Ṛgveda · Maṇḍala 3 · Sūkta 45

Ṛk 3.45.5

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

स्व॒युरिं॑द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः ।
स वा॑वृधा॒न ओज॑सा पुरुष्टुत॒ भवा॑ नः सु॒श्रव॑स्तमः ॥

स्वयुर् इन्द्र स्वराऌ असि स्मद्दिष्टिः स्वयशस्तरः |
स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ||

svayúrindra svarā́ḷasi smáddiṣṭiḥ sváyaśastaraḥ ǀ
sá vāvṛdhāná ójasā puruṣṭuta bhávā naḥ suśrávastamaḥ ǁ

svayur indra svarāḷ asi smaddiṣṭiḥ svayaśastaraḥ |
sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ ||

Padapāṭha

स्व॒ऽयुः । इ॒न्द्र॒ । स्व॒ऽराट् । अ॒सि॒ । स्मत्ऽदि॑ष्टिः । स्वय॑शःऽतरः ।
सः । व॒वृ॒धा॒नः । ओज॑सा । पु॒रु॒ऽस्तु॒त॒ । भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥

स्वऽयुः । इन्द्र । स्वऽराट् । असि । स्मत्ऽदिष्टिः । स्वयशःऽतरः ।
सः । ववृधानः । ओजसा । पुरुऽस्तुत । भव । नः । सुश्रवःऽतमः ॥

sva-yúḥ ǀ indra ǀ sva-rā́ṭ ǀ asi ǀ smát-diṣṭiḥ ǀ sváyaśaḥ-taraḥ ǀ
sáḥ ǀ vavṛdhānáḥ ǀ ójasā ǀ puru-stuta ǀ bháva ǀ naḥ ǀ suśrávaḥ-tamaḥ ǁ

sva-yuḥ ǀ indra ǀ sva-rāṭ ǀ asi ǀ smat-diṣṭiḥ ǀ svayaśaḥ-taraḥ ǀ
saḥ ǀ vavṛdhānaḥ ǀ ojasā ǀ puru-stuta ǀ bhava ǀ naḥ ǀ suśravaḥ-tamaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
03.045.05
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.09.05
Maṇḍala · Anuvāka · Ṛk
03.04.054
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Bṛhatī
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.45.5

Interpretations

Sāyaṇa

हे इन्द्र स्वयुर्धनवानसि । तथा स्वराट् स्वर्गस्य राजासि । स्मद्दिष्टिर्भद्रवाक्यः । स्वयशस्तरो‍ऽतिशयेन प्रभूतकीर्तिरसि । हे पुरुष्टुत बहुभिराहूतेन्द्र स त्वमोजसा बलेन वावृधानः वर्धमानः सन् नोऽस्मदर्थं सुश्रवस्तमोऽतिशयेन शोभनान्नोपेतो भव । स्वयुः स्वशब्दान्मत्वर्धीयो युः । स्वराट् । राजृ दीप्तौ । क्विप् । व्रश्चादिना षत्वं । स्मद्दिष्टिः । स्मत् समदित्यर्थे । उकारलोपश्छान्दसः । बहुव्रीहौ पूर्वपदस्वरः । पुरुष्टुत । संहितायांस्तुतस्तोमयोश्छन्दसीतिषत्वं । भव । भवतेर्लोटि रूपं । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । सुश्रवस्तमः । श्रवः शब्दोऽनुनन्तः । बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वं । तदन्तादतिशायने तमप् । तस्य पित्त्वादनुदात्तत्वे बहुव्रीहि स्वरः ॥ ५ ॥