सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 2.2

2 of 70 · 29 verses

Select a line for its word-by-word analysis.

1.1१.१

दृष्टवद् आनुश्रविक इति । (१।१)

dṛṣṭavad ānuśravika iti |

1.2१.२

दृष्टेन तुल्यो दृष्टवत् । (१।२)

dṛṣṭena tulyo dṛṣṭavat |

1.3१.३

यो ऽसाव् आनुश्रविकः कस्मात् स दृष्टवत् । (१।३)

yo 'sāv ānuśravikaḥ kasmāt sa dṛṣṭavat |

1.4१.४

यस्माद् अविशुद्धिक्षयातिशययुक्तः । (१।४)

yasmād aviśuddhikṣayātiśayayuktaḥ |

1.5१.५

अविशुद्धियुक्तः पशुघातात् । (१।५)

aviśuddhiyuktaḥ paśughātāt |

1.6१.६

तथा चोक्तम् । (१।६)

tathā coktam |

1.7१.७

षट् शतानि नियुज्यन्ते पशूनाम् मध्यमे ऽहनि । (१।७)

ṣaṭ śatāni niyujyante paśūnām madhyame 'hani |

1.8१.८

अश्वमेधस्य वचनाद् ऊनानि पशुभिस् त्रिभिः ॥ (१।८)

aśvamedhasya vacanād ūnāni paśubhis tribhiḥ ||

2.1२.१

यद्य् अपि श्रुतिस्मृतिविहितो धर्मस् तथापि मिश्रीभावाद् अविशुद्धियुक्त इति । (२।१)

yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti |

2.2२.२

यथा । (२।२)

yathā |

2.3२.३

बहूनीन्द्रसहस्राणि देवानां च युगे युगे । (२।३)

bahūnīndrasahasrāṇi devānāṃ ca yuge yuge |

2.4२.४

कालेन समतीतानि कालो हि दुरतिक्रमः ॥ (२।४)

kālena samatītāni kālo hi duratikramaḥ ||

3.1३.१

एवम् इन्द्रादिनाशात् क्षययुक्तः । (३।१)

evam indrādināśāt kṣayayuktaḥ |

3.2३.२

तथातिशयो विशेषस् तेन युक्तः । (३।२)

tathātiśayo viśeṣas tena yuktaḥ |

3.3३.३

विशेषगुणदर्शनाद् इतरस्य दुःखं स्याद् इति । (३।३)

viśeṣaguṇadarśanād itarasya duḥkhaṃ syād iti |

3.4३.४

एवम् आनुश्रविको ऽपि हेतुर् दृष्टवत् । (३।४)

evam ānuśraviko 'pi hetur dṛṣṭavat |

3.5३.५

कस् तर्हि श्रेयान् इति चेत् । (३।५)

kas tarhi śreyān iti cet |

3.6३.६

उच्यते । (३।६)

ucyate |

3.7३.७

तद्विपरीतः श्रेयान् ताभ्यां दृष्टानुश्रविकाभ्याम् विपरीतः श्रेयान् प्रशस्यतर इत्य् अविशुद्धिक्षयातिशययुक्तत्वात् । (३।७)

tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt |

3.8३.८

स कथम् इत्य् आह । (३।८)

sa katham ity āha |

3.9३.९

व्यक्ताव्यक्तज्ञविज्ञानात् । (३।९)

vyaktāvyaktajñavijñānāt |

3.10३.१०

तत्र व्यक्तं महदादि बुद्धिर् अहंकारः पञ्च तन्मात्राण्य् एकदशेन्द्रियाणि पञ्च महाभूतानि । (३।१०)

tatra vyaktaṃ mahadādi buddhir ahaṃkāraḥ pañca tanmātrāṇy ekadaśendriyāṇi pañca mahābhūtāni |

3.11३.११

अव्यक्तम् प्रधानम् । (३।११)

avyaktam pradhānam |

3.12३.१२

ज्ञः पुरुषः । (३।१२)

jñaḥ puruṣaḥ |

3.13३.१३

एवम् एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञः कथ्यन्ते । (३।१३)

evam etāni pañcaviṃśatitattvāni vyaktāvyaktajñaḥ kathyante |

3.14३.१४

एतद्विज्ञानाच्छ्रेय इति । (३।१४)

etadvijñānācchreya iti |

3.15३.१५

उक्तं च । (३।१५)

uktaṃ ca |

3.16३.१६

पञ्चविंशतितत्त्वज्ञ इत्यादि । (३।१६)

pañcaviṃśatitattvajña ityādi |

3.17३.१७

अथ व्यक्ताव्यक्तज्ञानां को विशेष इत्य् उच्यते ॥ (३।१७)

atha vyaktāvyaktajñānāṃ ko viśeṣa ity ucyate ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 2.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit