Ṛk 3.44.1
Saṃhitā
अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः ।
जु॒षा॒ण इं॑द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथं॑ ॥
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः |
जुषाण इन्द्र हरिभिर् न आ गह्य् आ तिष्ठ हरितं रथम् ||
ayám te astu haryatáḥ sóma ā́ háribhiḥ sutáḥ ǀ
juṣāṇá indra háribhirna ā́ gahyā́ tiṣṭha háritam rátham ǁ
ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ |
juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham ||
Padapāṭha
अ॒यम् । ते॒ । अ॒स्तु॒ । ह॒र्य॒तः । सोमः॑ । आ । हरि॑ऽभिः । सु॒तः ।
जु॒षा॒णः । इ॒न्द्र॒ । हरि॑ऽभिः । नः॒ । आ । ग॒हि॒ । आ । ति॒ष्ठ॒ । हरि॑तम् । रथ॑म् ॥
अयम् । ते । अस्तु । हर्यतः । सोमः । आ । हरिऽभिः । सुतः ।
जुषाणः । इन्द्र । हरिऽभिः । नः । आ । गहि । आ । तिष्ठ । हरितम् । रथम् ॥
ayám ǀ te ǀ astu ǀ haryatáḥ ǀ sómaḥ ǀ ā́ ǀ hári-bhiḥ ǀ sutáḥ ǀ
juṣāṇáḥ ǀ indra ǀ hári-bhiḥ ǀ naḥ ǀ ā́ ǀ gahi ǀ ā́ ǀ tiṣṭha ǀ háritam ǀ rátham ǁ
ayam ǀ te ǀ astu ǀ haryataḥ ǀ somaḥ ǀ ā ǀ hari-bhiḥ ǀ sutaḥ ǀ
juṣāṇaḥ ǀ indra ǀ hari-bhiḥ ǀ naḥ ǀ ā ǀ gahi ǀ ā ǀ tiṣṭha ǀ haritam ǀ ratham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.044.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.08.01
- Maṇḍala · Anuvāka · Ṛk
- 03.04.045
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Bṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.