1.1१.१नरकाभिभूतदुःखानां तिर्यक्त्वम् उत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति ॥ (१।१)
narakābhibhūtaduḥkhānāṃ tiryaktvam uttīrṇānāṃ mānuṣyeṣu lakṣaṇāni bhavanti ||
2.1२.१कुष्ठ्य् अतिपातकी ॥ (२।१)
4.1४.१सुरापः श्यावदन्तकः ॥ (४।१)
6.1६.१गुरुतल्पगो दुश्चर्मा ॥ (६।१)
8.1८.१पूतिवक्त्रः सूचकः ॥ (८।१)
9.1९.१धान्यचोरो ऽङ्गहीनः ॥ (९।१)
10.1१०.१मिश्रचोरो ऽतिरिक्ताङ्गः ॥ (१०।१)
miśracoro 'tiriktāṅgaḥ ||
11.1११.१अन्नापहारकस् त्वामयावी ॥ (११।१)
annāpahārakas tvāmayāvī ||
13.1१३.१वस्त्रापहारकः श्वित्री ॥ (१३।१)
vastrāpahārakaḥ śvitrī ||
15.1१५.१देवब्राह्मणाक्रोशको मूकः ॥ (१५।१)
devabrāhmaṇākrośako mūkaḥ ||
18.1१८.१गुरोः प्रतिकूलो ऽपस्मारी ॥ (१८।१)
guroḥ pratikūlo 'pasmārī ||
21.1२१.१काणश् च दीपनिर्वापकः ॥ (२१।१)
kāṇaś ca dīpanirvāpakaḥ ||
22.1२२.१त्रपुचामरसीसकविक्रयी रजकः ॥ (२२।१)
trapucāmarasīsakavikrayī rajakaḥ ||
23.1२३.१एकशफविक्रयी मृगव्याधः ॥ (२३।१)
ekaśaphavikrayī mṛgavyādhaḥ ||
27.1२७.१मृष्टाश्य् एकाकी वातगुल्मी ॥ (२७।१)
mṛṣṭāśy ekākī vātagulmī ||
28.1२८.१समयभेत्ता खल्वाटः ॥ (२८।१)
samayabhettā khalvāṭaḥ ||
30.1३०.१परवृत्तिघ्नो दरिद्रः ॥ (३०।१)
paravṛttighno daridraḥ ||
31.1३१.१परपीडाकरो दीर्घरोगी ॥ (३१।१)
parapīḍākaro dīrgharogī ||
32.1३२.१एवं कर्मविशेषेण जायन्ते लक्षणान्विताः । (३२।१)
evaṃ karmaviśeṣeṇa jāyante lakṣaṇānvitāḥ |
32.2३२.२रोगान्वितास् तथान्धाश् च कुब्जखञ्जैकलोचनाः ॥ (३२।२)
rogānvitās tathāndhāś ca kubjakhañjaikalocanāḥ ||
33.1३३.१वामना बधिरा मूका दुर्बलाश् च तथापरे । (३३।१)
vāmanā badhirā mūkā durbalāś ca tathāpare |
33.2३३.२तस्मात् सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥ (३३।२)
tasmāt sarvaprayatnena prāyaścittaṃ samācaret ||
Data courtesy of The Digital Corpus of Sanskrit.