सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 12.2

12 of 70 · 35 verses

Select a line for its word-by-word analysis.

1.1१.१

प्रीत्यात्मका अप्रीत्यात्मका विषादात्मकाश्च गुणाः सत्त्वरजस्तमांसीत्यर्थः । (१।१)

prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ |

1.2१.२

तत्र प्रीत्यात्मकं सत्त्वम् । (१।२)

tatra prītyātmakaṃ sattvam |

1.3१.३

प्रीतिः सुखं तदात्मकम् इति । (१।३)

prītiḥ sukhaṃ tadātmakam iti |

1.4१.४

अप्रीत्यात्मकं रजः । (१।४)

aprītyātmakaṃ rajaḥ |

1.5१.५

अप्रीतिर् दुःखम् । (१।५)

aprītir duḥkham |

1.6१.६

विषादात्मकं तमः । (१।६)

viṣādātmakaṃ tamaḥ |

1.7१.७

विषादो मोहः । (१।७)

viṣādo mohaḥ |

1.8१.८

तथा प्रकाशप्रवृत्तिनियमार्थाः । (१।८)

tathā prakāśapravṛttiniyamārthāḥ |

1.9१.९

अर्थशब्दः सामर्थ्यवाची प्रकाशार्थं सत्त्वं प्रकाशसमर्थम् इत्य् अर्थः । (१।९)

arthaśabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamartham ity arthaḥ |

1.10१.१०

प्रवृत्त्यर्थं रजः । (१।१०)

pravṛttyarthaṃ rajaḥ |

1.11१.११

नियमार्थं तमः । (१।११)

niyamārthaṃ tamaḥ |

1.12१.१२

स्थितौ समर्थम् इत्य् अर्थः । (१।१२)

sthitau samartham ity arthaḥ |

1.13१.१३

प्रकाशक्रियास्थितिशीला गुणा इति । (१।१३)

prakāśakriyāsthitiśīlā guṇā iti |

1.14१.१४

तथान्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च । (१।१४)

tathānyonyābhibhavāśrayajananamithunavṛttayaśca |

1.15१.१५

अन्योन्याभिभवा अन्योन्याश्रया अन्योन्यजनना अन्योन्यमिथुना अन्योन्यवृत्तयश्च ते तथोक्ताः । (१।१५)

anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ |

1.16१.१६

अन्योन्याभिभवा इति अन्योन्यं परस्परम् अभिभवन्तीति । (१।१६)

anyonyābhibhavā iti anyonyaṃ parasparam abhibhavantīti |

1.17१.१७

प्रीत्यप्रीत्यादिभिर् धर्मैर् आविर्भवन्ति । (१।१७)

prītyaprītyādibhir dharmair āvirbhavanti |

1.18१.१८

यथा यदा सत्त्वम् उत्कटं भवति तदा रजस्तमसी अभिभूय स्वगुणैः प्रीतिप्रकाशात्मनावतिष्ठते । (१।१८)

yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate |

1.19१.१९

यदा रजस् तदा सत्त्वतमसी अप्रीतिप्रवृत्तिधर्मेण । (१।१९)

yadā rajas tadā sattvatamasī aprītipravṛttidharmeṇa |

1.20१.२०

यदा तमस् तदा सत्त्वरजसी विषादस्थित्यात्मकेनेति । (१।२०)

yadā tamas tadā sattvarajasī viṣādasthityātmakeneti |

1.21१.२१

तथान्योन्याश्रयाश्च द्व्यणुकवद् गुणाः । (१।२१)

tathānyonyāśrayāśca dvyaṇukavad guṇāḥ |

1.22१.२२

अन्योन्यजनना यथा मृत्पिण्डो घटं जनयति । (१।२२)

anyonyajananā yathā mṛtpiṇḍo ghaṭaṃ janayati |

1.23१.२३

तथान्योन्यमिथुनाश्च यथा स्त्रीपुंसावन्योन्यमिथुनौ तथा गुणाः । (१।२३)

tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ |

1.24१.२४

उक्तं च । (१।२४)

uktaṃ ca |

1.25१.२५

रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः । (१।२५)

rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ |

1.26१.२६

उभयोः सत्त्वरजसोर् मिथुनं तम उच्यते ॥ (१।२६)

ubhayoḥ sattvarajasor mithunaṃ tama ucyate ||

2.1२.१

परस्परसहाया इत्य् अर्थः । (२।१)

parasparasahāyā ity arthaḥ |

2.2२.२

अन्योन्यवृत्तयश्च परस्परं वर्तन्ते । (२।२)

anyonyavṛttayaśca parasparaṃ vartante |

2.3२.३

गुणा गुणेषु वर्तन्त इति वचनात् । (२।३)

guṇā guṇeṣu vartanta iti vacanāt |

2.4२.४

यथा सुरूपा सुशीला स्त्री सर्वसुखहेतुः सपत्नीनां सैव दुःखहेतुः सैव रागिणां मोहं जनयत्येवं सत्त्वं रजस्तमसोर् वृत्तिहेतुः । (२।४)

yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ |

2.5२.५

यथा राजा सदोद्युक्तः प्रजापालने दुष्टनिग्रहे शिष्टानां सुखम् उत्पादयति दुष्टानां दुःखं मोहं चैवं रजः सत्त्वतमसोर् वृत्तिं जनयति । (२।५)

yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati |

2.6२.६

तथा तमः स्वरूपेणावरणात्मकेन सत्त्वरजसोर् वृत्तिं जनयति । (२।६)

tathā tamaḥ svarūpeṇāvaraṇātmakena sattvarajasor vṛttiṃ janayati |

2.7२.७

यथा मेघाः खम् आवृत्य जगतः सुखम् उत्पादयन्ति ते वृष्ट्या कर्षकाणां कर्षणोद्योगं जनयन्ति विरहिणां मोहम् । (२।७)

yathā meghāḥ kham āvṛtya jagataḥ sukham utpādayanti te vṛṣṭyā karṣakāṇāṃ karṣaṇodyogaṃ janayanti virahiṇāṃ moham |

2.8२.८

एवं अन्योन्यवृत्तयो गुणाः । (२।८)

evaṃ anyonyavṛttayo guṇāḥ |

2.9२.९

किं चान्यत् ॥ (२।९)

kiṃ cānyat ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 12.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit