Ṛk 2.34.8
Saṃhitā
यद्युं॒जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः ।
धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिषं॑ ॥
यद् युञ्जते मरुतो रुक्मवक्षसो ऽश्वान् रथेषु भग आ सुदानवः |
धेनुर् न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीम् इषम् ||
yádyuñjáte marúto rukmávakṣasó’śvānrátheṣu bhága ā́ sudā́navaḥ ǀ
dhenúrná śíśve svásareṣu pinvate jánāya rātáhaviṣe mahī́míṣam ǁ
yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ |
dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam ||
Padapāṭha
यत् । यु॒ञ्जते॑ । म॒रुतः॑ । रु॒क्मऽव॑क्षसः । अश्वा॑न् । रथे॑षु । भगे॑ । आ । सु॒ऽदान॑वः ।
धे॒नुः । न । शिश्वे॑ । स्वस॑रेषु । पि॒न्व॒ते॒ । जना॑य । रा॒तऽह॑विषे । म॒हीम् । इष॑म् ॥
यत् । युञ्जते । मरुतः । रुक्मऽवक्षसः । अश्वान् । रथेषु । भगे । आ । सुऽदानवः ।
धेनुः । न । शिश्वे । स्वसरेषु । पिन्वते । जनाय । रातऽहविषे । महीम् । इषम् ॥
yát ǀ yuñjáte ǀ marútaḥ ǀ rukmá-vakṣasaḥ ǀ áśvān ǀ rátheṣu ǀ bháge ǀ ā́ ǀ su-dā́navaḥ ǀ
dhenúḥ ǀ ná ǀ śíśve ǀ svásareṣu ǀ pinvate ǀ jánāya ǀ rātá-haviṣe ǀ mahī́m ǀ íṣam ǁ
yat ǀ yuñjate ǀ marutaḥ ǀ rukma-vakṣasaḥ ǀ aśvān ǀ ratheṣu ǀ bhage ǀ ā ǀ su-dānavaḥ ǀ
dhenuḥ ǀ na ǀ śiśve ǀ svasareṣu ǀ pinvate ǀ janāya ǀ rāta-haviṣe ǀ mahīm ǀ iṣam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.034.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.20.03
- Maṇḍala · Anuvāka · Ṛk
- 02.04.023
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.