Ṛk 4.56.7
Saṃhitā
म॒ही मि॒त्रस्य॑ साधथ॒स्तरं॑ती॒ पिप्र॑ती ऋ॒तं ।
परि॑ य॒ज्ञं नि षे॑दथुः ॥
मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् |
परि यज्ञं नि षेदथुः ||
mahī́ mitrásya sādhathastárantī pípratī ṛtám ǀ
pári yajñám ní ṣedathuḥ ǁ
mahī mitrasya sādhathas tarantī pipratī ṛtam |
pari yajñaṃ ni ṣedathuḥ ||
Padapāṭha
म॒ही इति॑ । मि॒त्रस्य॑ । सा॒ध॒थः॒ । तर॑न्ती॒ इति॑ । पिप्र॑ती॒ इति॑ । ऋ॒तम् ।
परि॑ । य॒ज्ञम् । नि । से॒द॒थुः॒ ॥
मही इति । मित्रस्य । साधथः । तरन्ती इति । पिप्रती इति । ऋतम् ।
परि । यज्ञम् । नि । सेदथुः ॥
mahī́ íti ǀ mitrásya ǀ sādhathaḥ ǀ tárantī íti ǀ pípratī íti ǀ ṛtám ǀ
pári ǀ yajñám ǀ ní ǀ sedathuḥ ǁ
mahī iti ǀ mitrasya ǀ sādhathaḥ ǀ tarantī iti ǀ pipratī iti ǀ ṛtam ǀ
pari ǀ yajñam ǀ ni ǀ sedathuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.056.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.08.07
- Maṇḍala · Anuvāka · Ṛk
- 04.05.081
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.