सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 11.2

11 of 70 · 64 verses

Select a line for its word-by-word analysis.

1.1१.१

त्रिगुणं व्यक्तम् । (१।१)

triguṇaṃ vyaktam |

1.2१.२

सत्त्वरजस्तमांसि त्रयो गुणा यस्येति । (१।२)

sattvarajastamāṃsi trayo guṇā yasyeti |

1.3१.३

अविवेकि व्यक्तम् । (१।३)

aviveki vyaktam |

1.4१.४

न विवेको ऽस्यास्तीति । (१।४)

na viveko 'syāstīti |

1.5१.५

इदं व्यक्तम् इमे गुणा इति न विवेकं कर्तुं यात्ययं गौर् अयम् अश्व इति यथा । (१।५)

idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā |

1.6१.६

ये गुणास् तद् व्यक्तं यद् व्यक्तं ते च गुणा इति । (१।६)

ye guṇās tad vyaktaṃ yad vyaktaṃ te ca guṇā iti |

1.7१.७

तथा विषयो व्यक्तं भोज्यम् इत्यर्थः । (१।७)

tathā viṣayo vyaktaṃ bhojyam ityarthaḥ |

1.8१.८

सर्वपुरुषाणां विषयभूतत्वात् । (१।८)

sarvapuruṣāṇāṃ viṣayabhūtatvāt |

1.9१.९

तथा सामान्यं व्यक्तम् । (१।९)

tathā sāmānyaṃ vyaktam |

1.10१.१०

मूल्यदासीवत् सर्वसाधारणत्वात् । (१।१०)

mūlyadāsīvat sarvasādhāraṇatvāt |

1.11१.११

अचेतनं व्यक्तम् । (१।११)

acetanaṃ vyaktam |

1.12१.१२

सुखदुःखमोहान् न चेतयतीत्य् अर्थः । (१।१२)

sukhaduḥkhamohān na cetayatīty arthaḥ |

1.13१.१३

तथा प्रसवधर्मि व्यक्तम् । (१।१३)

tathā prasavadharmi vyaktam |

1.14१.१४

तद्यथा बुद्धेर् अहंकारः प्रसूयते तस्मात् पञ्च तन्मात्राण्येकादशेन्द्रियाणि च प्रसूयन्ते तन्मात्रेभ्यः पञ्च महाभूतानीति । (१।१४)

tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti |

1.15१.१५

एवम् एते व्यक्तधर्माः प्रसवधर्मान्ता उक्ताः । (१।१५)

evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ |

1.16१.१६

एवम् एभिर् अव्यक्तं सरूपं यथा व्यक्तं तथा प्रधानम् इति । (१।१६)

evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti |

1.17१.१७

तत्र त्रिगुणं व्यक्तम् अव्यक्तम् अपि त्रिगुणम् । (१।१७)

tatra triguṇaṃ vyaktam avyaktam api triguṇam |

1.18१.१८

यस्यैतन्महदादि कार्यं त्रिगुणम् । (१।१८)

yasyaitanmahadādi kāryaṃ triguṇam |

1.19१.१९

इह यदात्मकं कारणं तदात्मकं कार्यम् इति । (१।१९)

iha yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam iti |

1.20१.२०

यथा कृष्णतन्तुकृतः कृष्ण एव पटो भवति । (१।२०)

yathā kṛṣṇatantukṛtaḥ kṛṣṇa eva paṭo bhavati |

1.21१.२१

तथाविवेकि व्यक्तम् । (१।२१)

tathāviveki vyaktam |

1.22१.२२

प्रधानम् अपि गुणैर्न भिद्यते । (१।२२)

pradhānam api guṇairna bhidyate |

1.23१.२३

अन्ये गुणा अन्यत् प्रधानम् एवं विवेक्तुं न याति । (१।२३)

anye guṇā anyat pradhānam evaṃ vivektuṃ na yāti |

1.24१.२४

तद् अविवेकि प्रधानम् । (१।२४)

tad aviveki pradhānam |

1.25१.२५

तथा विषयो व्यक्तं प्रधानम् अपि सर्वपुरुषविषयभूतत्वाद् विषय इति । (१।२५)

tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti |

1.26१.२६

तथा सामान्यं व्यक्तं प्रधानम् अपि सर्वसाधारणत्वात् । (१।२६)

tathā sāmānyaṃ vyaktaṃ pradhānam api sarvasādhāraṇatvāt |

1.27१.२७

तथाचेतनं व्यक्तं प्रधानम् अपि सुखदुःखमोहान् न चेतयतीति कथम् अनुमीयते । (१।२७)

tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate |

1.28१.२८

इह ह्यचेतनान् मृत्पिण्डाद् अचेतनो घट उत्पद्यते । (१।२८)

iha hyacetanān mṛtpiṇḍād acetano ghaṭa utpadyate |

1.29१.२९

एवं प्रधानम् अपि व्याख्यातम् । (१।२९)

evaṃ pradhānam api vyākhyātam |

1.30१.३०

इदानीं तद्विपरीतस् तथा च पुमान् इत्येतद् व्याख्यायते । (१।३०)

idānīṃ tadviparītas tathā ca pumān ityetad vyākhyāyate |

1.31१.३१

तद्विपरीतस् ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः पुमान् । (१।३१)

tadviparītas tābhyāṃ vyaktāvyaktābhyāṃ viparītaḥ pumān |

1.32१.३२

तद् यथा । (१।३२)

tad yathā |

1.33१.३३

त्रिगुणं व्यक्तम् अव्यक्तं चागुणः पुरुषः । (१।३३)

triguṇaṃ vyaktam avyaktaṃ cāguṇaḥ puruṣaḥ |

1.34१.३४

अविवेकि व्यक्तम् अव्यक्तं च विवेकी पुरुषः । (१।३४)

aviveki vyaktam avyaktaṃ ca vivekī puruṣaḥ |

1.35१.३५

तथा विषयो व्यक्तम् अव्यक्तं चाविषयः पुरुषः । (१।३५)

tathā viṣayo vyaktam avyaktaṃ cāviṣayaḥ puruṣaḥ |

1.36१.३६

तथा सामान्यं व्यक्तम् अव्यक्तं चासामान्यः पुरुषः । (१।३६)

tathā sāmānyaṃ vyaktam avyaktaṃ cāsāmānyaḥ puruṣaḥ |

1.37१.३७

अचेतनं व्यक्तम् अव्यक्तं च चेतनः पुरुषः । (१।३७)

acetanaṃ vyaktam avyaktaṃ ca cetanaḥ puruṣaḥ |

1.38१.३८

सुखदुःखमोहांश्चेतयति संजानीते । (१।३८)

sukhaduḥkhamohāṃścetayati saṃjānīte |

1.39१.३९

प्रसवधर्मि व्यक्तं प्रधानं चाप्रसवधर्मी पुरुषः । (१।३९)

prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī puruṣaḥ |

1.40१.४०

न हि पुरुषात् किंचित् प्रसूयते । (१।४०)

na hi puruṣāt kiṃcit prasūyate |

1.41१.४१

तस्माद् उक्तं तद्विपरीतः पुमान् इति । (१।४१)

tasmād uktaṃ tadviparītaḥ pumān iti |

1.42१.४२

तद् उक्तं तथा च पुमान् इति । (१।४२)

tad uktaṃ tathā ca pumān iti |

1.43१.४३

तत् पूर्वस्याम् आर्यायां प्रधानम् अहेतुमद् यथा व्याख्यातं तथा च पुमान् । (१।४३)

tat pūrvasyām āryāyāṃ pradhānam ahetumad yathā vyākhyātaṃ tathā ca pumān |

1.44१.४४

तद् यथा हेतुमद् अनित्यम् इत्यादि व्यक्तं तद्विपरीतम् अव्यक्तम् । (१।४४)

tad yathā hetumad anityam ityādi vyaktaṃ tadviparītam avyaktam |

1.45१.४५

तत्र हेतुमद् व्यक्तम् अहेतुमत् प्रधानं तथा च पुमान् अहेतुमान् अनुत्पाद्यत्वात् । (१।४५)

tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt |

1.46१.४६

अनित्यं व्यक्तं नित्यं प्रधानम् । (१।४६)

anityaṃ vyaktaṃ nityaṃ pradhānam |

1.47१.४७

तथा नित्यः पुमान् । (१।४७)

tathā nityaḥ pumān |

1.48१.४८

अव्यापि व्यक्तं व्यापि प्रधानम् । (१।४८)

avyāpi vyaktaṃ vyāpi pradhānam |

1.49१.४९

तथा च व्यापी पुमान् सर्वगतत्वात् । (१।४९)

tathā ca vyāpī pumān sarvagatatvāt |

1.50१.५०

सक्रियं व्यक्तम् अक्रियं प्रधानं तथा च पुमान् अक्रियः सर्वगतत्वाद् एव । (१।५०)

sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva |

1.51१.५१

अनेकं व्यक्तम् एकम् अव्यक्तं तथा पुमान् अप्य् एकः । (१।५१)

anekaṃ vyaktam ekam avyaktaṃ tathā pumān apy ekaḥ |

1.52१.५२

आश्रितं व्यक्तम् अनाश्रितम् अव्यक्तं तथा च पुमान् अनाश्रितः । (१।५२)

āśritaṃ vyaktam anāśritam avyaktaṃ tathā ca pumān anāśritaḥ |

1.53१.५३

लिङ्गं व्यक्तम् अलिङ्गम् अव्यक्तं तथा च पुमान् अप्यलिङ्गः । (१।५३)

liṅgaṃ vyaktam aliṅgam avyaktaṃ tathā ca pumān apyaliṅgaḥ |

1.54१.५४

न क्वचिल्लीयत इति । (१।५४)

na kvacillīyata iti |

1.55१.५५

सावयवं व्यक्तं निरवयवम् अव्यक्तम् । (१।५५)

sāvayavaṃ vyaktaṃ niravayavam avyaktam |

1.56१.५६

तथा च पुमान् निरवयवः । (१।५६)

tathā ca pumān niravayavaḥ |

1.57१.५७

न हि पुरुषे शब्दादयो ऽवयवाः सन्ति । (१।५७)

na hi puruṣe śabdādayo 'vayavāḥ santi |

1.58१.५८

किं च परतन्त्रं व्यक्तं स्वतन्त्रम् अव्यक्तम् । (१।५८)

kiṃ ca paratantraṃ vyaktaṃ svatantram avyaktam |

1.59१.५९

तथा च पुमान् अपि स्वतन्त्र आत्मनः प्रभवतीत्य् अर्थः । (१।५९)

tathā ca pumān api svatantra ātmanaḥ prabhavatīty arthaḥ |

1.60१.६०

एवम् एतद् अव्यक्तपुरुषयोः साधर्म्यं व्याख्यातं पूर्वस्याम् आर्यायाम् । (१।६०)

evam etad avyaktapuruṣayoḥ sādharmyaṃ vyākhyātaṃ pūrvasyām āryāyām |

1.61१.६१

व्यक्तप्रधानयोः साधर्म्यं पुरुषस्य वैधर्म्यं च त्रिगुणम् अविवेकीत्यादि प्रकृत्यार्यायां व्याख्यातम् । (१।६१)

vyaktapradhānayoḥ sādharmyaṃ puruṣasya vaidharmyaṃ ca triguṇam avivekītyādi prakṛtyāryāyāṃ vyākhyātam |

1.62१.६२

तत्र यद् उक्तं त्रिगुणम् इति व्यक्तम् अव्यक्तं च । (१।६२)

tatra yad uktaṃ triguṇam iti vyaktam avyaktaṃ ca |

1.63१.६३

तत् के ते गुणा इति । (१।६३)

tat ke te guṇā iti |

1.64१.६४

तत् स्वरूपप्रतिपादनायेदम् आह ॥ (१।६४)

tat svarūpapratipādanāyedam āha ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 11.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit