सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 5.2

5 of 70 · 20 verses

Select a line for its word-by-word analysis.

1.1१.१

प्रतिविषयेषु श्रोत्रादीनां शब्दादिविषयेष्वध्यवसायो दृष्टं प्रत्यक्षम् इत्य् अर्थः । (१।१)

prativiṣayeṣu śrotrādīnāṃ śabdādiviṣayeṣvadhyavasāyo dṛṣṭaṃ pratyakṣam ity arthaḥ |

1.2१.२

त्रिविधम् अनुमानम् आख्यातम् । (१।२)

trividham anumānam ākhyātam |

1.3१.३

पूर्ववच्छेषवत् सामान्यतोदृष्टम् चेति । (१।३)

pūrvavaccheṣavat sāmānyatodṛṣṭam ceti |

1.4१.४

पूर्वम् अस्यास्तीति पूर्ववद् यथा । (१।४)

pūrvam asyāstīti pūrvavad yathā |

1.5१.५

मेघोन्नत्या वृष्टिम् साधयति पूर्वदृष्टत्वात् । (१।५)

meghonnatyā vṛṣṭim sādhayati pūrvadṛṣṭatvāt |

1.6१.६

शेषवद् यथा । (१।६)

śeṣavad yathā |

1.7१.७

समुद्राद् एकम् जलपलं लवणम् आसाद्य शेषस्याप्य् अस्ति लवणभाव इति । (१।७)

samudrād ekam jalapalaṃ lavaṇam āsādya śeṣasyāpy asti lavaṇabhāva iti |

1.8१.८

सामान्यतोदृष्टं देशाद् देशान्तरं प्राप्तं दृष्टं गतिमच्चन्द्रतारकं चैत्रवत् । (१।८)

sāmānyatodṛṣṭaṃ deśād deśāntaraṃ prāptaṃ dṛṣṭaṃ gatimaccandratārakaṃ caitravat |

1.9१.९

यथा चैत्रनामानम् देशाद् देशान्तरं प्राप्तम् अवलोक्य गतिमान् अयम् इति तद्वच्चन्द्रतारकम् इति । (१।९)

yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti |

1.10१.१०

तथा पुष्पिताम्रदर्शनाद् अन्यत्र पुष्पिता आम्रा इति सामान्यतोदृष्टेन साधयति । (१।१०)

tathā puṣpitāmradarśanād anyatra puṣpitā āmrā iti sāmānyatodṛṣṭena sādhayati |

1.11१.११

एतत् सामान्यतोदृष्टम् । (१।११)

etat sāmānyatodṛṣṭam |

1.12१.१२

किंच तल्लिङ्गलिङ्गिपूर्वकम् इति । (१।१२)

kiṃca talliṅgaliṅgipūrvakam iti |

1.13१.१३

तद् अनुमानं लिङ्गपूर्वकं यत्र लिङ्गेन लिङ्ग्यनुमीयते यथा दण्डेन यतिः । (१।१३)

tad anumānaṃ liṅgapūrvakaṃ yatra liṅgena liṅgyanumīyate yathā daṇḍena yatiḥ |

1.14१.१४

लिङ्गिपूर्वकं च यत्र लिङ्गिना लिङ्गम् अनुमीयते । (१।१४)

liṅgipūrvakaṃ ca yatra liṅginā liṅgam anumīyate |

1.15१.१५

यथा दृष्ट्वा यतिम् अस्येदम् त्रिदण्डम् इति । (१।१५)

yathā dṛṣṭvā yatim asyedam tridaṇḍam iti |

1.16१.१६

आप्तश्रुतिर् आप्तवचनम् च । (१।१६)

āptaśrutir āptavacanam ca |

1.17१.१७

आप्ता आचार्या ब्रह्मादयः । (१।१७)

āptā ācāryā brahmādayaḥ |

1.18१.१८

श्रुतिर् वेदः । (१।१८)

śrutir vedaḥ |

1.19१.१९

आप्ताश् च श्रुतिश् चाप्तश्रुतिस्तद् उक्तम् आप्तवचनम् इति । (१।१९)

āptāś ca śrutiś cāptaśrutistad uktam āptavacanam iti |

1.20१.२०

एवं त्रिविधं प्रमाणम् उक्तं तत्र केन प्रमाणेन किं साध्यम् उच्यते ॥ (१।२०)

evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 5.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit