सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 9.2

9 of 70 · 29 verses

Select a line for its word-by-word analysis.

1.1१.१

असदकरणात् । (१।१)

asadakaraṇāt |

1.2१.२

न सद् असत् । (१।२)

na sad asat |

1.3१.३

असतो ऽकरणं तस्मात् सत्कार्यम् । (१।३)

asato 'karaṇaṃ tasmāt satkāryam |

1.4१.४

इह लोके ऽसत्करणम् नास्ति । (१।४)

iha loke 'satkaraṇam nāsti |

1.5१.५

तस्मात् सतः करणाद् अस्ति प्राग् उत्पत्तेः प्रधाने व्यक्तम् । (१।५)

tasmāt sataḥ karaṇād asti prāg utpatteḥ pradhāne vyaktam |

1.6१.६

अतः सत्कार्यम् । (१।६)

ataḥ satkāryam |

1.7१.७

किं चान्यत् । (१।७)

kiṃ cānyat |

1.8१.८

उपादानग्रहणात् । (१।८)

upādānagrahaṇāt |

1.9१.९

उपादानम् कारणम् तस्य ग्रहणात् । (१।९)

upādānam kāraṇam tasya grahaṇāt |

1.10१.१०

इह लोके यो येनार्थी स तदुपादानग्रहणं करोति । (१।१०)

iha loke yo yenārthī sa tadupādānagrahaṇaṃ karoti |

1.11१.११

दध्यर्थी क्षीरस्य न तु जलस्य । (१।११)

dadhyarthī kṣīrasya na tu jalasya |

1.12१.१२

तस्मात् सत्कार्यम् । (१।१२)

tasmāt satkāryam |

1.13१.१३

इतश्च । (१।१३)

itaśca |

1.14१.१४

सर्वसंभवाभावात् । (१।१४)

sarvasaṃbhavābhāvāt |

1.15१.१५

सर्वस्य सर्वत्र संभवो नास्ति । (१।१५)

sarvasya sarvatra saṃbhavo nāsti |

1.16१.१६

यथा सुवर्णस्य रजतादौ तृणपांसुसिकतासु । (१।१६)

yathā suvarṇasya rajatādau tṛṇapāṃsusikatāsu |

1.17१.१७

तस्मात् सर्वसम्भवाभावात् सत्कार्यम् । (१।१७)

tasmāt sarvasambhavābhāvāt satkāryam |

1.18१.१८

इतश्च । (१।१८)

itaśca |

1.19१.१९

शक्तस्य शक्यकरणात् । (१।१९)

śaktasya śakyakaraṇāt |

1.20१.२०

इह कुलालः शक्तो मृद्दण्डचक्रचीवररज्जुनीरादिकरणोपकरणं वा शक्यम् एव घटम् मृत्पिण्डाद् उत्पादयति । (१।२०)

iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati |

1.21१.२१

तस्मात् सत्कार्यम् । (१।२१)

tasmāt satkāryam |

1.22१.२२

इतश्च कारणभावाच्च सत्कार्यम् । (१।२२)

itaśca kāraṇabhāvācca satkāryam |

1.23१.२३

कारणं यल्लक्षणम् तल्लक्षणम् एव कार्यम् अपि । (१।२३)

kāraṇaṃ yallakṣaṇam tallakṣaṇam eva kāryam api |

1.24१.२४

यथा यवेभ्यो यवा व्रीहिभ्यो व्रीहयः । (१।२४)

yathā yavebhyo yavā vrīhibhyo vrīhayaḥ |

1.25१.२५

यदासत्कार्यं स्यात् ततः कोद्रवेभ्यः शालयः स्युः । (१।२५)

yadāsatkāryaṃ syāt tataḥ kodravebhyaḥ śālayaḥ syuḥ |

1.26१.२६

न च सन्तीति तस्मात् सत्कार्यम् । (१।२६)

na ca santīti tasmāt satkāryam |

1.27१.२७

एवम् पञ्चभिर् हेतुभिः प्रधाने महदादि लिङ्गम् अस्ति । (१।२७)

evam pañcabhir hetubhiḥ pradhāne mahadādi liṅgam asti |

1.28१.२८

तस्मात् सत उत्पत्तिर् नासत इति । (१।२८)

tasmāt sata utpattir nāsata iti |

1.29१.२९

प्रकृतिविरूपं सरूपम् च यद् उक्तं तत् कथम् इत्युच्यते ॥ (१।२९)

prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 9.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit