Ṛk 2.34.10
Saṃhitā
चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः ।
यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः ॥
चित्रं तद् वो मरुतो याम चेकिते पृश्न्या यद् ऊधर् अप्य् आपयो दुहुः |
यद् वा निदे नवमानस्य रुद्रियास् त्रितं जराय जुरताम् अदाभ्याः ||
citrám tádvo maruto yā́ma cekite pṛ́śnyā yádū́dharápyāpáyo duhúḥ ǀ
yádvā nidé návamānasya rudriyāstritám járāya juratā́madābhyāḥ ǁ
citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ |
yad vā nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ ||
Padapāṭha
चि॒त्रम् । तत् । वः॒ । म॒रु॒तः॒ । याम॑ । चे॒कि॒ते॒ । पृश्न्याः॑ । यत् । ऊधः॑ । अपि॑ । आ॒पयः॑ । दु॒हुः ।
यत् । वा॒ । नि॒दे । नव॑मानस्य । रु॒द्रि॒याः॒ । त्रि॒तम् । जरा॑य । जु॒र॒ताम् । अ॒दा॒भ्याः॒ ॥
चित्रम् । तत् । वः । मरुतः । याम । चेकिते । पृश्न्याः । यत् । ऊधः । अपि । आपयः । दुहुः ।
यत् । वा । निदे । नवमानस्य । रुद्रियाः । त्रितम् । जराय । जुरताम् । अदाभ्याः ॥
citrám ǀ tát ǀ vaḥ ǀ marutaḥ ǀ yā́ma ǀ cekite ǀ pṛ́śnyāḥ ǀ yát ǀ ū́dhaḥ ǀ ápi ǀ āpáyaḥ ǀ duhúḥ ǀ
yát ǀ vā ǀ nidé ǀ návamānasya ǀ rudriyāḥ ǀ tritám ǀ járāya ǀ juratā́m ǀ adābhyāḥ ǁ
citram ǀ tat ǀ vaḥ ǀ marutaḥ ǀ yāma ǀ cekite ǀ pṛśnyāḥ ǀ yat ǀ ūdhaḥ ǀ api ǀ āpayaḥ ǀ duhuḥ ǀ
yat ǀ vā ǀ nide ǀ navamānasya ǀ rudriyāḥ ǀ tritam ǀ jarāya ǀ juratām ǀ adābhyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.034.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.20.05
- Maṇḍala · Anuvāka · Ṛk
- 02.04.025
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.