1.1१.१गृही वलीपलितदर्शने वनाश्रयो भवेत् ॥ (१।१)
gṛhī valīpalitadarśane vanāśrayo bhavet ||
2.1२.१अपत्यस्य चापत्यदर्शने वा ॥ (२।१)
apatyasya cāpatyadarśane vā ||
3.1३.१पुत्रेषु भार्यां निक्षिप्य तयानुगम्यमानो वा ॥ (३।१)
putreṣu bhāryāṃ nikṣipya tayānugamyamāno vā ||
4.1४.१तत्राप्यग्नीन् उपचरेत् ॥ (४।१)
5.1५.१अफालकृष्टेन पञ्च यज्ञान् न हापयेत् ॥ (५।१)
aphālakṛṣṭena pañca yajñān na hāpayet ||
6.1६.१स्वाध्यायं च न जह्यात् ॥ (६।१)
svādhyāyaṃ ca na jahyāt ||
7.1७.१ब्रह्मचर्यं पालयेत् ॥ (७।१)
8.1८.१चर्मचीरवासाः स्यात् ॥ (८।१)
9.1९.१जटाश्मश्रुलोमनखांश्च बिभृयात् ॥ (९।१)
jaṭāśmaśrulomanakhāṃśca bibhṛyāt ||
11.1११.१कपोतवृत्तिर् मासनिचयः संवत्सरनिचयो वा ॥ (११।१)
kapotavṛttir māsanicayaḥ saṃvatsaranicayo vā ||
12.1१२.१संवत्सरनिचयी पूर्वनिचितम् आश्वयुज्यां जह्यात् ॥ (१२।१)
saṃvatsaranicayī pūrvanicitam āśvayujyāṃ jahyāt ||
13.1१३.१ग्रामाद् आहृत्य वाश्नीयाद् अष्टौ ग्रासान् वने वसन् । (१३।१)
grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan |
13.2१३.२पुटेनैव पलाशेन पाणिना शकलेन वा ॥ (१३।२)
puṭenaiva palāśena pāṇinā śakalena vā ||
Data courtesy of The Digital Corpus of Sanskrit.