Ṛk 4.56.3
Saṃhitā
स इत्स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ ।
उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ अवं॒शे धीरः॒ शच्या॒ समै॑रत् ॥
स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान |
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम् ऐरत् ||
sá ítsvápā bhúvaneṣvāsa yá imé dyā́vāpṛthivī́ jajā́na ǀ
urvī́ gabhīré rájasī suméke avaṃśé dhī́raḥ śácyā sámairat ǁ
sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna |
urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat ||
Padapāṭha
सः । इत् । सु॒ऽअपाः॑ । भुव॑नेषु । आ॒स॒ । यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । ज॒जान॑ ।
उ॒र्वी इति॑ । ग॒भी॒रे इति॑ । रज॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । अ॒वं॒शे । धीरः॑ । शच्या॑ । सम् । ऐ॒र॒त् ॥
सः । इत् । सुऽअपाः । भुवनेषु । आस । यः । इमे इति । द्यावापृथिवी इति । जजान ।
उर्वी इति । गभीरे इति । रजसी इति । सुमेके इति सुऽमेके । अवंशे । धीरः । शच्या । सम् । ऐरत् ॥
sáḥ ǀ ít ǀ su-ápāḥ ǀ bhúvaneṣu ǀ āsa ǀ yáḥ ǀ imé íti ǀ dyā́vāpṛthivī́ íti ǀ jajā́na ǀ
urvī́ íti ǀ gabhīré íti ǀ rájasī íti ǀ suméke íti su-méke ǀ avaṃśé ǀ dhī́raḥ ǀ śácyā ǀ sám ǀ airat ǁ
saḥ ǀ it ǀ su-apāḥ ǀ bhuvaneṣu ǀ āsa ǀ yaḥ ǀ ime iti ǀ dyāvāpṛthivī iti ǀ jajāna ǀ
urvī iti ǀ gabhīre iti ǀ rajasī iti ǀ sumeke iti su-meke ǀ avaṃśe ǀ dhīraḥ ǀ śacyā ǀ sam ǀ airat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.056.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.08.03
- Maṇḍala · Anuvāka · Ṛk
- 04.05.077
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.