1.1१.१सततम् आदित्ये ऽह्नि श्राद्धं कुर्वन्न् आरोग्यम् आप्नोति ॥ (१।१)
satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti ||
2.1२.१सौभाग्यं चान्द्रे ॥ (२।१)
4.1४.१सर्वान् कामान् बौधे ॥ (४।१)
5.1५.१विद्याम् अभीष्टां जैवे ॥ (५।१)
8.1८.१स्वर्गं कृत्तिकासु ॥ (८।१)
10.1१०.१ब्रह्मवर्चस्यं सौम्ये ॥ (१०।१)
brahmavarcasyaṃ saumye ||
15.1१५.१सर्वान् कामान् पैत्र्ये ॥ (१५।१)
19.1१९.१रूपवतः सुतांस् त्वाष्ट्रे ॥ (१९।१)
rūpavataḥ sutāṃs tvāṣṭre ||
25.1२५.१समुद्रयानसिद्धिम् आप्ये ॥ (२५।१)
samudrayānasiddhim āpye ||
26.1२६.१सर्वान् कामान् वैश्वदेवे ॥ (२६।१)
sarvān kāmān vaiśvadeve ||
36.1३६.१गृहं सुरूपाः स्त्रियः प्रतिपदि ॥ (३६।१)
gṛhaṃ surūpāḥ striyaḥ pratipadi ||
37.1३७.१कन्यां वरदां द्वितीयायाम् ॥ (३७।१)
kanyāṃ varadāṃ dvitīyāyām ||
38.1३८.१सर्वान् कामांस् तृतीयायाम् ॥ (३८।१)
sarvān kāmāṃs tṛtīyāyām ||
40.1४०.१सुरूपान् सुतान् पञ्चम्याम् ॥ (४०।१)
surūpān sutān pañcamyām ||
46.1४६.१पुत्रान् ब्रह्मवर्चस्विन एकादश्याम् ॥ (४६।१)
putrān brahmavarcasvina ekādaśyām ||
47.1४७.१कनकरजतं द्वादश्याम् ॥ (४७।१)
kanakarajataṃ dvādaśyām ||
48.1४८.१सौभाग्यं त्रयोदश्याम् ॥ (४८।१)
saubhāgyaṃ trayodaśyām ||
49.1४९.१सर्वान् कामान् पञ्चदश्याम् ॥ (४९।१)
sarvān kāmān pañcadaśyām ||
50.1५०.१शस्त्रहतानां श्राद्धकर्मणि चतुर्दशी शस्ता ॥ (५०।१)
śastrahatānāṃ śrāddhakarmaṇi caturdaśī śastā ||
51.1५१.१अपि पितृगीते गाथे भवतः ॥ (५१।१)
api pitṛgīte gāthe bhavataḥ ||
52.1५२.१अपि जायेत सो ऽस्माकं कुले कश्चिन् नरोत्तमः । (५२।१)
api jāyeta so 'smākaṃ kule kaścin narottamaḥ |
52.2५२.२प्रावृट्काले ऽसिते पक्षे त्रयोदश्यां समाहितः ॥ (५२।२)
prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ ||
53.1५३.१मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् । (५३।१)
madhūtkaṭena yaḥ śrāddhaṃ pāyasena samācaret |
53.2५३.२कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च ॥ (५३।२)
kārttikaṃ sakalaṃ māsaṃ prākchāye kuñjarasya ca ||
Data courtesy of The Digital Corpus of Sanskrit.