Ṛk 3.48.2
Saṃhitā
यज्जाय॑था॒स्तदह॑रस्य॒ कामे॒ऽंशोः पी॒यूष॑मपिबो गिरि॒ष्ठां ।
तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसिं॑च॒दग्रे॑ ॥
यज् जायथास् तद् अहर् अस्य कामे ऽंशोः पीयूषम् अपिबो गिरिष्ठाम् |
तं ते माता परि योषा जनित्री महः पितुर् दम आसिञ्चद् अग्रे ||
yájjā́yathāstádáharasya kā́me’ṃśóḥ pīyū́ṣamapibo giriṣṭhā́m ǀ
tám te mātā́ pári yóṣā jánitrī maháḥ pitúrdáma ā́siñcadágre ǁ
yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām |
taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre ||
Padapāṭha
यत् । जाय॑थाः । तत् । अहः॑ । अ॒स्य॒ । कामे॑ । अं॒शोः । पी॒यूष॑म् । अ॒पि॒बः॒ । गि॒रि॒ऽस्थाम् ।
तम् । ते॒ । मा॒ता । परि॑ । योषा॑ । जनि॑त्री । म॒हः । पि॒तुः । दमे॑ । आ । अ॒सि॒ञ्च॒त् । अग्रे॑ ॥
यत् । जायथाः । तत् । अहः । अस्य । कामे । अंशोः । पीयूषम् । अपिबः । गिरिऽस्थाम् ।
तम् । ते । माता । परि । योषा । जनित्री । महः । पितुः । दमे । आ । असिञ्चत् । अग्रे ॥
yát ǀ jā́yathāḥ ǀ tát ǀ áhaḥ ǀ asya ǀ kā́me ǀ aṃśóḥ ǀ pīyū́ṣam ǀ apibaḥ ǀ giri-sthā́m ǀ
tám ǀ te ǀ mātā́ ǀ pári ǀ yóṣā ǀ jánitrī ǀ maháḥ ǀ pitúḥ ǀ dáme ǀ ā́ ǀ asiñcat ǀ ágre ǁ
yat ǀ jāyathāḥ ǀ tat ǀ ahaḥ ǀ asya ǀ kāme ǀ aṃśoḥ ǀ pīyūṣam ǀ apibaḥ ǀ giri-sthām ǀ
tam ǀ te ǀ mātā ǀ pari ǀ yoṣā ǀ janitrī ǀ mahaḥ ǀ pituḥ ǀ dame ǀ ā ǀ asiñcat ǀ agre ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.048.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.12.02
- Maṇḍala · Anuvāka · Ṛk
- 03.04.066
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.