Ṛk 2.34.14
Saṃhitā
ताँ इ॑या॒नो महि॒ वरू॑थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि ।
त्रि॒तो न यान्पंच॒ होतॄ॑न॒भिष्ट॑य आव॒वर्त॒दव॑रांच॒क्रियाव॑से ॥
तां इयानो महि वरूथम् ऊतय उप घेद् एना नमसा गृणीमसि |
त्रितो न यान् पञ्च होतॄन् अभिष्टय आववर्तद् अवराञ् चक्रियावसे ||
tā́m̐ iyānó máhi várūthamūtáya úpa ghédenā́ námasā gṛṇīmasi ǀ
tritó ná yā́npáñca hótṝnabhíṣṭaya āvavártadávarāñcakríyā́vase ǁ
tāṃ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi |
trito na yān pañca hotṝn abhiṣṭaya āvavartad avarāñ cakriyāvase ||
Padapāṭha
तान् । इ॒या॒नः । महि॑ । वरू॑थम् । ऊ॒तये॑ । उप॑ । घ॒ । इत् । ए॒ना । नम॑सा । गृ॒णी॒म॒सि॒ ।
त्रि॒तः । न । यान् । पञ्च॑ । होतॄ॑न् । अ॒भिष्ट॑ये । आ॒ऽव॒वर्त॑त् । अव॑रान् । च॒क्रिया॑ । अव॑से ॥
तान् । इयानः । महि । वरूथम् । ऊतये । उप । घ । इत् । एना । नमसा । गृणीमसि ।
त्रितः । न । यान् । पञ्च । होतॄन् । अभिष्टये । आऽववर्तत् । अवरान् । चक्रिया । अवसे ॥
tā́n ǀ iyānáḥ ǀ máhi ǀ várūtham ǀ ūtáye ǀ úpa ǀ gha ǀ ít ǀ enā́ ǀ námasā ǀ gṛṇīmasi ǀ
tritáḥ ǀ ná ǀ yā́n ǀ páñca ǀ hótṝn ǀ abhíṣṭaye ǀ ā-vavártat ǀ ávarān ǀ cakríyā ǀ ávase ǁ
tān ǀ iyānaḥ ǀ mahi ǀ varūtham ǀ ūtaye ǀ upa ǀ gha ǀ it ǀ enā ǀ namasā ǀ gṛṇīmasi ǀ
tritaḥ ǀ na ǀ yān ǀ pañca ǀ hotṝn ǀ abhiṣṭaye ǀ ā-vavartat ǀ avarān ǀ cakriyā ǀ avase ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.034.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.21.04
- Maṇḍala · Anuvāka · Ṛk
- 02.04.029
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.