Ṛk 3.48.4
Saṃhitā
उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
त्वष्टा॑र॒मिंद्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥
उग्रस् तुराषाऌ अभिभूत्योजा यथावशं तन्वं चक्र एषः |
त्वष्टारम् इन्द्रो जनुषाभिभूयामुष्या सोमम् अपिबच् चमूषु ||
ugrásturāṣā́ḷabhíbhūtyojā yathāvaśám tanvám cakra eṣáḥ ǀ
tváṣṭāramíndro janúṣābhibhū́yāmúṣyā sómamapibaccamū́ṣu ǁ
ugras turāṣāḷ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ |
tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu ||
Padapāṭha
उ॒ग्रः । तु॒रा॒षाट् । अ॒भिभू॑तिऽओजाः । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः ।
त्वष्टा॑रम् । इन्द्रः॑ । ज॒नुषा॑ । अ॒भि॒ऽभूय॑ । आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒ब॒त् । च॒मूषु॑ ॥
उग्रः । तुराषाट् । अभिभूतिऽओजाः । यथाऽवशम् । तन्वम् । चक्रे । एषः ।
त्वष्टारम् । इन्द्रः । जनुषा । अभिऽभूय । आऽमुष्य । सोमम् । अपिबत् । चमूषु ॥
ugráḥ ǀ turāṣā́ṭ ǀ abhíbhūti-ojāḥ ǀ yathā-vaśám ǀ tanvám ǀ cakre ǀ eṣáḥ ǀ
tváṣṭāram ǀ índraḥ ǀ janúṣā ǀ abhi-bhū́ya ǀ ā-múṣya ǀ sómam ǀ apibat ǀ camū́ṣu ǁ
ugraḥ ǀ turāṣāṭ ǀ abhibhūti-ojāḥ ǀ yathā-vaśam ǀ tanvam ǀ cakre ǀ eṣaḥ ǀ
tvaṣṭāram ǀ indraḥ ǀ januṣā ǀ abhi-bhūya ǀ ā-muṣya ǀ somam ǀ apibat ǀ camūṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.048.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.12.04
- Maṇḍala · Anuvāka · Ṛk
- 03.04.068
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.