ViSmṛ, 46
Select a line for its word-by-word analysis.
त्र्यहं सायं त्र्यहं प्रातस् त्र्यहम् अयाचितम् अश्नीयात् । (१०।१)
tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt |
त्र्यहम् उष्णाः पिबेद् अपस् त्र्यहम् उष्णं घृतं त्र्यहम् उष्णं पयस् त्र्यहं च नाश्नीयाद् एष तप्तकृच्छ्रः ॥ (११।१)
tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ ||
कृच्छ्रातिकृच्छ्रः पयसा दिवसैकविंशतिक्षपणम् ॥ (१३।१)
kṛcchrātikṛcchraḥ payasā divasaikaviṃśatikṣapaṇam ||
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकान्य् एकदिवसम् अश्नीयात् । (१९।१)
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt |
गोमूत्रादिभिः प्रत्यहम् अभ्यस्तैर् महासांतपनम् ॥ (२०।१)
gomūtrādibhiḥ pratyaham abhyastair mahāsāṃtapanam ||
पिण्याकाचामतक्रोदकसक्तूनाम् उपवासान्तरितो ऽभ्यवहारस् तुलापुरुषः ॥ (२२।१)
piṇyākācāmatakrodakasaktūnām upavāsāntarito 'bhyavahāras tulāpuruṣaḥ ||
कुशपलाशोदुम्बरपद्मशङ्खपुष्पीवटब्राह्मीसुवर्चलापत्रैः क्वथितस्याम्भसः प्रत्येकं पानेन पर्णकृच्छ्रः ॥ (२३।१)
kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ ||
कृच्छ्राण्य् एतानि सर्वाणि कुर्वीत कृतवापनः । (२४।१)
kṛcchrāṇy etāni sarvāṇi kurvīta kṛtavāpanaḥ |
नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः ॥ (२४।२)
nityaṃ triṣavaṇasnāyī adhaḥśāyī jitendriyaḥ ||
स्त्रीशूद्रपतितानां च वर्जयेच् चातिभाषणम् । (२५।१)
strīśūdrapatitānāṃ ca varjayec cātibhāṣaṇam |
पवित्राणि जपेन् नित्यं जुहुयाच् चैव शक्तितः ॥ (२५।२)
pavitrāṇi japen nityaṃ juhuyāc caiva śaktitaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.