सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 56.2

56 of 70 · 20 verses

Select a line for its word-by-word analysis.

1.1१.१

इत्येष परिसमाप्तौ निर्देशे च । (१।१)

ityeṣa parisamāptau nirdeśe ca |

1.2१.२

प्रकृतिकृतौ प्रकृतिकरणे प्रकृतिक्रियायाम् । (१।२)

prakṛtikṛtau prakṛtikaraṇe prakṛtikriyāyām |

1.3१.३

य आरम्भो महदादिविशेषभूतपर्यन्तः प्रकृतेर्महान् महतो ऽहंकारस् तस्मात् तन्मात्राण्येकादशेन्द्रियाणि तन्मात्रेभ्यः पञ्च महाभूतानीत्येषः । (१।३)

ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ |

1.4१.४

प्रतिपुरुषविमोक्षार्थम् । (१।४)

pratipuruṣavimokṣārtham |

1.5१.५

पुरुषं पुरुषं प्रति । (१।५)

puruṣaṃ puruṣaṃ prati |

1.6१.६

देवमनुष्यतिर्यग्भावं गतानां विमोक्षार्थम् आरम्भः । (१।६)

devamanuṣyatiryagbhāvaṃ gatānāṃ vimokṣārtham ārambhaḥ |

1.7१.७

कथम् । (१।७)

katham |

1.8१.८

स्वार्थ इव परार्थ आरम्भः । (१।८)

svārtha iva parārtha ārambhaḥ |

1.9१.९

यथा कश्चित् स्वार्थं त्यक्त्वा मित्रकार्याणि करोत्येवं प्रधानम् । (१।९)

yathā kaścit svārthaṃ tyaktvā mitrakāryāṇi karotyevaṃ pradhānam |

1.10१.१०

पुरुषो ऽत्र प्रधानस्य न किंचित् प्रत्युपकारं करोति । (१।१०)

puruṣo 'tra pradhānasya na kiṃcit pratyupakāraṃ karoti |

1.11१.११

स्वार्थ इव न च स्वार्थः परार्थ एव । (१।११)

svārtha iva na ca svārthaḥ parārtha eva |

1.12१.१२

अर्थः शब्दादिविषयोपलब्धिर् गुणपुरुषान्तरोपलब्धिश्च । (१।१२)

arthaḥ śabdādiviṣayopalabdhir guṇapuruṣāntaropalabdhiśca |

1.13१.१३

त्रिषु लोकेषु शब्दादिविषयैः पुरुषा योजयितव्या अन्ते मोक्षेणेति प्रधानस्य प्रवृत्तिः । (१।१३)

triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ |

1.14१.१४

तथा चोक्तं कुम्भवत् प्रधानं पुरुषार्थं कृत्वा निवर्तत इति । (१।१४)

tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti |

1.15१.१५

अत्रोच्यते । (१।१५)

atrocyate |

1.16१.१६

अचेतनं प्रधानं चेतनः पुरुष इति । (१।१६)

acetanaṃ pradhānaṃ cetanaḥ puruṣa iti |

1.17१.१७

मया त्रिषु लोकेषु शब्दादिभिर् विषयैः पुरुषो योज्यो ऽन्ते मोक्षः कर्तव्य इति । (१।१७)

mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti |

1.18१.१८

कथं चेतनवत् प्रवृत्तिः । (१।१८)

kathaṃ cetanavat pravṛttiḥ |

1.19१.१९

सत्यं किंत्वचेतानानाम् अपि प्रवृत्तिर् दृष्टा निवृत्तिश्च । (१।१९)

satyaṃ kiṃtvacetānānām api pravṛttir dṛṣṭā nivṛttiśca |

1.20१.२०

यस्माद् इत्याह ॥ (१।२०)

yasmād ityāha ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 56.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit