ViSmṛ, 50
Select a line for its word-by-word analysis.
स्वकर्म चाचक्षाणो ग्रामे ग्रामे भैक्ष्यम् आचरेत् ॥ (३।१)
svakarma cācakṣāṇo grāme grāme bhaikṣyam ācaret ||
नृपतिवधे महाव्रतम् एव द्विगुणं कुर्यात् ॥ (११।१)
nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt ||
गोव्रतमासम् एकं कृतवापनो गवाम् अनुगमनं कुर्यात् ॥ (१६।१)
govratamāsam ekaṃ kṛtavāpano gavām anugamanaṃ kuryāt ||
तासां शीतादित्राणम् अकृत्वा नात्मनः कुर्यात् ॥ (२१।१)
tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt ||
पेनन्चे ड़ोर् किल्लिन्ग् दिड़्ड़्। अनिमल्स्गजं हत्वा पञ्च नीलवृषभान् दद्यात् ॥ (२५।१)
penance for killing diff. animalsgajaṃ hatvā pañca nīlavṛṣabhān dadyāt ||
हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणाम् अन्यतमम् उपोषितः कृसरं ब्राह्मणं भोजयित्वा लोहदण्डं दक्षिणां दद्यात् ॥ (३१।१)
hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt ||
हंसबकबलाकामद्गुवानरश्येनभासचक्रवाकानाम् अन्यतमं हत्वा ब्राह्मणाय गां दद्यात् ॥ (३३।१)
haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt ||
अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे । (४६।१)
asthanvatāṃ tu sattvānāṃ sahasrasya pramāpaṇe |
पूर्णे चानस्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ (४६।२)
pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret ||
किंचिद् एव तु विप्राय दद्याद् अस्थिमतां वधे । (४७।१)
kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe |
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ (४७।२)
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati ||
फलदानां तु वृक्षाणां छेदने जप्यम् ऋक्शतम् । (४८।१)
phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam |
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ (४८।२)
gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām ||
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । (४९।१)
annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ |
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ (४९।२)
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam ||
कृष्टजानाम् ओषधीनां जातानां च स्वयं वने । (५०।१)
kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane |
वृथालम्भे ऽनुगच्छेद् गां दिनम् एकम् पयोव्रतः ॥ (५०।२)
vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ ||
Data courtesy of The Digital Corpus of Sanskrit.