शार्ङ्गधरसंहितादीपिकाŚārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1
Select a line for its word-by-word analysis.
अक्षाङ्गारैर् इति बहुवचनत्वेनान्यकाष्ठोद्भवैर् अपि धमेदिति न दोषः ॥ (२।०)
akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ ||
किट्टं लोहमलं तद्बहुवार्षिकं ग्राह्यं श्रेष्ठत्वात् ॥ (३।०)
kiṭṭaṃ lohamalaṃ tadbahuvārṣikaṃ grāhyaṃ śreṣṭhatvāt ||
शतोत्थमुत्तमं किट्टं मध्यं चाशीतिवार्षिकम् । (४।२)
śatotthamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam |
लोहजम् इति सामान्यलोहग्रहणेन मुण्डादिसमस्तलोहसंभवं तद्गुणमपि च ज्ञातव्यम् ॥ (५।०)
lohajam iti sāmānyalohagrahaṇena muṇḍādisamastalohasaṃbhavaṃ tadguṇamapi ca jñātavyam ||
मण्डूरं तद्गुणं दृष्टं यल्लोहमपि यद्गुणम् ॥ (६।३)
maṇḍūraṃ tadguṇaṃ dṛṣṭaṃ yallohamapi yadguṇam ||
किट्टाद् दशगुणं मुण्डं मुण्डात् तीक्ष्णं शतोन्मितम् । (७।२)
kiṭṭād daśaguṇaṃ muṇḍaṃ muṇḍāt tīkṣṇaṃ śatonmitam |
तस्मात् सर्वत्र मण्डूरं रोगशान्तौ नियोजयेत् । (८।३)
tasmāt sarvatra maṇḍūraṃ rogaśāntau niyojayet |
पुनः पुनरिति ग्रहणेनात्र सप्तवारं नियतं किंतु यावत् शीर्यते तावन्निर्वापयेदित्यभिप्रायः ॥ (१२।०)
punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ ||
लोहकिट्टं सुसंतप्तं यावत् तत् शीर्यते स्वयम् । (१३।२)
lohakiṭṭaṃ susaṃtaptaṃ yāvat tat śīryate svayam |
तच्छीर्णं ग्राहयेत् तेषां मण्डूरं तु प्रयोजयेत् । (१३।३)
tacchīrṇaṃ grāhayet teṣāṃ maṇḍūraṃ tu prayojayet |
एवं सप्तवारं कुर्यात् त्रिफलाक्वाथस्य द्विगुणितात्र ॥ (१४।०)
evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra ||
Data courtesy of The Digital Corpus of Sanskrit.