सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 22.2

22 of 70 · 32 verses

Select a line for its word-by-word analysis.

1.1१.१

प्रकृतिः प्रधानं ब्रह्माव्यक्तं बहुधात्मकं मायेति पर्यायाः । (१।१)

prakṛtiḥ pradhānaṃ brahmāvyaktaṃ bahudhātmakaṃ māyeti paryāyāḥ |

1.2१.२

अलिङ्गस्य प्रकृतेः सकाशान्महान् उत्पद्यते । (१।२)

aliṅgasya prakṛteḥ sakāśānmahān utpadyate |

1.3१.३

महान् बुद्धिर् आसुरी मतिः ख्यातिर् ज्ञानम् इति प्रज्ञापर्यायैर् उत्पद्यते । (१।३)

mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate |

1.4१.४

तस्माच्च महतो ऽहंकार उत्पद्यते । (१।४)

tasmācca mahato 'haṃkāra utpadyate |

1.5१.५

अहंकारो भूतादिर् वैकृतस् तैजसो ऽभिमान इति पर्यायाः । (१।५)

ahaṃkāro bhūtādir vaikṛtas taijaso 'bhimāna iti paryāyāḥ |

1.6१.६

तस्माद् गणश्च षोडशकः । (१।६)

tasmād gaṇaśca ṣoḍaśakaḥ |

1.7१.७

तस्माद् अहंकारात् षोडशकः षोडशकस्वरूपो गण उत्पद्यते । (१।७)

tasmād ahaṃkārāt ṣoḍaśakaḥ ṣoḍaśakasvarūpo gaṇa utpadyate |

1.8१.८

स यथा पञ्च तन्मात्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रम् इति । (१।८)

sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti |

1.9१.९

तत एकादशेन्द्रियाणि । (१।९)

tata ekādaśendriyāṇi |

1.10१.१०

श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् इति पञ्च बुद्धीन्द्रियाणि । (१।१०)

śrotraṃ tvak cakṣuṣī jihvā ghrāṇam iti pañca buddhīndriyāṇi |

1.11१.११

वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि । (१।११)

vākpāṇipādapāyūpasthāḥ pañca karmendriyāṇi |

1.12१.१२

उभयात्मकम् एकादशं मनः । (१।१२)

ubhayātmakam ekādaśaṃ manaḥ |

1.13१.१३

एष षोडशको गणो ऽहंकाराद् उत्पद्यते । (१।१३)

eṣa ṣoḍaśako gaṇo 'haṃkārād utpadyate |

1.14१.१४

किंच पञ्चभ्यः पञ्च भूतानि । (१।१४)

kiṃca pañcabhyaḥ pañca bhūtāni |

1.15१.१५

तस्मात् षोडशकाद् गणात् पञ्चभ्यस् तन्मात्रेभ्यः सकाशात् पञ्च वै महाभूतान्युत्पद्यन्ते । (१।१५)

tasmāt ṣoḍaśakād gaṇāt pañcabhyas tanmātrebhyaḥ sakāśāt pañca vai mahābhūtānyutpadyante |

1.16१.१६

यद् उक्तं शब्दतन्मात्राद् आकाशं स्पर्शतन्मात्राद् वायू रूपतन्मात्रात् तेजो रसतन्मात्राद् आपो गन्धतन्मात्रात् पृथिवी । (१।१६)

yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī |

1.17१.१७

एवं पञ्चभ्यः परमाणुभ्यः पञ्च महाभूतान्य् उत्पद्यन्ते । (१।१७)

evaṃ pañcabhyaḥ paramāṇubhyaḥ pañca mahābhūtāny utpadyante |

1.18१.१८

यद् उक्तम् । (१।१८)

yad uktam |

1.19१.१९

व्यक्ताव्यक्तज्ञविज्ञानान्मोक्ष इति । (१।१९)

vyaktāvyaktajñavijñānānmokṣa iti |

1.20१.२०

तत्र महदादिभूतान्तं त्रयोविंशतिभेदं व्याख्यातम् । (१।२०)

tatra mahadādibhūtāntaṃ trayoviṃśatibhedaṃ vyākhyātam |

1.21१.२१

अव्यक्तम् अपि भेदानां परिमाणाद् इत्यादिना व्याख्यातम् । (१।२१)

avyaktam api bhedānāṃ parimāṇād ityādinā vyākhyātam |

1.22१.२२

पुरुषो ऽपि संघातपरार्थत्वाद् इत्यादिभिर् हेतुभिर् व्याख्यातः । (१।२२)

puruṣo 'pi saṃghātaparārthatvād ityādibhir hetubhir vyākhyātaḥ |

1.23१.२३

एवम् एतानि पञ्चविंशतितत्त्वानि । (१।२३)

evam etāni pañcaviṃśatitattvāni |

1.24१.२४

यस् तैस् त्रैलोक्यं व्याप्तं जानाति । (१।२४)

yas tais trailokyaṃ vyāptaṃ jānāti |

1.25१.२५

तस्य भावो ऽस्तित्वं तत्त्वम् । (१।२५)

tasya bhāvo 'stitvaṃ tattvam |

1.26१.२६

यथोक्तम् । (१।२६)

yathoktam |

1.27१.२७

पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः । (१।२७)

pañcaviṃśatitattvajño yatra kutrāśrame rataḥ |

1.28१.२८

जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ (१।२८)

jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ ||

2.1२.१

तानि यथा प्रकृतिः पुरुषो बुद्धिर् अहंकारः पञ्च तन्मात्राण्येकादशेन्द्रियाणि पञ्च महाभूतानीति पञ्चविंशतितत्त्वानि । (२।१)

tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni |

2.2२.२

तत्रोक्तं प्रकृतेर् महान् उत्पद्यते । (२।२)

tatroktaṃ prakṛter mahān utpadyate |

2.3२.३

तस्य किं लक्षणम् । (२।३)

tasya kiṃ lakṣaṇam |

2.4२.४

एतद् आह ॥ (२।४)

etad āha ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 22.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit