सांख्यकारिकाभाष्यSāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 34.2
Select a line for its word-by-word analysis.
बुद्धीन्द्रियाणि तानि सविशेषं विषयं गृह्णन्ति । (१।१)
buddhīndriyāṇi tāni saviśeṣaṃ viṣayaṃ gṛhṇanti |
सविशेषविषयं मानुषाणां शब्दस्पर्शरूपरसगन्धान् सुखदुःखमोहयुक्तान् बुद्धीन्द्रियाणि प्रकाशयन्ति । (१।२)
saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti |
तथा कर्मेन्द्रियाणां मध्ये वाग् भवति शब्दविषया । (१।४)
tathā karmendriyāṇāṃ madhye vāg bhavati śabdaviṣayā |
देवानां मानुषाणां च वाग् वदति श्लोकादीन् उच्चारयति । (१।५)
devānāṃ mānuṣāṇāṃ ca vāg vadati ślokādīn uccārayati |
तस्माद् देवानां मानुषाणां च वागिन्द्रियं तुल्यम् । (१।६)
tasmād devānāṃ mānuṣāṇāṃ ca vāgindriyaṃ tulyam |
शेषाण्यपि वाग्व्यतिरिक्तानि पाणिपादपायूपस्थसंज्ञितानि पञ्चविषयाणि । (१।७)
śeṣāṇyapi vāgvyatiriktāni pāṇipādapāyūpasthasaṃjñitāni pañcaviṣayāṇi |
पञ्च विषयाः शब्दादयो येषां तानि पञ्चविषयाणि । (१।८)
pañca viṣayāḥ śabdādayo yeṣāṃ tāni pañcaviṣayāṇi |
पाय्विन्द्रियं पञ्चकॢप्तम् उत्सर्गं करोति । (१।११)
pāyvindriyaṃ pañcakḷptam utsargaṃ karoti |
तथोपस्थेन्द्रियं पञ्चलक्षणं शुक्रम् आनन्दयति ॥ (१।१२)
tathopasthendriyaṃ pañcalakṣaṇaṃ śukram ānandayati ||
Data courtesy of The Digital Corpus of Sanskrit.