno bhiṣajā sūpakalpitam |

8.2८.२

यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम् ॥ (८।२)

yaḥ phalaṃ tasya nāpnoti durlabhaṃ tasya jīvitam ||

9.1९.१

दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम् । (९।१)

dūtādhikāre vakṣyāmo lakṣaṇāni mumūrṣatām |

9.2९.२

यानि दृष्ट्वा भिषक् प्राज्ञः प्रत्याख्यायादसंयमम् ॥ (९।२)

yāni dṛṣṭvā bhiṣak prājñaḥ pratyākhyāyādasaṃyamam ||

10.1१०.१

मुक्तकेशे ऽथवा नग्ने रुदत्यप्रयते ऽथवा । (१०।१)

muktakeśe 'thavā nagne rudatyaprayate 'thavā |

10.2१०.२

भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत् ॥ (१०।२)

bhiṣagabhyāgataṃ dṛṣṭvā dūtaṃ maraṇamādiśet ||

11.1११.१

सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति । (११।१)

supte bhiṣaji ye dūtāśchindatyapi ca bhindati |

11.2११.२

आगच्छन्ति भिषक् तेषां न भर्तारमनुव्रजेत् ॥ (११।२)

āgacchanti bhiṣak teṣāṃ na bhartāramanuvrajet ||

12.1१२.१

जुह्वत्यग्निं तथा पिण्डान् पितृभ्यो निर्वपत्यपि । (१२।१)

juhvatyagniṃ tathā piṇḍān pitṛbhyo nirvapatyapi |

12.2१२.२

वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसवः ॥ (१२।२)

vaidye dūtā ya āyānti te ghnanti prajighāṃsavaḥ ||

13.1१३.१

कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः । (१३।१)

kathayatyapraśastāni cintayatyathavā punaḥ |

13.2१३.२

वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम् ॥ (१३।२)

vaidye dūtā manuṣyāṇāmāgacchanti mumūrṣatām ||

14.1१४.१

मृतदग्धविनष्टानि भजति व्याहरत्यपि । (१४।१)

mṛtadagdhavinaṣṭāni bhajati vyāharatyapi |

14.2१४.२

अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम् ॥ (१४।२)

apraśastāni cānyāni vaidye dūtā mumūrṣatām ||

15.1१५.१

विकारसामान्यगुणे देशे काले ऽथवा भिषक् । (१५।१)

vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak |

15.2१५.२

दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत् ॥ (१५।२)

dūtamabhyāgataṃ dṛṣṭvā nāturaṃ tamupācaret ||

16.1१६.१

दीनभीतद्रुतत्रस्तमलिनामसतीं स्त्रियम् । (१६।१)

dīnabhītadrutatrastamalināmasatīṃ striyam |

16.2१६.२

त्रीन् व्याकृतींश्च षण्ढांश्च दूतान् विद्यान्मुमूर्षताम् ॥ (१६।२)

trīn vyākṛtīṃśca ṣaṇḍhāṃśca dūtān vidyānmumūrṣatām ||

17.1१७.१

अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा । (१७।१)

aṅgavyasaninaṃ dūtaṃ liṅginaṃ vyādhitaṃ tathā |

17.2१७.२

सम्प्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति ॥ (१७।२)

samprekṣya cograkarmāṇaṃ na vaidyo gantumarhati ||

18.1१८.१

आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम् । (१८।१)

āturārthamanuprāptaṃ kharoṣṭrarathavāhanam |

18.2१८.२

दूतं दृष्ट्वा भिषग्विद्यादातुरस्य पराभवम् ॥ (१८।२)

dūtaṃ dṛṣṭvā bhiṣagvidyādāturasya parābhavam ||

19.1१९.१

पलालबुसमांसास्थिकेशलोमनखद्विजान् । (१९।१)

palālabusamāṃsāsthikeśalomanakhadvijān |

19.2१९.२

मार्जनीं मुसलं शूर्पमुपानच्चर्म विच्युतम् ॥ (१९।२)

mārjanīṃ musalaṃ śūrpamupānaccarma vicyutam ||

20.1२०.१

तृणकाष्ठतुषाङ्गारं स्पृशन्तो लोष्टमश्म च । (२०।१)

tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca |

20.2२०.२

तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम् ॥ (२०।२)

tatpūrvadarśane dūtā vyāharanti mumūrṣatām ||

21.1२१.१

यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम् । (२१।१)

yasmiṃśca dūte bruvati vākyamāturasaṃśrayam |

21.2२१.२

पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक् ॥ (२१।२)

paśyennimittamaśubhaṃ taṃ ca nānuvrajedbhiṣak ||

22.1२२.१

तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा । (२२।१)

tathā vyasaninaṃ pretaṃ pretālaṅkārameva vā |

22.2२२.२

भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा ॥ (२२।२)

bhinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā ||

23.1२३.१

रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान् । (२३।१)

raso vā kaṭukastīvro gandho vā kauṇapo mahān |

23.2२३.२

स्पर्शो वा विपुलः क्रूरो यद्वान्यदशुभं भवेत् ॥ (२३।२)

sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet ||

24.1२४.१

तत्पूर्वमभितो वाक्यं वाक्यकाले ऽथवा पुनः । (२४।१)

tatpūrvamabhito vākyaṃ vākyakāle 'thavā punaḥ |

24.2२४.२

दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत् ॥ (२४।२)

dūtānāṃ vyāhṛtaṃ śrutvā dhīro maraṇamādiśet ||

25.1२५.१

इति दूताधिकारो ऽयमुक्तः कृत्स्नो मुमूर्षताम् । (२५।१)

iti dūtādhikāro 'yamuktaḥ kṛtsno mumūrṣatām |

25.2२५.२

पथ्यातुरकुलानां च वक्ष्याम्यौत्पातिकं पुनः ॥ (२५।२)

pathyāturakulānāṃ ca vakṣyāmyautpātikaṃ punaḥ ||

26.1२६.१

अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा । (२६।१)

avakṣutamathotkruṣṭaṃ skhalanaṃ patanaṃ tathā |

26.2२६.२

आक्रोशः संप्रहारो वा प्रतिषेधो विगर्हणम् ॥ (२६।२)

ākrośaḥ saṃprahāro vā pratiṣedho vigarhaṇam ||

27.1२७.१

वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम् । (२७।१)

vastroṣṇīṣottarāsaṅgaśchatropānadyugāśrayam |

27.2२७.२

व्यसनं दर्शनं चापि मृतव्यसनिनां तथा ॥ (२७।२)

vyasanaṃ darśanaṃ cāpi mṛtavyasanināṃ tathā ||

28.1२८.१

चैत्यध्वजपताकानां पूर्णानां पतनानि च । (२८।१)

caityadhvajapatākānāṃ pūrṇānāṃ patanāni ca |

28.2२८.२

हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभिः ॥ (२८।२)

hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃśubhiḥ ||

29.1२९.१

पथच्छेदो बिडालेन शुना सर्पेण वा पुनः । (२९।१)

pathacchedo biḍālena śunā sarpeṇa vā punaḥ |

29.2२९.२

मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति ॥ (२९।२)

mṛgadvijānāṃ krūrāṇāṃ giro dīptāṃ diśaṃ prati ||

30.1३०.१

शयनासनयानानाम् उत्तानानां च दर्शनम् । (३०।१)

śayanāsanayānānām uttānānāṃ ca darśanam |

30.2३०.२

इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः ॥ (३०।२)

ityetānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ ||

31.1३१.१

एतानि पथि वैद्येन पश्यतातुरवेश्मनि । (३१।१)

etāni pathi vaidyena paśyatāturaveśmani |

31.2३१.२

शृण्वता च न गन्तव्यं तदागारं विपश्चिता ॥ (३१।२)

śṛṇvatā ca na gantavyaṃ tadāgāraṃ vipaścitā ||

32.1३२.१

इत्यौत्पातिकमाख्यातं पथि वैद्यविगर्हितम् । (३२।१)

ityautpātikamākhyātaṃ pathi vaidyavigarhitam |

32.2३२.२

इमामपि च बुध्येत गृहावस्थां मुमूर्षताम् ॥ (३२।२)

imāmapi ca budhyeta gṛhāvasthāṃ mumūrṣatām ||

33.1३३.१

प्रवेशे पूर्णकुम्भाग्निमृद्बीजफलसर्पिषाम् । (३३।१)

praveśe pūrṇakumbhāgnimṛdbījaphalasarpiṣām |

33.2३३.२

वृषब्राह्मणरत्नान्नदेवतानां च निर्गतिम् ॥ (३३।२)

vṛṣabrāhmaṇaratnānnadevatānāṃ ca nirgatim ||

34.1३४.१

अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च । (३४।१)

agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca |

34.2३४.२

भिषङ् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति ॥ (३४।२)

bhiṣaṅ mumūrṣatāṃ veśma praviśanneva paśyati ||

35.1३५.१

छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च । (३५।१)

chinnabhinnāni dagdhāni bhagnāni mṛditāni ca |

35.2३५.२

दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जनाः ॥ (३५।२)

durbalāni ca sevante mumūrṣorvaiśmikā janāḥ ||

36.1३६.१

शयनं वसनं यानं गमनं भोजनं रुतम् । (३६।१)

śayanaṃ vasanaṃ yānaṃ gamanaṃ bhojanaṃ rutam |

36.2३६.२

श्रूयते ऽमङ्गलं यस्य नास्ति तस्य चिकित्सितम् ॥ (३६।२)

śrūyate 'maṅgalaṃ yasya nāsti tasya cikitsitam ||

37.1३७.१

शयनं वसनं यानमन्यं वापि परिच्छदम् । (३७।१)

śayanaṃ vasanaṃ yānamanyaṃ vāpi paricchadam |

37.2३७.२

प्रेतवद्यस्य कुर्वन्ति सुहृदः प्रेत एव सः ॥ (३७।२)

pretavadyasya kurvanti suhṛdaḥ preta eva saḥ ||

38.1३८.१

अन्नं व्यापद्यते ऽत्यर्थं ज्योतिश्चैवोपशाम्यति । (३८।१)

annaṃ vyāpadyate 'tyarthaṃ jyotiścaivopaśāmyati |

38.2३८.२

निवाते सेन्धनं यस्य तस्य नास्ति चिकित्सितम् ॥ (३८।२)

nivāte sendhanaṃ yasya tasya nāsti cikitsitam ||

39.1३९.१

आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा । (३९।१)

āturasya gṛhe yasya bhidyante vā patanti vā |

39.2३९.२

अतिमात्रममत्राणि दुर्लभं तस्य जीवितम् ॥ (३९।२)

atimātramamatrāṇi durlabhaṃ tasya jīvitam ||

40.1४०.१

भवन्ति चात्र । (४०।१)

bhavanti cātra |

40.2४०.२

यद्द्वादशभिरध्यायैर्व्यासतः परिकीर्तितम् । (४०।२)

yaddvādaśabhiradhyāyairvyāsataḥ parikīrtitam |

40.3४०.३

मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत् ॥ (४०।३)

mumūrṣatāṃ manuṣyāṇāṃ lakṣaṇaṃ jīvitāntakṛt ||

41.1४१.१

तत् समासेन वक्ष्यामः पर्यायान्तरमाश्रितम् । (४१।१)

tat samāsena vakṣyāmaḥ paryāyāntaramāśritam |

41.2४१.२

पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते ॥ (४१।२)

paryāyavacanaṃ hyarthavijñānāyopapadyate ||

42.1४२.१

अत्यर्थं पुनर् एवेयं विवक्षा नो विधीयते । (४२।१)

atyarthaṃ punar eveyaṃ vivakṣā no vidhīyate |

42.2४२.२

तस्मिन्नेवाधिकरणे यत् पूर्वमभिशब्दितम् ॥ (४२।२)

tasminnevādhikaraṇe yat pūrvamabhiśabditam ||

43.1४३.१

वसतां चरमं कालं शरीरेषु शरीरिणाम् । (४३।१)

vasatāṃ caramaṃ kālaṃ śarīreṣu śarīriṇām |

43.2४३.२

अभ्युग्राणां विनाशाय देहेभ्यः प्रविवत्सताम् ॥ (४३।२)

abhyugrāṇāṃ vināśāya dehebhyaḥ pravivatsatām ||

44.1४४.१

इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम् । (४४।१)

iṣṭāṃstitikṣatāṃ prāṇān kāntaṃ vāsaṃ jihāsatām |

44.2४४.२

तन्त्रयन्त्रेषु भिन्नेषु तमो ऽन्त्यं प्रविविक्षताम् ॥ (४४।२)

tantrayantreṣu bhinneṣu tamo 'ntyaṃ pravivikṣatām ||

45.1४५.१

विनाशायेह रूपाणि यान्यवस्थान्तराणि च । (४५।१)

vināśāyeha rūpāṇi yānyavasthāntarāṇi ca |

45.2४५.२

भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम् ॥ (४५।२)

bhavanti tāni vakṣyāmi yathoddeśaṃ yathāgamam ||

46.1४६.१

प्राणाः समुपतप्यन्ते विज्ञानम् उपरुध्यते । (४६।१)

prāṇāḥ samupatapyante vijñānam uparudhyate |

46.2४६.२

वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च ॥ (४६।२)

vamanti balamaṅgāni ceṣṭā vyuparamanti ca ||

47.1४७.१

इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना । (४७।१)

indriyāṇi vinaśyanti khilībhavati cetanā |

47.2४७.२

औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि ॥ (४७।२)

autsukyaṃ bhajate sattvaṃ ceto bhīrāviśatyapi ||

48.1४८.१

स्मृतिस्त्यजति मेधा च ह्रीश्रियौ चापसर्पतः । (४८।१)

smṛtistyajati medhā ca hrīśriyau cāpasarpataḥ |

48.2४८.२

उपप्लवन्ते पाप्मान ओजस्तेजश्च नश्यति ॥ (४८।२)

upaplavante pāpmāna ojastejaśca naśyati ||

49.1४९.१

शीलं व्यावर्तते ऽत्यर्थं भक्तिश्च परिवर्तते । (४९।१)

śīlaṃ vyāvartate 'tyarthaṃ bhaktiśca parivartate |

49.2४९.२

विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति ॥ (४९।२)

vikriyante praticchāyāśchāyāśca vikṛtiṃ prati ||

50.1५०.१

शुक्रं प्रच्यवते स्थानादुन्मार्गं भजते ऽनिलः । (५०।१)

śukraṃ pracyavate sthānādunmārgaṃ bhajate 'nilaḥ |

50.2५०.२

क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम् ॥ (५०।२)

kṣayaṃ māṃsāni gacchanti gacchatyasṛgapi kṣayam ||

51.1५१.१

ऊष्माणः प्रलयं यान्ति विश्लेषं यान्ति सन्धयः । (५१।१)

ūṣmāṇaḥ pralayaṃ yānti viśleṣaṃ yānti sandhayaḥ |

51.2५१.२

गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा ॥ (५१।२)

gandhā vikṛtimāyānti bhedaṃ varṇasvarau tathā ||

52.1५२.१

वैवर्ण्यं भजते कायः कायच्छिद्रं विशुष्यति । (५२।१)

vaivarṇyaṃ bhajate kāyaḥ kāyacchidraṃ viśuṣyati |

52.2५२.२

धूमः संजायते मूर्ध्नि दारुणाख्यश्च चूर्णकः ॥ (५२।२)

dhūmaḥ saṃjāyate mūrdhni dāruṇākhyaśca cūrṇakaḥ ||

53.1५३.१

सततस्पन्दना देशाः शरीरे ये ऽभिलक्षिताः । (५३।१)

satataspandanā deśāḥ śarīre ye 'bhilakṣitāḥ |

53.2५३.२

ते स्तम्भानुगताः सर्वे न चलन्ति कथंचन ॥ (५३।२)

te stambhānugatāḥ sarve na calanti kathaṃcana ||

54.1५४.१

गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः । (५४।१)

guṇāḥ śarīradeśānāṃ śītoṣṇamṛdudāruṇāḥ |

54.2५४.२

विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधाः ॥ (५४।२)

viparyāsena vartante sthāneṣvanyeṣu tadvidhāḥ ||

55.1५५.१

नखेषु जायते पुष्पं पङ्को दन्तेषु जायते । (५५।१)

nakheṣu jāyate puṣpaṃ paṅko danteṣu jāyate |

55.2५५.२

जटाः पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि ॥ (५५।२)

jaṭāḥ pakṣmasu jāyante sīmantāścāpi mūrdhani ||

56.1५६.१

भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि । (५६।१)

bheṣajāni na saṃvṛttiṃ prāpnuvanti yathāruci |

56.2५६.२

यानि चाप्युपपद्यन्ते तेषां वीर्यं न सिध्यति ॥ (५६।२)

yāni cāpyupapadyante teṣāṃ vīryaṃ na sidhyati ||

57.1५७.१

नानाप्रकृतयः क्रूरा विकारा विविधौषधाः । (५७।१)

nānāprakṛtayaḥ krūrā vikārā vividhauṣadhāḥ |

57.2५७.२

क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी ॥ (५७।२)

kṣipraṃ samabhivartante pratihatya balaujasī ||

58.1५८.१

शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टा विचिन्तितम् । (५८।१)

śabdaḥ sparśo raso rūpaṃ gandhaśceṣṭā vicintitam |

58.2५८.२

उत्पद्यन्ते ऽशुभान्येव प्रतिकर्मप्रवृत्तिषु ॥ (५८।२)

utpadyante 'śubhānyeva pratikarmapravṛttiṣu ||

59.1५९.१

दृश्यन्ते दारुणाः स्वप्ना दौरात्म्यमुपजायते । (५९।१)

dṛśyante dāruṇāḥ svapnā daurātmyamupajāyate |

59.2५९.२

प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते ॥ (५९।२)

preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate ||

60.1६०.१

प्रकृतिर्हीयते ऽत्यर्थं विकृतिश्चाभिवर्धते । (६०।१)

prakṛtirhīyate 'tyarthaṃ vikṛtiścābhivardhate |

60.2६०.२

कृत्स्नमौत्पातिकं घोरम् अरिष्टम् उपलक्ष्यते ॥ (६०।२)

kṛtsnamautpātikaṃ ghoram ariṣṭam upalakṣyate ||

61.1६१.१

इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् । (६१।१)

ityetāni manuṣyāṇāṃ bhavanti vinaśiṣyatām |

61.2६१.२

लक्षणानि यथोद्देशं यान्युक्तानि यथागमम् ॥ (६१।२)

lakṣaṇāni yathoddeśaṃ yānyuktāni yathāgamam ||

62.1६२.१

मरणायेह रूपाणि पश्यतापि भिषग्विदा । (६२।१)

maraṇāyeha rūpāṇi paśyatāpi bhiṣagvidā |

62.2६२.२

अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम् ॥ (६२।२)

apṛṣṭena na vaktavyaṃ maraṇaṃ pratyupasthitam ||

63.1६३.१

पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम् । (६३।१)

pṛṣṭenāpi na vaktavyaṃ tatra yatropaghātakam |

63.2६३.२

आतुरस्य भवेद्दुःखमथवान्यस्य कस्यचित् ॥ (६३।२)

āturasya bhavedduḥkhamathavānyasya kasyacit ||

64.1६४.१

अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम् । (६४।१)

abruvanmaraṇaṃ tasya nainamiccheccikitsitum |

64.2६४.२

यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक् ॥ (६४।२)

yasya paśyedvināśāya liṅgāni kuśalo bhiṣak ||

65.1६५.१

लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता । (६५।१)

liṅgebhyo maraṇākhyebhyo viparītāni paśyatā |

65.2६५.२

लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम् ॥ (६५।२)

liṅgānyārogyamāgantu vaktavyaṃ bhiṣajā dhruvam ||

66.1६६.१

दूतैरौत्पातिकैर्भावैः पथ्यातुरकुलाश्रयैः । (६६।१)

dūtairautpātikairbhāvaiḥ pathyāturakulāśrayaiḥ |

66.2६६.२

आतुराचारशीलेष्टद्रव्यसंपत्तिलक्षणैः ॥ (६६।२)

āturācāraśīleṣṭadravyasaṃpattilakṣaṇaiḥ ||

67.1६७.१

स्वाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम् । (६७।१)

svācāraṃ hṛṣṭamavyaṅgaṃ yaśasyaṃ śuklavāsasam |

67.2६७.२

अमुण्डम् अजटं दूतं जातिवेशक्रियासमम् ॥ (६७।२)

amuṇḍam ajaṭaṃ dūtaṃ jātiveśakriyāsamam ||

68.1६८.१

अनुष्ट्रखरयानस्थम् असंध्यास्वग्रहेषु च । (६८।१)

anuṣṭrakharayānastham asaṃdhyāsvagraheṣu ca |

68.2६८.२

अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु च ॥ (६८।२)

adāruṇeṣu nakṣatreṣvanugreṣu dhruveṣu ca ||

69.1६९.१

विना चतुर्थीं नवमीं विना रिक्तां चतुर्दशीम् । (६९।१)

vinā caturthīṃ navamīṃ vinā riktāṃ caturdaśīm |

69.2६९.२

मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम् ॥ (६९।२)

madhyāhnamardharātraṃ ca bhūkampaṃ rāhudarśanam ||

70.1७०.१

विना देशमशस्तं चाशस्तौत्पातिकलक्षणम् । (७०।१)

vinā deśamaśastaṃ cāśastautpātikalakṣaṇam |

70.2७०.२

दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक् ॥ (७०।२)

dūtaṃ praśastamavyagraṃ nirdiśedāgataṃ bhiṣak ||

71.1७१.१

दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च ॥ (७१।१)

dadhyakṣatadvijātīnāṃ vṛṣabhāṇāṃ nṛpasya ca ||

72.1७२.१

रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च । (७२।१)

ratnānāṃ pūrṇakumbhānāṃ sitasya turagasya ca |

72.2७२.२

सुरध्वजपताकानां फलानां यावकस्य च ॥ (७२।२)

suradhvajapatākānāṃ phalānāṃ yāvakasya ca ||

73.1७३.१

कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था । (७३।१)

kanyāpuṃvardhamānānāṃ baddhasyaikapaśostasthā |

73.2७३.२

पृथिव्या उद्धृतायाश्च वह्नेः प्रज्वलितस्य च ॥ (७३।२)

pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca ||

74.1७४.१

मोदकानां सुमनसां शुक्लानां चन्दनस्य च । (७४।१)

modakānāṃ sumanasāṃ śuklānāṃ candanasya ca |

74.2७४.२

मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च ॥ (७४।२)

manojñasyānnapānasya pūrṇasya śakaṭasya ca ||

75.1७५.१

नृभिर्धेन्वाः सवत्साया वडवायाः स्त्रियास्तथा । (७५।१)

nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā |

75.2७५.२

जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम् ॥ (७५।२)

jīvañjīvakasiddhārthasārasapriyavādinām ||

76.1७६.१

हंसानां शतपत्राणां चाषाणां शिखिनां तथा । (७६।१)

haṃsānāṃ śatapatrāṇāṃ cāṣāṇāṃ śikhināṃ tathā |

76.2७६.२

मत्स्याजद्विजशङ्खानां प्रियङ्गूनां घृतस्य च ॥ (७६।२)

matsyājadvijaśaṅkhānāṃ priyaṅgūnāṃ ghṛtasya ca ||

77.1७७.१

रुचकादर्शसिद्धार्थरोचनानां च दर्शनम् । (७७।१)

rucakādarśasiddhārtharocanānāṃ ca darśanam |

77.2७७.२

गन्धः सुरभिर्वर्णश्च सुशुक्लो मधुरो रसः ॥ (७७।२)

gandhaḥ surabhirvarṇaśca suśuklo madhuro rasaḥ ||

78.1७८.१

मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः । (७८।१)

mṛgapakṣimanuṣyāṇāṃ praśastāśca giraḥ śubhāḥ |

78.2७८.२

छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः ॥ (७८।२)

chatradhvajapatākānāmutkṣepaṇamabhiṣṭutiḥ ||

79.1७९.१

भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिस्वनाः । (७९।१)

bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhanisvanāḥ |

79.2७९.२

वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः ॥ (७९।२)

vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ ||

80.1८०.१

पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम् । (८०।१)

pathi veśmapraveśe tu vidyādārogyalakṣaṇam |

80.2८०.२

मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः ॥ (८०।२)

maṅgalācārasampannaḥ sāturo vaiśmiko janaḥ ||

81.1८१.१

श्रद्दधानो ऽनुकूलश्च प्रभूतद्रव्यसंग्रहः । (८१।१)

śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ |

81.2८१.२

धनैश्वर्यसुखावाप्तिरिष्टलाभः सुखेन च ॥ (८१।२)

dhanaiśvaryasukhāvāptiriṣṭalābhaḥ sukhena ca ||

82.1८२.१

द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च । (८२।१)

dravyāṇāṃ tatra yogyānāṃ yojanā siddhireva ca |

82.2८२.२

गृहप्रासादशैलानां नागानामृषभस्य च ॥ (८२।२)

gṛhaprāsādaśailānāṃ nāgānāmṛṣabhasya ca ||

83.1८३.१

हयानां पुरुषाणां च स्वप्ने समधिरोहणम् । (८३।१)

hayānāṃ puruṣāṇāṃ ca svapne samadhirohaṇam |

83.2८३.२

सोमार्काग्निद्विजातीनां गवां नॄणां पयस्विनाम् ॥ (८३।२)

somārkāgnidvijātīnāṃ gavāṃ nṝṇāṃ payasvinām ||

84.1८४.१

अर्णवानां प्रतरणं वृद्धिः संबाधनिःसृतिः । (८४।१)

arṇavānāṃ prataraṇaṃ vṛddhiḥ saṃbādhaniḥsṛtiḥ |

84.2८४.२

स्वप्ने देवैः सपितृभिः प्रसन्नैश्चाभिभाषणम् ॥ (८४।२)

svapne devaiḥ sapitṛbhiḥ prasannaiścābhibhāṣaṇam ||

85.1८५.१

दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च । (८५।१)

darśanaṃ śuklavastrāṇāṃ hradasya vimalasya ca |

85.2८५.२

मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः ॥ (८५।२)

māṃsamatsyaviṣāmedhyacchatrādarśaparigrahaḥ ||

86.1८६.१

स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम् । (८६।१)

svapne sumanasāṃ caiva śuklānāṃ darśanaṃ śubham |

86.2८६.२

अश्वगोरथयानं च यानं पूर्वोत्तरेण च । (८६।२)

aśvagorathayānaṃ ca yānaṃ pūrvottareṇa ca |

86.3८६.३

रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ॥ (८६।३)

rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam ||

87.1८७.१

सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु । (८७।१)

sattvalakṣaṇasaṃyogo bhaktirvaidyadvijātiṣu |

87.2८७.२

साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणं ॥ (८७।२)

sādhyatvaṃ na ca nirvedastadārogyasya lakṣaṇaṃ ||

88.1८८.१

आरोग्याद्बलमायुश्च सुखं च लभते महत् । (८८।१)

ārogyādbalamāyuśca sukhaṃ ca labhate mahat |

88.2८८.२

इष्टांश्चाप्यपरान् भावान् पुरुषः शुभलक्षणः ॥ (८८।२)

iṣṭāṃścāpyaparān bhāvān puruṣaḥ śubhalakṣaṇaḥ ||

89.1८९.१

उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम् । (८९।१)

uktaṃ gomayacūrṇīye maraṇārogyalakṣaṇam |

89.2८९.२

दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम् ॥ (८९।२)

dūtasvapnāturotpātayuktisiddhivyapāśrayam ||

90.1९०.१

इतीदमुक्तं प्रकृतं यथातथं तदन्ववेक्ष्यं सततं भिषग्विदा । (९०।१)

itīdamuktaṃ prakṛtaṃ yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā |

90.2९०.२

तथा हि सिद्धिं च यशश्च शाश्वतं स सिद्धकर्मा लभते धनानि च ॥ (९०।२)

tathā hi siddhiṃ ca yaśaśca śāśvataṃ sa siddhakarmā labhate dhanāni ca ||

Data courtesy of The Digital Corpus of Sanskrit.

Ca, 5, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit