Ṛk 3.45.1
Saṃhitā
आ मं॒द्रैरिं॑द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः ।
मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे॑व॒ ताँ इ॑हि ॥
आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः |
मा त्वा के चिन् नि यमन् विं न पाशिनो ऽति धन्वेव तां इहि ||
ā́ mandráirindra háribhiryāhí mayū́raromabhiḥ ǀ
mā́ tvā ké cinní yamanvím ná pāśínó’ti dhánveva tā́m̐ ihi ǁ
ā mandrair indra haribhir yāhi mayūraromabhiḥ |
mā tvā ke cin ni yaman viṃ na pāśino 'ti dhanveva tāṃ ihi ||
Padapāṭha
आ । म॒न्द्रैः । इ॒न्द्र॒ । हरि॑ऽभिः । या॒हि । म॒यूर॑रोमऽभिः ।
मा । त्वा॒ । के । चि॒त् । नि । य॒म॒न् । विम् । न । पा॒शिनः॑ । अति॑ । धन्व॑ऽइव । तान् । इ॒हि॒ ॥
आ । मन्द्रैः । इन्द्र । हरिऽभिः । याहि । मयूररोमऽभिः ।
मा । त्वा । के । चित् । नि । यमन् । विम् । न । पाशिनः । अति । धन्वऽइव । तान् । इहि ॥
ā́ ǀ mandráiḥ ǀ indra ǀ hári-bhiḥ ǀ yāhí ǀ mayū́raroma-bhiḥ ǀ
mā́ ǀ tvā ǀ ké ǀ cit ǀ ní ǀ yaman ǀ vím ǀ ná ǀ pāśínaḥ ǀ áti ǀ dhánva-iva ǀ tā́n ǀ ihi ǁ
ā ǀ mandraiḥ ǀ indra ǀ hari-bhiḥ ǀ yāhi ǀ mayūraroma-bhiḥ ǀ
mā ǀ tvā ǀ ke ǀ cit ǀ ni ǀ yaman ǀ vim ǀ na ǀ pāśinaḥ ǀ ati ǀ dhanva-iva ǀ tān ǀ ihi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.045.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.09.01
- Maṇḍala · Anuvāka · Ṛk
- 03.04.050
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Bṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.