Ṛk 3.44.4
Saṃhitā
ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा॑ति रोच॒नं ।
हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं॑ बा॒ह्वोर्हरिं॑ ॥
जज्ञानो हरितो वृषा विश्वम् आ भाति रोचनम् |
हर्यश्वो हरितं धत्त आयुधम् आ वज्रम् बाह्वोर् हरिम् ||
jajñānó hárito vṛ́ṣā víśvamā́ bhāti rocanám ǀ
háryaśvo háritam dhatta ā́yudhamā́ vájram bāhvórhárim ǁ
jajñāno harito vṛṣā viśvam ā bhāti rocanam |
haryaśvo haritaṃ dhatta āyudham ā vajram bāhvor harim ||
Padapāṭha
ज॒ज्ञा॒नः । हरि॑तः । वृषा॑ । विश्व॑म् । आ । भा॒ति॒ । रो॒च॒नम् ।
हरि॑ऽअश्वः । हरि॑तम् । ध॒त्ते॒ । आयु॑धम् । आ । वज्र॑म् । बा॒ह्वोः । हरि॑म् ॥
जज्ञानः । हरितः । वृषा । विश्वम् । आ । भाति । रोचनम् ।
हरिऽअश्वः । हरितम् । धत्ते । आयुधम् । आ । वज्रम् । बाह्वोः । हरिम् ॥
jajñānáḥ ǀ háritaḥ ǀ vṛ́ṣā ǀ víśvam ǀ ā́ ǀ bhāti ǀ rocanám ǀ
hári-aśvaḥ ǀ háritam ǀ dhatte ǀ ā́yudham ǀ ā́ ǀ vájram ǀ bāhvóḥ ǀ hárim ǁ
jajñānaḥ ǀ haritaḥ ǀ vṛṣā ǀ viśvam ǀ ā ǀ bhāti ǀ rocanam ǀ
hari-aśvaḥ ǀ haritam ǀ dhatte ǀ āyudham ǀ ā ǀ vajram ǀ bāhvoḥ ǀ harim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.044.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.08.04
- Maṇḍala · Anuvāka · Ṛk
- 03.04.048
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Bṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.