शार्ङ्गधरसंहितादीपिकाŚārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1
Select a line for its word-by-word analysis.
कालकूटप्रभृतिकं विषभेदं तत्परीक्षकसकाशाद् अवगन्तव्यम् ॥ (२।०)
kālakūṭaprabhṛtikaṃ viṣabhedaṃ tatparīkṣakasakāśād avagantavyam ||
घनं रूक्षं च कठिनं भिन्नाञ्जनसमप्रभम् । (३।२)
ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham |
वत्सनाभं पाण्डुरं च किंचिद् रूक्षं घनं तथा । (४।१)
vatsanābhaṃ pāṇḍuraṃ ca kiṃcid rūkṣaṃ ghanaṃ tathā |
घनं गुरु च निबिडं शृङ्गाकारं च शृङ्गिकम् ॥ (४।२)
ghanaṃ guru ca nibiḍaṃ śṛṅgākāraṃ ca śṛṅgikam ||
चक्राकारं भवेद्वक्रं नीलं हालाहलं मतम् ॥ (५।२)
cakrākāraṃ bhavedvakraṃ nīlaṃ hālāhalaṃ matam ||
ब्रह्मपुत्रः पाण्डुरः स्यात् हरिद्राभं हरिद्रकम् । (६।१)
brahmaputraḥ pāṇḍuraḥ syāt haridrābhaṃ haridrakam |
चित्रमुत्पलकन्दाभं सक्तुकं सक्तुवद् भवेत् ॥ (६।२)
citramutpalakandābhaṃ saktukaṃ saktuvad bhavet ||
सौराष्ट्रिकं शङ्खवर्णं विज्ञेयं विषलक्षणम् । (७।१)
saurāṣṭrikaṃ śaṅkhavarṇaṃ vijñeyaṃ viṣalakṣaṇam |
एतेषां मध्ये एकद्वित्रिसकलानि यथालाभं संगृह्य रसस्य षोडशांशेन कृत्वा मर्दनीयानि ॥ (८।०)
eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni ||
उपविषेषु लाङ्गलीककरवीरकम् अहिफेनम् इति ॥ (१०।०)
upaviṣeṣu lāṅgalīkakaravīrakam ahiphenam iti ||
समुद्रे चैव जायन्ते विषमत्स्याश्चतुर्विधाः । (१२।२)
samudre caiva jāyante viṣamatsyāścaturvidhāḥ |
तेभ्यः फेनं समुत्पन्नम् अहिफेनं चतुर्विधम् ॥ (१२।३)
tebhyaḥ phenaṃ samutpannam ahiphenaṃ caturvidham ||
केचिद्वदन्ति सर्पाणां फेनं स्यादहिफेनकम् । (१३।१)
kecidvadanti sarpāṇāṃ phenaṃ syādahiphenakam |
धारणं श्वेतवर्णं च रक्तवर्णं च जारकम् । (१३।३)
dhāraṇaṃ śvetavarṇaṃ ca raktavarṇaṃ ca jārakam |
सारणं पीतवर्णं च कृष्णवर्णं च मारणम् ॥ (१३।४)
sāraṇaṃ pītavarṇaṃ ca kṛṣṇavarṇaṃ ca māraṇam ||
विषवद्ध्युत्तमं फेनं युज्यते रसकर्मणि । (१४।१)
viṣavaddhyuttamaṃ phenaṃ yujyate rasakarmaṇi |
केचित् तु खाखसजं क्षीरविशेषमिति मन्यन्ते तदभावात् ॥ (१५।०)
kecit tu khākhasajaṃ kṣīraviśeṣamiti manyante tadabhāvāt ||
Data courtesy of The Digital Corpus of Sanskrit.