Ṛk 4.56.1
Saṃhitā
म॒ही द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः ।
यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः॑ ॥
मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः |
यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः ||
mahī́ dyā́vāpṛthivī́ ihá jyéṣṭhe rucā́ bhavatām śucáyadbhirarkáiḥ ǀ
yátsīm váriṣṭhe bṛhatī́ viminvánruváddhokṣā́ paprathānébhirévaiḥ ǁ
mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ |
yat sīṃ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evaiḥ ||
Padapāṭha
म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । इ॒ह । ज्येष्ठे॒ इति॑ । रु॒चा । भ॒व॒ता॒म् । शु॒चय॑त्ऽभिः । अ॒र्कैः ।
यत् । सी॒म् । वरि॑ष्ठे॒ इति॑ । बृ॒ह॒ती इति॑ । वि॒ऽमि॒न्वन् । रु॒वत् । ह॒ । उ॒क्षा । प॒प्र॒था॒नेभिः॑ । एवैः॑ ॥
मही इति । द्यावापृथिवी इति । इह । ज्येष्ठे इति । रुचा । भवताम् । शुचयत्ऽभिः । अर्कैः ।
यत् । सीम् । वरिष्ठे इति । बृहती इति । विऽमिन्वन् । रुवत् । ह । उक्षा । पप्रथानेभिः । एवैः ॥
mahī́ íti ǀ dyā́vāpṛthivī́ íti ǀ ihá ǀ jyéṣṭhe íti ǀ rucā́ ǀ bhavatām ǀ śucáyat-bhiḥ ǀ arkáiḥ ǀ
yát ǀ sīm ǀ váriṣṭhe íti ǀ bṛhatī́ íti ǀ vi-minván ǀ ruvát ǀ ha ǀ ukṣā́ ǀ paprathānébhiḥ ǀ évaiḥ ǁ
mahī iti ǀ dyāvāpṛthivī iti ǀ iha ǀ jyeṣṭhe iti ǀ rucā ǀ bhavatām ǀ śucayat-bhiḥ ǀ arkaiḥ ǀ
yat ǀ sīm ǀ variṣṭhe iti ǀ bṛhatī iti ǀ vi-minvan ǀ ruvat ǀ ha ǀ ukṣā ǀ paprathānebhiḥ ǀ evaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.056.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.08.01
- Maṇḍala · Anuvāka · Ṛk
- 04.05.075
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.