ViSmṛ, 43
Select a line for its word-by-word analysis.
एतेष्व् अकृतप्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते ॥ (२३।१)
eteṣv akṛtaprāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante ||
याम्यं पन्थानम् आसाद्य दुःखम् अश्नन्ति दारुणम् ॥ (३२।२)
yāmyaṃ panthānam āsādya duḥkham aśnanti dāruṇam ||
यमस्य पुरुषैर् घोरैः कृष्यमाणा यतस् ततः । (३३।१)
yamasya puruṣair ghoraiḥ kṛṣyamāṇā yatas tataḥ |
श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः । (३४।१)
śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ |
अग्नितुण्डैर् भक्ष्यमाणा भुजङ्गैर् वृश्चिकैस् तथा ॥ (३४।२)
agnituṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā ||
अग्निना दह्यमानाश् च तुद्यमानाश् च कण्टकैः । (३५।१)
agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ |
क्रकचैः पाट्यमानाश् च पीड्यमानाश् च तृष्णया ॥ (३५।२)
krakacaiḥ pāṭyamānāś ca pīḍyamānāś ca tṛṣṇayā ||
क्षुधया व्यथमानाश् च घोरैर् व्याघ्रगणैस् तथा । (३६।१)
kṣudhayā vyathamānāś ca ghorair vyāghragaṇais tathā |
परान्नपानं लिप्सन्तस् ताड्यमानाश् च किंकरैः । (३७।१)
parānnapānaṃ lipsantas tāḍyamānāś ca kiṃkaraiḥ |
क्वचित् तैलेन क्वाथ्यन्ते ताड्यन्ते मुसलैः क्वचित् । (३८।१)
kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit |
आयसीषु च वट्यन्ते शिलासु च तथा क्वचित् ॥ (३८।२)
āyasīṣu ca vaṭyante śilāsu ca tathā kvacit ||
क्वचिद् वान्तम् अथाश्नन्ति क्वचित् पूयम् असृक् क्वचित् । (३९।१)
kvacid vāntam athāśnanti kvacit pūyam asṛk kvacit |
क्वचिद् विष्ठां क्वचिन् मांसं पूयगन्धि सुदारुणम् ॥ (३९।२)
kvacid viṣṭhāṃ kvacin māṃsaṃ pūyagandhi sudāruṇam ||
अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित् । (४०।१)
andhakāreṣu tiṣṭhanti dāruṇeṣu tathā kvacit |
क्रिमिभिर् भक्ष्यमाणाश् च वह्नितुण्डैः सुदारुणैः ॥ (४०।२)
krimibhir bhakṣyamāṇāś ca vahnituṇḍaiḥ sudāruṇaiḥ ||
क्वचिच्छीतेन बाध्यन्ते क्वचित् चामेध्यमध्यगाः । (४१।१)
kvacicchītena bādhyante kvacit cāmedhyamadhyagāḥ |
परस्परम् अथाश्नन्ति क्वचित् प्रेताः सुदारुणाः ॥ (४१।२)
parasparam athāśnanti kvacit pretāḥ sudāruṇāḥ ||
क्वचिद् भूतेन ताड्यन्ते लम्बमानास् तथा क्वचित् । (४२।१)
kvacid bhūtena tāḍyante lambamānās tathā kvacit |
क्वचित् क्षिप्यन्ति बाणौघैर् उत्कृत्यन्ते तथा क्वचित् ॥ (४२।२)
kvacit kṣipyanti bāṇaughair utkṛtyante tathā kvacit ||
कण्टेषु दत्तपादाश् च भुजङ्गाभोगवेष्टिताः । (४३।१)
kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ |
पीड्यमानास् तथा यन्त्रैः कृष्यमाणाश् च जानुभिः ॥ (४३।२)
pīḍyamānās tathā yantraiḥ kṛṣyamāṇāś ca jānubhiḥ ||
भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः । (४४।१)
bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ |
कूटागारप्रमाणैश् च शरीरैर् यातनाक्षमैः ॥ (४४।२)
kūṭāgārapramāṇaiś ca śarīrair yātanākṣamaiḥ ||
तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ॥ (४५।२)
tiryagyonau prapadyante duḥkhāni vividhāni ca ||
Data courtesy of The Digital Corpus of Sanskrit.