सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 50.2

50 of 70 · 29 verses

Select a line for its word-by-word analysis.

1.1१.१

आध्यात्मिकाश्चतस्रस् तुष्टयः । (१।१)

ādhyātmikāścatasras tuṣṭayaḥ |

1.2१.२

अध्यात्मनि भवा आध्यात्मिकास्ताश्च प्रकृत्युपादानकालभाग्याख्याः । (१।२)

adhyātmani bhavā ādhyātmikāstāśca prakṛtyupādānakālabhāgyākhyāḥ |

1.3१.३

तत्र प्रकृत्याख्याः । (१।३)

tatra prakṛtyākhyāḥ |

1.4१.४

यथा कश्चित् प्रकृतिं वेत्ति तस्याः सगुणत्वनिर्गुणत्वं च । (१।४)

yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca |

1.5१.५

तेन तत्त्वं तत्कार्यं विज्ञायैव केवलं तुष्टस्तस्य नास्ति मोक्षः । (१।५)

tena tattvaṃ tatkāryaṃ vijñāyaiva kevalaṃ tuṣṭastasya nāsti mokṣaḥ |

1.6१.६

एषा प्रकृत्याख्या । (१।६)

eṣā prakṛtyākhyā |

1.7१.७

उपादानाख्या । (१।७)

upādānākhyā |

1.8१.८

यथा कश्चिद् अविज्ञायैव तत्त्वान्युपादानग्रहणं करोति त्रिदण्डकमण्डलुविविदिकाभ्यो मोक्ष इति तस्यापि नास्ति मोक्ष इति । (१।८)

yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti |

1.9१.९

एषोपादानाख्या । (१।९)

eṣopādānākhyā |

1.10१.१०

तथा कालाख्या । (१।१०)

tathā kālākhyā |

1.11१.११

कालेन मोक्षो भविष्यतीति किं तत्त्वाभ्यासेनेत्येष कालाख्या तुष्टिः । (१।११)

kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ |

1.12१.१२

तस्य नास्ति मोक्ष इति । (१।१२)

tasya nāsti mokṣa iti |

1.13१.१३

तथा भाग्याख्या । (१।१३)

tathā bhāgyākhyā |

1.14१.१४

भाग्येनैव मोक्षो भविष्यतीति भाग्याख्या । (१।१४)

bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā |

1.15१.१५

चतुर्धा तुष्टिर् इति । (१।१५)

caturdhā tuṣṭir iti |

1.16१.१६

बाह्या विषयोपरमाच्च पञ्च । (१।१६)

bāhyā viṣayoparamācca pañca |

1.17१.१७

बाह्यास्तुष्टयः पञ्चविषयोपरमात् । (१।१७)

bāhyāstuṣṭayaḥ pañcaviṣayoparamāt |

1.18१.१८

शब्दस्पर्शरूपरसगन्धेभ्य उपरतो ऽर्जनरक्षणक्षयसङ्गहिंसादर्शनात् । (१।१८)

śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt |

1.19१.१९

वृद्धिनिमित्तं पशुपाल्यवाणिज्यप्रतिग्रहसेवाः कार्या एतद् अर्जनं दुःखम् । (१।१९)

vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham |

1.20१.२०

अर्जितानां रक्षणे दुःखम् । (१।२०)

arjitānāṃ rakṣaṇe duḥkham |

1.21१.२१

उपभोगात् क्षीयत इति क्षयदुःखम् । (१।२१)

upabhogāt kṣīyata iti kṣayaduḥkham |

1.22१.२२

तथा विषयोपभोगसङ्गे कृते नास्तीन्द्रियाणाम् उपशम इति सङ्गदोषः । (१।२२)

tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ |

1.23१.२३

तथा नानुपहत्य भूतान्युपभोग इति हिंसादोषः । (१।२३)

tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ |

1.24१.२४

एवम् अर्जनादिदोषदर्शनात् पञ्चविषयोपरमात् पञ्च तुष्टयः । (१।२४)

evam arjanādidoṣadarśanāt pañcaviṣayoparamāt pañca tuṣṭayaḥ |

1.25१.२५

एवम् आध्यात्मिकबाह्यभेदान् नव तुष्टयः । (१।२५)

evam ādhyātmikabāhyabhedān nava tuṣṭayaḥ |

1.26१.२६

तासां नामानि शास्त्रान्तरे प्रोक्तान्यंभः सलिलम् ओघो वृष्टिः सुतमः पारं सुनेत्रं नारीकम् अनुत्तमाम्भसिकम् इति । (१।२६)

tāsāṃ nāmāni śāstrāntare proktānyaṃbhaḥ salilam ogho vṛṣṭiḥ sutamaḥ pāraṃ sunetraṃ nārīkam anuttamāmbhasikam iti |

1.27१.२७

आसां तुष्टीनां विपरीता अशक्तिभेदाद् बुद्धिवधा भवन्ति । (१।२७)

āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti |

1.28१.२८

तद् यथानम्भो ऽसलिलम् अनोघ इत्यादिवैपरीत्याद् बुद्धिवधा इति । (१।२८)

tad yathānambho 'salilam anogha ityādivaiparītyād buddhivadhā iti |

1.29१.२९

सिद्धिर् उच्यते ॥ (१।२९)

siddhir ucyate ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 50.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit