Ṛk 2.34.7
Saṃhitā
तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे ।
इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ॥
तं नो दात मरुतो वाजिनं रथ आपानम् ब्रह्म चितयद् दिवे-दिवे |
इषं स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधाम् अरिष्टं दुष्टरं सहः ||
tám no dāta maruto vājínam rátha āpānám bráhma citáyaddivédive ǀ
íṣam stotṛ́bhyo vṛjáneṣu kāráve saním medhā́máriṣṭam duṣṭáram sáhaḥ ǁ
taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive-dive |
iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ ||
Padapāṭha
तम् । नः॒ । दा॒त॒ । म॒रु॒तः॒ । वा॒जिन॑म् । रथे॑ । आ॒पा॒नम् । ब्रह्म॑ । चि॒तय॑त् । दि॒वेऽदि॑वे ।
इष॑म् । स्तो॒तृऽभ्यः॑ । वृ॒जने॑षु । का॒रवे॑ । स॒निम् । मे॒धाम् । अरि॑ष्टम् । दु॒स्तर॑म् । सहः॑ ॥
तम् । नः । दात । मरुतः । वाजिनम् । रथे । आपानम् । ब्रह्म । चितयत् । दिवेऽदिवे ।
इषम् । स्तोतृऽभ्यः । वृजनेषु । कारवे । सनिम् । मेधाम् । अरिष्टम् । दुस्तरम् । सहः ॥
tám ǀ naḥ ǀ dāta ǀ marutaḥ ǀ vājínam ǀ ráthe ǀ āpānám ǀ bráhma ǀ citáyat ǀ divé-dive ǀ
íṣam ǀ stotṛ́-bhyaḥ ǀ vṛjáneṣu ǀ kāráve ǀ saním ǀ medhā́m ǀ áriṣṭam ǀ dustáram ǀ sáhaḥ ǁ
tam ǀ naḥ ǀ dāta ǀ marutaḥ ǀ vājinam ǀ rathe ǀ āpānam ǀ brahma ǀ citayat ǀ dive-dive ǀ
iṣam ǀ stotṛ-bhyaḥ ǀ vṛjaneṣu ǀ kārave ǀ sanim ǀ medhām ǀ ariṣṭam ǀ dustaram ǀ sahaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.034.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.20.02
- Maṇḍala · Anuvāka · Ṛk
- 02.04.022
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.