शार्ङ्गधरसंहितादीपिकाŚārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1
Select a line for its word-by-word analysis.
तथा हि तन्त्रान्तराद् उत्पत्तिप्रभृतिकं लिख्यते यथा । (४।१)
tathā hi tantrāntarād utpattiprabhṛtikaṃ likhyate yathā |
पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । (४।२)
purā vadhāya vṛtrasya vajriṇā vajramuddhṛtam |
तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥ (५।२)
tebhya eva samutpannaṃ tattadgiriṣu cābhrakam ||
तद्ब्राह्मणक्षत्रियविट्शूद्रभेदाच्चतुर्विधम् । (७।१)
tadbrāhmaṇakṣatriyaviṭśūdrabhedāccaturvidham |
क्रमेणैव सितं रक्तं पीतं कृष्णं च वर्णतः ॥ (७।२)
krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ ||
पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् ॥ (८।०)
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham ||
पिनाकाद्यास्त्रयो वर्ज्या वज्रजातिं समाहरेत् ॥ (९।०)
pinākādyāstrayo varjyā vajrajātiṃ samāharet ||
मुञ्चत्यग्नौ विनिक्षिप्तं पिनाकं दलसंचयम् । (१०।१)
muñcatyagnau vinikṣiptaṃ pinākaṃ dalasaṃcayam |
दर्दुरं निहितं ह्यग्नौ कुरुते दर्दुरध्वनिम् ॥ (१०।२)
darduraṃ nihitaṃ hyagnau kurute darduradhvanim ||
नागं चाग्नौ विनिक्षिप्तं फूत्कारं च विमुञ्चति । (११।१)
nāgaṃ cāgnau vinikṣiptaṃ phūtkāraṃ ca vimuñcati |
वज्राभ्रकं तु वह्निस्थं न क्वचिद्विकृतिं व्रजेत् ॥ (११।२)
vajrābhrakaṃ tu vahnisthaṃ na kvacidvikṛtiṃ vrajet ||
तस्माद्वज्राभ्रकं योज्यं व्याधिवार्धक्यमृत्युजित् । (१२।१)
tasmādvajrābhrakaṃ yojyaṃ vyādhivārdhakyamṛtyujit |
तत्र दक्षिणशैले ऽर्कशेषाद् अल्पगुणं हि तत् ॥ (१२।२)
tatra dakṣiṇaśaile 'rkaśeṣād alpaguṇaṃ hi tat ||
अल्पसत्त्वं तदा धत्ते अभ्रे सत्त्वं गुणप्रदम् । (१३।१)
alpasattvaṃ tadā dhatte abhre sattvaṃ guṇapradam |
शंसन्ति मुनयः सर्वे प्रयोगे कृष्णम् अभ्रकम् । (१३।३)
śaṃsanti munayaḥ sarve prayoge kṛṣṇam abhrakam |
तण्डुलीयो मेघनादः अम्लः काञ्जिकं तदभावे जम्बीरप्रभृतिकं ग्राह्यम् ॥ (१५।०)
taṇḍulīyo meghanādaḥ amlaḥ kāñjikaṃ tadabhāve jambīraprabhṛtikaṃ grāhyam ||
अष्टयामं द्वयोर् द्रव्ययोस्तेन प्रत्येकं चतुर्याममित्यर्थः ॥ (१६।०)
aṣṭayāmaṃ dvayor dravyayostena pratyekaṃ caturyāmamityarthaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.