Ṛk 3.44.2
Saṃhitā
ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं॑ ह॒र्यन्न॑रोचयः ।
वि॒द्वांश्चि॑कि॒त्वान्ह॑र्यश्व वर्धस॒ इंद्र॒ विश्वा॑ अ॒भि श्रियः॑ ॥
हर्यन्न् उषसम् अर्चयः सूर्यं हर्यन्न् अरोचयः |
विद्वांश् चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ||
haryánnuṣásamarcayaḥ sū́ryam haryánnarocayaḥ ǀ
vidvā́ṃścikitvā́nharyaśva vardhasa índra víśvā abhí śríyaḥ ǁ
haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ |
vidvāṃś cikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ ||
Padapāṭha
ह॒र्यन् । उ॒षस॑म् । अ॒र्च॒यः॒ । सूर्य॑म् । ह॒र्यन् । अ॒रो॒च॒यः॒ ।
वि॒द्वान् । चि॒कि॒त्वान् । ह॒रि॒ऽअ॒श्व॒ । व॒र्ध॒से॒ । इन्द्र॑ । विश्वा॑ । अ॒भि । श्रियः॑ ॥
हर्यन् । उषसम् । अर्चयः । सूर्यम् । हर्यन् । अरोचयः ।
विद्वान् । चिकित्वान् । हरिऽअश्व । वर्धसे । इन्द्र । विश्वा । अभि । श्रियः ॥
haryán ǀ uṣásam ǀ arcayaḥ ǀ sū́ryam ǀ haryán ǀ arocayaḥ ǀ
vidvā́n ǀ cikitvā́n ǀ hari-aśva ǀ vardhase ǀ índra ǀ víśvā ǀ abhí ǀ śríyaḥ ǁ
haryan ǀ uṣasam ǀ arcayaḥ ǀ sūryam ǀ haryan ǀ arocayaḥ ǀ
vidvān ǀ cikitvān ǀ hari-aśva ǀ vardhase ǀ indra ǀ viśvā ǀ abhi ǀ śriyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.044.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.08.02
- Maṇḍala · Anuvāka · Ṛk
- 03.04.046
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Bṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.