Ṛgveda · Maṇḍala 3 · Sūkta 44

Ṛk 3.44.5

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

इंद्रो॑ ह॒र्यंत॒मर्जु॑नं॒ वज्रं॑ शु॒क्रैर॒भीवृ॑तं ।
अपा॑वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ॥

इन्द्रो हर्यन्तम् अर्जुनं वज्रं शुक्रैर् अभीवृतम् |
अपावृणोद् धरिभिर् अद्रिभिः सुतम् उद् गा हरिभिर् आजत ||

índro haryántamárjunam vájram śukráirabhī́vṛtam ǀ
ápāvṛṇoddháribhirádribhiḥ sutámúdgā́ háribhirājata ǁ

indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam |
apāvṛṇod dharibhir adribhiḥ sutam ud gā haribhir ājata ||

Padapāṭha

इन्द्रः॑ । ह॒र्यन्त॑म् । अर्जु॑नम् । वज्र॑म् । शु॒क्रैः । अ॒भिऽवृ॑तम् ।
अप॑ । अ॒वृ॒णो॒त् । हरि॑ऽभिः । अद्रि॑ऽभिः । सु॒तम् । उत् । गाः । हरि॑ऽभिः । आ॒ज॒त॒ ॥

इन्द्रः । हर्यन्तम् । अर्जुनम् । वज्रम् । शुक्रैः । अभिऽवृतम् ।
अप । अवृणोत् । हरिऽभिः । अद्रिऽभिः । सुतम् । उत् । गाः । हरिऽभिः । आजत ॥

índraḥ ǀ haryántam ǀ árjunam ǀ vájram ǀ śukráiḥ ǀ abhí-vṛtam ǀ
ápa ǀ avṛṇot ǀ hári-bhiḥ ǀ ádri-bhiḥ ǀ sutám ǀ út ǀ gā́ḥ ǀ hári-bhiḥ ǀ ājata ǁ

indraḥ ǀ haryantam ǀ arjunam ǀ vajram ǀ śukraiḥ ǀ abhi-vṛtam ǀ
apa ǀ avṛṇot ǀ hari-bhiḥ ǀ adri-bhiḥ ǀ sutam ǀ ut ǀ gāḥ ǀ hari-bhiḥ ǀ ājata ǁ

References

Maṇḍala · Sūkta · Ṛk
03.044.05
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.08.05
Maṇḍala · Anuvāka · Ṛk
03.04.049
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Bṛhatī
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.44.5

Interpretations

Sāyaṇa

सोऽयमिन्द्रो हर्यन्त कमनीयमर्जुनं शुभ्रं । शुभ्रत्वमुपपादयति । शुक्रैः शुभ्रैः क्षीरादिभिरभिवृतं ब्याप्तं वज्रं वेगवन्तं हरिभिः । हर्नत्येभिः सोमरसानिति हरयः । तैरद्रिभिर्ग्रावभिः सुतमभिषुतं सोममपावृणोत् । आवरणरहितमकरोत् । तथा च मन्त्रवर्णः । पूषा राजानमाघृणिरपगूळ्हं गुहा हितं अविन्दत् । ऋग्वे. १-२३-१४ । इति तथा गाः पणिभिरपहृता गा हरिभिरश्वैरुपेतः स इन्द्र उदाजत । विलान्निरगमयत् । अज्रुनं । अर्ज षर्ज अर्जन इत्यस्मादर्जेर्णिलुक्चेत्युनन् । नित्स्वरः । अभिवृतं । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वं । आजत । अज गति क्षेपणयोः । लङि व्यत्ययेनात्मनेपदं । निघातः ॥ ५ ॥