Ṛk 2.34.12
Saṃhitā
ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वंतू॒षसो॒ व्यु॑ष्टिषु ।
उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा ॥
ते दशग्वाः प्रथमा यज्ञम् ऊहिरे ते नो हिन्वन्तूषसो व्युष्टिषु |
उषा न रामीर् अरुणैर् अपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ||
té dáśagvāḥ prathamā́ yajñámūhire té no hinvantūṣáso vyúṣṭiṣu ǀ
uṣā́ ná rāmī́raruṇáiráporṇute mahó jyótiṣā śucatā́ góarṇasā ǁ
te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu |
uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā ||
Padapāṭha
ते । दश॑ऽग्वाः । प्र॒थ॒माः । य॒ज्ञम् । ऊ॒हि॒रे॒ । ते । नः॒ । हि॒न्व॒न्तु॒ । उ॒षसः॑ । विऽउ॑ष्टिषु ।
उ॒षाः । न । रा॒मीः । अ॒रु॒णैः । अप॑ । ऊ॒र्णु॒ते॒ । म॒हः । ज्योति॑षा । शु॒च॒ता । गोऽअ॑र्णसा ॥
ते । दशऽग्वाः । प्रथमाः । यज्ञम् । ऊहिरे । ते । नः । हिन्वन्तु । उषसः । विऽउष्टिषु ।
उषाः । न । रामीः । अरुणैः । अप । ऊर्णुते । महः । ज्योतिषा । शुचता । गोऽअर्णसा ॥
té ǀ dáśa-gvāḥ ǀ prathamā́ḥ ǀ yajñám ǀ ūhire ǀ té ǀ naḥ ǀ hinvantu ǀ uṣásaḥ ǀ ví-uṣṭiṣu ǀ
uṣā́ḥ ǀ ná ǀ rāmī́ḥ ǀ aruṇáiḥ ǀ ápa ǀ ūrṇute ǀ maháḥ ǀ jyótiṣā ǀ śucatā́ ǀ gó-arṇasā ǁ
te ǀ daśa-gvāḥ ǀ prathamāḥ ǀ yajñam ǀ ūhire ǀ te ǀ naḥ ǀ hinvantu ǀ uṣasaḥ ǀ vi-uṣṭiṣu ǀ
uṣāḥ ǀ na ǀ rāmīḥ ǀ aruṇaiḥ ǀ apa ǀ ūrṇute ǀ mahaḥ ǀ jyotiṣā ǀ śucatā ǀ go-arṇasā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.034.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.21.02
- Maṇḍala · Anuvāka · Ṛk
- 02.04.027
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.