सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 27.2

27 of 70 · 35 verses

Select a line for its word-by-word analysis.

1.1१.१

अत्रेन्द्रियवर्गे मन उभयात्मकम् । (१।१)

atrendriyavarge mana ubhayātmakam |

1.2१.२

बुद्धीन्द्रियेषु बुद्धीन्द्रियवत् कर्मेन्द्रियेषु कर्मेन्द्रियवत् । (१।२)

buddhīndriyeṣu buddhīndriyavat karmendriyeṣu karmendriyavat |

1.3१.३

कस्माद् बुद्धीन्द्रियाणां प्रवृत्तिं कल्पयति कर्मेन्द्रियाणां च । (१।३)

kasmād buddhīndriyāṇāṃ pravṛttiṃ kalpayati karmendriyāṇāṃ ca |

1.4१.४

तस्माद् उभयात्मकं मनः । (१।४)

tasmād ubhayātmakaṃ manaḥ |

1.5१.५

संकल्पयतीति संकल्पकम् । (१।५)

saṃkalpayatīti saṃkalpakam |

1.6१.६

किं चान्यद् इन्द्रियं च साधर्म्यात् समानधर्मभावात् । (१।६)

kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt |

1.7१.७

सात्त्विकाहंकाराद् बुद्धीन्द्रियाणि कर्मेन्द्रियाणि मनसा सहोत्पद्यमानानि मनसः साधर्म्यं प्रतिपादयन्ति । (१।७)

sāttvikāhaṃkārād buddhīndriyāṇi karmendriyāṇi manasā sahotpadyamānāni manasaḥ sādharmyaṃ pratipādayanti |

1.8१.८

तस्मात् साधर्म्यान् मनो ऽपीन्द्रियम् । (१।८)

tasmāt sādharmyān mano 'pīndriyam |

1.9१.९

एवम् एतान्येकादशेन्द्रियाणि सात्त्विकाद् वैकृताहंकाराद् उत्पन्नानि । (१।९)

evam etānyekādaśendriyāṇi sāttvikād vaikṛtāhaṃkārād utpannāni |

1.10१.१०

तत्र मनसः का वृत्तिर् इति । (१।१०)

tatra manasaḥ kā vṛttir iti |

1.11१.११

संकल्पो वृत्तिः । (१।११)

saṃkalpo vṛttiḥ |

1.12१.१२

बुद्धीन्द्रियाणां शब्दादयो वृत्तयः कर्मेन्द्रियाणां वचनादयः । (१।१२)

buddhīndriyāṇāṃ śabdādayo vṛttayaḥ karmendriyāṇāṃ vacanādayaḥ |

1.13१.१३

अथैतानीन्द्रियाणि भिन्नानि भिन्नार्थग्राहकाणि किम् ईश्वरेण स्वभावेन कृतानि यतः प्रधानबुद्ध्यहंकारा अचेतनाः पुरुषो ऽप्यकर्ता । (१।१३)

athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā |

1.14१.१४

अत्राह । (१।१४)

atrāha |

1.15१.१५

इह सांख्यानां स्वभावो नाम कश्चित् कारणम् अस्ति । (१।१५)

iha sāṃkhyānāṃ svabhāvo nāma kaścit kāraṇam asti |

1.16१.१६

अत्रोच्यते । (१।१६)

atrocyate |

1.17१.१७

गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च । (१।१७)

guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca |

1.18१.१८

इमान्येकादशेन्द्रियाणि शब्दस्पर्शरूपरसगन्धाः पञ्चानां वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् । (१।१८)

imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām |

1.19१.१९

संकल्पश्च मनसः । (१।१९)

saṃkalpaśca manasaḥ |

1.20१.२०

एवम् एते भिन्नानाम् एवेन्द्रियाणाम् अर्था गुणपरिणामविशेषाद् गुणानां परिणामो गुणपरिणामः । (१।२०)

evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ |

1.21१.२१

तस्य विशेषाद् इन्द्रियाणां नानात्वं बाह्यभेदाश्च । (१।२१)

tasya viśeṣād indriyāṇāṃ nānātvaṃ bāhyabhedāśca |

1.22१.२२

अथैतन्नानात्वं नेश्वरेण नाहंकारेण न बुद्ध्या न प्रधानेन न पुरुषेण स्वभावात् कृतगुणपरिणामेनेति । (१।२२)

athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti |

1.23१.२३

गुणानाम् अचेतनत्वान् न प्रवर्तते । (१।२३)

guṇānām acetanatvān na pravartate |

1.24१.२४

प्रवर्तत एव । (१।२४)

pravartata eva |

1.25१.२५

कथम् । (१।२५)

katham |

1.26१.२६

वक्ष्यतीहैव । (१।२६)

vakṣyatīhaiva |

1.27१.२७

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिर् अज्ञस्य । (१।२७)

vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya |

1.28१.२८

पुरुषस्य विमोक्षार्थं तथा प्रवृत्तिः प्रधानस्य ॥ (१।२८)

puruṣasya vimokṣārthaṃ tathā pravṛttiḥ pradhānasya ||

2.1२.१

एवम् अचेतना गुणा एकादशेन्द्रियभावेन प्रवर्तन्ते । (२।१)

evam acetanā guṇā ekādaśendriyabhāvena pravartante |

2.2२.२

विशेषा अपि तत्कृता एव । (२।२)

viśeṣā api tatkṛtā eva |

2.3२.३

येनोच्चैः प्रदेशे चक्षुर् अवलोकनाय स्थितं तथा घ्राणं तथा श्रोत्रं तथा जिह्वा स्वदेशे स्वार्थग्रहणाय । (२।३)

yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya |

2.4२.४

एवं कर्मेन्द्रियाण्यपि यथायथं स्वार्थसमर्थानि स्वदेशावस्थितानि स्वभावतो गुणपरिणामविशेषाद् एव न तदर्था अपि । (२।४)

evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api |

2.5२.५

यत उक्तं शास्त्रन्तरे गुणा गुणेषु वर्तन्ते । (२।५)

yata uktaṃ śāstrantare guṇā guṇeṣu vartante |

2.6२.६

गुणानां या वृत्तिः सा गुणविषया एवेति बाह्यार्था विज्ञेया गुणकृता एवेत्यर्थः प्रधानं यस्य कारणम् इति । (२।६)

guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti |

2.7२.७

अथेन्द्रियस्य कस्य का वृत्तिर् इत्युच्यते ॥ (२।७)

athendriyasya kasya kā vṛttir ityucyate ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 27.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit