सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 10.2

10 of 70 · 59 verses

Select a line for its word-by-word analysis.

1.1१.१

व्यक्तम् महदादिकार्यं हेतुमद् इति । (१।१)

vyaktam mahadādikāryaṃ hetumad iti |

1.2१.२

हेतुर् अस्यास्तीति हेतुमत् । (१।२)

hetur asyāstīti hetumat |

1.3१.३

उपादानं हेतुः कारणं निमित्तम् इति पर्ययाः । (१।३)

upādānaṃ hetuḥ kāraṇaṃ nimittam iti paryayāḥ |

1.4१.४

व्यक्तस्य प्रधानं हेतुर् अस्त्य् अतो हेतुमद् व्यक्तं भूतपर्यन्तम् । (१।४)

vyaktasya pradhānaṃ hetur asty ato hetumad vyaktaṃ bhūtaparyantam |

1.5१.५

हेतुमद् बुद्धितत्त्वं प्रधानेन । (१।५)

hetumad buddhitattvaṃ pradhānena |

1.6१.६

हेतुमान् अहंकारो बुद्ध्या । (१।६)

hetumān ahaṃkāro buddhyā |

1.7१.७

पञ्च तन्मात्राण्येकादशेन्द्रियाणि हेतुमन्त्यहंकारेणाकाशम् शब्दतन्मात्रेण हेतुमत् । (१।७)

pañca tanmātrāṇyekādaśendriyāṇi hetumantyahaṃkāreṇākāśam śabdatanmātreṇa hetumat |

1.8१.८

वायुः स्पर्शतन्मात्रेण हेतुमान् । (१।८)

vāyuḥ sparśatanmātreṇa hetumān |

1.9१.९

तेजो रूपतन्मात्रेण हेतुमत् । (१।९)

tejo rūpatanmātreṇa hetumat |

1.10१.१०

आपो रसतन्मात्रेण हेतुमत्यः । (१।१०)

āpo rasatanmātreṇa hetumatyaḥ |

1.11१.११

पृथिवी गन्धतन्मात्रेण हेतुमती । (१।११)

pṛthivī gandhatanmātreṇa hetumatī |

1.12१.१२

एवं भूतपर्यन्तं व्यक्तं हेतुमत् । (१।१२)

evaṃ bhūtaparyantaṃ vyaktaṃ hetumat |

1.13१.१३

किं चान्यद् अनित्यम् । (१।१३)

kiṃ cānyad anityam |

1.14१.१४

यस्माद् अन्यस्माद् उत्पद्यते । (१।१४)

yasmād anyasmād utpadyate |

1.15१.१५

यथा मृत्पिण्डाद् उत्पद्यते घटः स चानित्यः । (१।१५)

yathā mṛtpiṇḍād utpadyate ghaṭaḥ sa cānityaḥ |

1.16१.१६

किं चाव्यापि । (१।१६)

kiṃ cāvyāpi |

1.17१.१७

असर्वगम् इत्य् अर्थः । (१।१७)

asarvagam ity arthaḥ |

1.18१.१८

यथा प्रधानपुरुषौ सर्वगतौ नैवं व्यक्तम् । (१।१८)

yathā pradhānapuruṣau sarvagatau naivaṃ vyaktam |

1.19१.१९

किं चान्यत् सक्रियम् । (१।१९)

kiṃ cānyat sakriyam |

1.20१.२०

संसारकाले संसरति । (१।२०)

saṃsārakāle saṃsarati |

1.21१.२१

त्रयोदशविधेन करणेन संयुक्तम् सूक्ष्मं शरीरम् आश्रित्य संसरति । (१।२१)

trayodaśavidhena karaṇena saṃyuktam sūkṣmaṃ śarīram āśritya saṃsarati |

1.22१.२२

तस्मात् सक्रियम् । (१।२२)

tasmāt sakriyam |

1.23१.२३

किम् चान्यद् अनेकम् । (१।२३)

kim cānyad anekam |

1.24१.२४

बुद्धिर् अहंकारः पञ्च तन्मात्राण्य् एकादशेन्द्रियाणि पञ्च महाभूतानि चेति । (१।२४)

buddhir ahaṃkāraḥ pañca tanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāni ceti |

1.25१.२५

किं चान्यद् आश्रितम् । (१।२५)

kiṃ cānyad āśritam |

1.26१.२६

स्वकारणम् आश्रयते । (१।२६)

svakāraṇam āśrayate |

1.27१.२७

प्रधानाश्रिता बुद्धिर् बुद्धिम् आश्रितो ऽहंकारो ऽहंकाराश्रितान्येकादशेन्द्रियाणि पञ्च तन्मात्राणि पञ्चतन्मात्राश्रितानि पञ्च महाभूतानीति । (१।२७)

pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti |

1.28१.२८

किं च लिङ्गम् । (१।२८)

kiṃ ca liṅgam |

1.29१.२९

लययुक्तम् । (१।२९)

layayuktam |

1.30१.३०

लयकाले पञ्च महाभूतानि तन्मात्रेषु लीयन्ते तान्य् एकादशेन्द्रियैः सहाहंकारे स च बुद्धौ सा च प्रधाने लयं यातीति । (१।३०)

layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti |

1.31१.३१

तथा सावयवम् । (१।३१)

tathā sāvayavam |

1.32१.३२

अवयवाः शब्दस्पर्शरसरूपगन्धास् तैः सह । (१।३२)

avayavāḥ śabdasparśarasarūpagandhās taiḥ saha |

1.33१.३३

किं च परतन्त्रम् । (१।३३)

kiṃ ca paratantram |

1.34१.३४

नात्मनः प्रभवति । (१।३४)

nātmanaḥ prabhavati |

1.35१.३५

यथा प्रधानतन्त्रा बुद्धिर् बुद्धितन्त्रो ऽहंकारो ऽहंकारतन्त्राणि तन्मात्राणीन्द्रियाणि च तन्मात्रतन्त्राणि पञ्च महाभूतानि च । (१।३५)

yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca |

1.36१.३६

एवं परतन्त्रं परायत्तं व्याख्यातं व्यक्तम् । (१।३६)

evaṃ paratantraṃ parāyattaṃ vyākhyātaṃ vyaktam |

1.37१.३७

अथो ऽव्यक्तं व्याख्यास्यामः । (१।३७)

atho 'vyaktaṃ vyākhyāsyāmaḥ |

1.38१.३८

विपरीतम् अव्यक्तम् । (१।३८)

viparītam avyaktam |

1.39१.३९

एतैर् एव गुणैर् यथोक्तैर् विपरीतम् अव्यक्तम् । (१।३९)

etair eva guṇair yathoktair viparītam avyaktam |

1.40१.४०

हेतुमद् व्यक्तम् उक्तम् । (१।४०)

hetumad vyaktam uktam |

1.41१.४१

नहि प्रधानात् परं किंचिद् अस्ति । (१।४१)

nahi pradhānāt paraṃ kiṃcid asti |

1.42१.४२

यतः प्रधानस्यानुत्पत्तिस्तस्माद् अहेतुमद् अव्यक्तम् । (१।४२)

yataḥ pradhānasyānutpattistasmād ahetumad avyaktam |

1.43१.४३

तथानित्यम् च व्यक्तम् । (१।४३)

tathānityam ca vyaktam |

1.44१.४४

नित्यम् अव्यक्तम् अनुत्पद्यमानत्वात् । (१।४४)

nityam avyaktam anutpadyamānatvāt |

1.45१.४५

न हि भूतानीव कुतश्चिद् उत्पद्यत इति नित्यं प्रधानम् । (१।४५)

na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam |

1.46१.४६

किम् चाव्यापि व्यक्तम् व्यापि प्रधानं सर्वगतत्वात् । (१।४६)

kim cāvyāpi vyaktam vyāpi pradhānaṃ sarvagatatvāt |

1.47१.४७

सक्रियं व्यक्तम् अक्रियम् अव्यक्तम् सर्वगतत्वाद् एव । (१।४७)

sakriyaṃ vyaktam akriyam avyaktam sarvagatatvād eva |

1.48१.४८

तथानेकम् व्यक्तम् एकं प्रधानं कारणत्वात् । (१।४८)

tathānekam vyaktam ekaṃ pradhānaṃ kāraṇatvāt |

1.49१.४९

त्रयाणां लोकानां प्रधानम् एकं कारणं तस्माद् एकं प्रधानम् । (१।४९)

trayāṇāṃ lokānāṃ pradhānam ekaṃ kāraṇaṃ tasmād ekaṃ pradhānam |

1.50१.५०

तथाश्रितम् व्यक्तम् अनाश्रितम् अव्यक्तम् अकार्यत्वात् । (१।५०)

tathāśritam vyaktam anāśritam avyaktam akāryatvāt |

1.51१.५१

न हि प्रधानाद् अस्ति किंचित् परं यस्य प्रधानं कार्यं स्यात् । (१।५१)

na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt |

1.52१.५२

तथा व्यक्तं लिङ्गम् अलिङ्गम् अव्यक्तं नित्यत्वात् । (१।५२)

tathā vyaktaṃ liṅgam aliṅgam avyaktaṃ nityatvāt |

1.53१.५३

महदादि लिङ्गम् प्रलयकाले परस्परं प्रलीयते नैवं प्रधानम् । (१।५३)

mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam |

1.54१.५४

तस्माद् अलिङ्गं प्रधानम् । (१।५४)

tasmād aliṅgaṃ pradhānam |

1.55१.५५

तथा सावयवं व्यक्तं निरवयवम् अव्यक्तम् । (१।५५)

tathā sāvayavaṃ vyaktaṃ niravayavam avyaktam |

1.56१.५६

न हि शब्दस्पर्शरसरूपगन्धाः प्रधाने सन्ति । (१।५६)

na hi śabdasparśarasarūpagandhāḥ pradhāne santi |

1.57१.५७

तथा परतन्त्रम् व्यक्तम् स्वतन्त्रम् अव्यक्तम् प्रभवत्य् आत्मनः । (१।५७)

tathā paratantram vyaktam svatantram avyaktam prabhavaty ātmanaḥ |

1.58१.५८

एवम् व्यक्ताव्यक्तयोर् वैधर्म्यम् उक्तं साधर्म्यम् उच्यते । (१।५८)

evam vyaktāvyaktayor vaidharmyam uktaṃ sādharmyam ucyate |

1.59१.५९

यद् उक्तं सरूपं च ॥ (१।५९)

yad uktaṃ sarūpaṃ ca ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 10.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit