सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya

SKBh zu SāṃKār, 44.2

44 of 70 · 16 verses

Select a line for its word-by-word analysis.

1.1१.१

धर्मेण गमनम् ऊर्ध्वम् । (१।१)

dharmeṇa gamanam ūrdhvam |

1.2१.२

धर्मं निमित्तं कृत्वोर्ध्वम् उपयाति । (१।२)

dharmaṃ nimittaṃ kṛtvordhvam upayāti |

1.3१.३

ऊर्ध्वम् इत्यष्टौ स्थानानि गृह्यन्ते तद् यथा ब्राह्मं प्राजापत्यं सौम्यम् ऐन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचम् इति । (१।३)

ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti |

1.4१.४

तत् सूक्ष्मशरीरं गच्छति । (१।४)

tat sūkṣmaśarīraṃ gacchati |

1.5१.५

पशुमृगपक्षिसरीसृपस्थावरान्तेष्वधर्मो निमित्तम् । (१।५)

paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam |

1.6१.६

किंच ज्ञानेन चापवर्गः । (१।६)

kiṃca jñānena cāpavargaḥ |

1.7१.७

अपवर्गश्च पञ्चविंशतितत्त्वज्ञानम् । (१।७)

apavargaśca pañcaviṃśatitattvajñānam |

1.8१.८

तेन निमित्तेनापवर्गो मोक्षः । (१।८)

tena nimittenāpavargo mokṣaḥ |

1.9१.९

ततः सूक्ष्मशरीरं निवर्तते परमात्मोच्यते । (१।९)

tataḥ sūkṣmaśarīraṃ nivartate paramātmocyate |

1.10१.१०

विपर्ययाद् इष्यते बन्धम् । (१।१०)

viparyayād iṣyate bandham |

1.11१.११

अज्ञानं निमित्तम् । (१।११)

ajñānaṃ nimittam |

1.12१.१२

स चैव नैमित्तिकः प्राकृतो वैकारिको दाक्षिणिकश्च बन्ध इति वक्ष्यति पुरस्तात् । (१।१२)

sa caiva naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt |

1.13१.१३

यद् इदम् उक्तम् । (१।१३)

yad idam uktam |

1.14१.१४

प्राकृतेन च बन्धेन तथा वैकारिकेण च । (१।१४)

prākṛtena ca bandhena tathā vaikārikeṇa ca |

1.15१.१५

दाक्षिणेन तृतीयेन बद्धो नान्येन मुच्यते ॥ (१।१५)

dākṣiṇena tṛtīyena baddho nānyena mucyate ||

2.1२.१

तथान्यद् अपि निमित्तम् ॥ (२।१)

tathānyad api nimittam ||

Data courtesy of The Digital Corpus of Sanskrit.

SKBh zu SāṃKār, 44.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit